अध्यायः 180

युधिष्ठिरेण जगत्सृष्टिप्रकारं पृष्टेन भीष्मेण भरद्वाजाय भृगूदितसृष्टिप्रकारकथनारम्भः ॥ 1 ॥ भृगुणा भरद्वाजं प्रतिमहत्तत्त्वादिपद्मपर्यन्तसृष्टिप्रकारकथनम् ॥ 2 ॥ तथा पझकर्णिकाभूतमेरुस्थेन ब्रह्मणा लोकसृष्टिकथनम् ॥ 3 ॥

युधिष्ठिर उवाच ।
कुतः सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम् ।
प्रलये च किमभ्येति तन्मे ब्रूहि पितामह ॥
ससागरः सगगनः सशैलः सबलाहकः ।
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ॥
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः ।
शोचाशौचं कथं तेषां धर्माधर्मावथो कथम् ॥
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः ।
अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान् ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
भृगुणाऽभिहितं श्रेष्ठं भरद्वाजाय पृच्छते ॥
कैलासशिखरे दृष्ट्वा दीप्यमानमिवौजसा ।
भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत ॥
ससागरः सगगनः शशैलः सवलाहकः ।
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ॥
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः । शौचाशौचं कथं तेषां धर्माधर्मावथो कथम् ।
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः ।
परलोकमिमं चापि सर्वं शंसितृमर्हसि ॥
एवं स भगवान्पृष्टो भरद्वाजेन संशयम् ।
ब्रह्मर्पिर्ब्रह्मसंकाशः सर्वं तस्मै ततोऽब्रवीत् ॥
भृगुरुवाच ।
`नारायणो जगन्मूर्तिरन्तरात्मा सनातनः ।
कूटस्थोऽक्षर अव्यक्तो निर्लेपो व्यापकः प्रभुः ॥
प्रकृतेः परतो नित्यमिन्द्रियैरप्यगोतरः । स सिसृक्षुः सहस्रांशादसृजत्पुरुषं प्रभुः ॥'
मानसो नाम यः पूर्वो विश्रुतो वै महर्षिभिः ।
अनादिनिधनो देवस्तथाऽभेद्योऽदजरामरः ॥
अव्यक्त इति विख्यातः शाश्वतोऽथाक्षयोऽव्ययः ।
यतः सृष्टानि भूतानि तिष्ठन्ति च म्रियन्ति च ॥
सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः । महान्ससर्जाहंकारं स चापि भगवानथ ।
आकाशमिति विख्यातं सर्वभूतधरः प्रभुः ॥
आकाशादभवद्वारि सलिलादग्निमारुतौ ।
अग्निमारुतसंयोगात्ततः समभवन्मही ॥
ततस्ते गेमयं दिव्यं पद्मं सृष्टं स्वयंभुवा ।
तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो निधिः ॥
अहंकार इति ख्यातः सर्वभूतात्मभूतकृत् ।
ब्रह्मा वै स महातेजा य एते पञ्चधातवः ॥
शैलास्तस्यास्थिसंज्ञास्तु मेदो मांसं च मेदिनी ।
समुद्रास्तस्य रुधिरमाकाशमुदरं तथा ॥
पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः सिराः ।
दिवाकरश्च सोमश्च नयने तस्य विश्रुते ॥
नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ भुजौ दिशः ।
दुर्विज्ञेयो ह्यनन्तात्मा सिद्धैरपि न संशयः ॥
स एष भगवान्विष्णुरनन्त इति विश्रुतः ।
सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्माभः ॥
अहंकारस्य यः स्रष्टा सर्वभूतोद्भवाय वै ।
यतः समभवद्विश्वं पृष्टोऽहं यदिह त्वया ॥
भरद्वाज उवाच ।
गगनस्य दिशां चैव भूतलस्यानिलस्य च ।
कान्यत्र परिमाणानि संशयं छिन्धि मेऽर्थितः ॥
भृगुरुवाच ।
अनन्तमेतदाकाशं सिद्धचारणसेवितम् ।
रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते ॥
ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः ।
तत्र देवाः स्वयं दीप्ताः सूर्यभासोऽग्निवर्चसः ॥
ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः ।
दुर्गमत्वादनन्तत्वादिति वै विद्धि मानद ॥
उपर्युपरि तैर्देवैः प्रज्वलद्भिः स्वयंप्रभैः ।
निरुद्धमेतदाकाशमप्रमेयं सुरैरपि ॥
पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम् ।
तप्नसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च ॥
रसातलान्ते सलिलं जलान्ते पन्नगाधिपाः ।
तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम् ॥
एवमन्तं हि नभसः प्रमाणं सलिलस्य च ।
अग्निमारुतयोश्चैव दुर्ज्ञेयं दैवतैरपि ॥
अग्निमारुततोयानां वर्णाः क्षितितलस्य च ।
आकाशसदृशा ह्येते भिद्यन्तेऽतत्वदर्शनात् ॥
पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च ।
त्रैलोक्यसागरे चैव प्रमाणं विहितं यथा ॥
अदृश्यत्वादगम्यत्वात्कः प्रमाणमुदाहरेत् । सिद्धानां देवतानां च यदा परिमिता गतिः ।
तदा गौणमनन्तस्य नामानन्तेति विश्रुतम् ॥
नामधेयानुरूपस्य मानसस्य महात्मनः । यदा तु र्दिव्यं यद्रूपं ह्रसते वर्धते पुनः ।
कोऽन्यस्तद्वेदितुं शक्तो योपि स्यात्तद्विधोऽपरः ॥
ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः ।
ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः ॥
भरद्वाज उवाच ।
पुष्कराद्यदि संभूतो ज्येष्ठं भवति पुष्करम् ।
ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे ॥
भृगुरुवाच ।
मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता ।
तस्यासनविधानार्थं पृथिवी पद्ममुच्यते ॥
कर्णिकां तस्य पद्मस्य मेरुर्गगमुच्छ्रितः । तस्य मध्ये स्थितो लोकान्सृजते जगतः प्रभुः ।
मानसांश्च तथा देवान्भूतानि विविधानि च ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अशीत्यधिकशततमोऽध्यायः ॥ 180 ॥

12-180-3 कथमिति सृष्टिप्रकारप्रश्नः । विभक्तयो विभागाः ॥ 12-180-4 जीवतां प्राणिनाम् ॥ 12-180-20 अग्नीषोमौ तु चन्द्रार्कौ नयने इति झ. पाठः । तत्र अग्नीषोमावेव चन्द्रार्कावित्यन्वयः ॥ 12-180-23 भूतोद्भवाय भूतोत्पत्तये । स्रष्टाहंकारस्येति संबन्धः । यतो विश्वं समभवद्यव त्वयाहं पृष्टस्तत्तुभ्यमुक्तमिति शेषः ॥ 12-180-24 छिन्धि तत्वत इति झ. पाठः ॥ 12-180-25 आश्रयाश्चतुर्दशभुवनानि ॥ 12-180-26 गतेः सूर्यरश्मिगतेरपि ऊर्ध्वमधस्ताच्च चन्द्रादित्यौ न दृश्येते ॥ 12-180-27 तेऽपि सूर्यादिगतेरूर्ध्वाधस्था अपि ॥ 12-180-32 वर्णाः स्वरूपाणि आकाशसदृशाः आकाशवदनन्ताः । अतत्वदर्शनात् पृथिव्यादीनां तत्वानवगमात् । भिद्यन्ते परिच्छिन्नवदाभान्ति ॥ 12-180-33 कथतर्हि पञ्चाशत्कोटियोजनविस्तारायामादिरूपं परिमाणं पठन्तीत्यत आह पठन्तीति ॥ 12-180-34 अदृश्याय त्वगम्याय इति झ. पाठः ॥ 12-180-36 ब्रह्मा चतुर्मुखः ॥