अध्यायः 181

भरद्वाजंप्रति भृगुणा मेरुस्थब्रह्मणा जलादिभूम्यन्तसृष्टिप्रकारकथनम् ॥ 1 ॥

भरद्वाज उवाच ।
मेरुमध्ये स्थितो ब्रह्मा कथं स ससृजे प्रजाः ।
एतन्मे सर्वमाचक्ष्व याथातथ्येन पृच्छतः ॥
भृगुरुवाच ।
प्रजाविसर्गं पूर्वं स मानसो मनसाऽसृजत् ।
संरक्षणार्थं भूतानां सृष्टं प्रथमतो जलम् ॥
यत्प्राणः सर्वभूतानां वर्धन्ते येन च प्रजाः ।
परित्यक्ताश्च नश्यन्ति तेनेदं सर्वमावृतम् ॥
पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे ।
सर्वं तद्वारुणं ज्ञेयमापस्तस्तम्भिरे हि ताः ॥
भरद्वाज उवाच ।
कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ ।
कथं वा मेदिनी सृष्टेत्यत्र मे संशयो महान् ॥
भृगुरुवाच ।
ब्रह्मकल्पे पुरा ब्रह्मन्ब्रह्मर्षीणां समागमे ।
लोकसंभवसन्देहः समुत्पन्नो महात्मनाम् ॥
तेऽतिष्ठन्ध्यानमालम्ब्य मौनमास्थाय निश्चलाः ।
त्यक्ताहाराः पवनपा दिव्यं वर्षशतं द्विजाः ॥
तेषां ब्रह्ममयी वाणी सर्वेषां श्रोत्रमागमत् ।
दिव्या सरस्वती तत्र संबभूव नभस्तलात् ॥
पुराऽस्तमितनिःशब्दमाकाशमचलोपमम् ।
नष्टचन्द्रार्कपवनं प्रसुप्तमिव संबभौ ॥
ततः सलिलमुत्पन्नं तमसीवापरं तमः ।
तस्माच्च सलिलोत्पीडात्समजायत मारुतः ॥
यथा भाजनमच्छिद्रं निःशब्दमिह लक्ष्यते ।
तच्चाम्भसा पूर्यमाणं सशब्दं कुरुतेऽनिलः ॥
तथा सलिलसंरुद्धे नभसोन्ते निरन्तरे ।
भित्त्वाऽर्णवतलं वायुः समुत्पतति घोषवान् ॥
स एष चरते वायुरर्णवोत्पीडसंभवः ।
आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति ॥
तस्मिन्वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः ।
प्रादुर्बभूवोर्ध्वशिखः कृत्वा निस्तिमिरं नभः ॥
अग्निः पवनसंयुक्तः स्वात्समुत्क्षिपते जलम् ।
सोऽग्निमारुतसंयोगाद्धनत्वमुपपद्यते ॥
तस्याकाशान्निपतितः स्नेहस्तिष्ठति योऽपरः ।
स संघातत्वमापन्नो भूमित्वमनुगच्छति ॥
रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा ।
भूमिर्योनिरिह ज्ञेया यस्यां सर्वं प्रसूयते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकाशीत्यधिकशततमोऽध्यायः ॥ 181 ॥

12-181-3 यत् जलम् । तेन जलेन ॥ 12-181-4 वारुणं वरुणदेवतासंबन्धादाप्यमित्यर्थः । मूर्तिमत् मनुष्यपश्वादिविग्रहवत् । आप्यत्वे हेतुः । आपस्तस्तम्भिरे यत आपस्तम्भं धनीभावं पृथिव्यादिरूपं प्राप्ताः ॥ 12-181-6 ब्रह्मकल्पे ब्रह्मप्रथमदिने । लोकानां संभव उत्पत्तिस्तत्र विषये संदेहः ॥ 12-181-8 तेषां धर्ममयीति ट. ड. पाठः ॥ 12-181-9 सरस्वतीमेवाह पुरेति । स्तिमितमाकाशमनन्तमिति झ. पाठः ॥