अध्यायः 014

युधिष्ठिरंप्रति द्रौपदीवचनम् ॥ 1 ॥

वैशंपायन उवाच ।
अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे ।
भ्रातृणां ब्रुवतां तांस्तान्विविधान्वेदनिश्चयान् ॥
महाभिजनसंपन्ना श्रीमत्यायतलोचना ।
अभ्यभाषत राजानं द्रौपदी योषितां वरा ॥
आसीनमृषभं राज्ञां भ्रातृभिः परिवारितम् ।
सिंहशार्दूलसदृशैर्वारणैरिव यूथपम् ॥
अभिमानवती नित्यं विशेषेण युधिष्ठिरे ।
लालिता सततं राज्ञा धर्माधर्मनिदर्शिनी ॥
आमन्त्रयित्वा सुश्रोणी साम्ना परमवल्गुना ।
भर्तारमभिसंप्रेक्ष्य ततो वचनमब्रवीत् ॥
द्रौपद्युवाच ।
इमे ते भ्रातरः पार्थ शुष्यन्ते स्तोकका इव ।
वावाश्यमानास्तिष्ठन्ति न चैनानभिनन्दसे ॥
नन्दयैतान्महाराज मत्तानिव महाद्विपान् ।
उपपन्नेन वाक्येन सततं दुःखभागिनः ॥
कथं द्वैतवने राजन्पूर्वमुक्त्वा तथा वचः ।
भ्रातॄनेतान्स्म सहिताञ्शीतवातातपार्दितान् ॥
वयं दुर्योधनं हत्वा मृधे भोक्ष्याम मेदिनीम् ।
संपूर्णां सर्वकामानामाहवे विजयैषिणः ॥
नृवीरांश्च रथान्हत्वा निहत्य च महागजान् ।
संस्तीर्य च रथैर्भूमिं ससादिभिररिंदमाः ॥
यजेभ विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः ।
वनवासकृतं दुःखं भविष्यति सुखाय नः ॥
इत्येतानेवमुक्त्वा त्वं स्वयं धर्मभृतां वर ।
कथमद्य पुनर्वीर विनिहंसि मनांसि नः ॥
न क्लीबो वसुधां भुङ्क्ते न क्लीबो धनमश्नुते ।
न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते ॥
नादण्डः क्षत्रियो भाति नादण्डो भूमिमश्नुते ।
नादण्डस्य प्रजा राज्ञः सुखं विन्दन्ति भारत ॥
`सदेवासुरगन्घर्वैरप्सरोभिर्विभूषितम् ।
रक्षोभिर्गुह्यकैर्नागैर्मनुष्यैश्च विभूषितम् ॥
त्रिवर्गेण च संपूर्णं त्रिवर्गस्यागमेन च ।
दण्डेनाभ्याहृतं सर्वं जगद्भोगाय कल्पते ॥
स्वायंभुवं महीपाल आगमं शृणु शाश्वतम् ।
विप्राणां विदितश्चायं तव चैव विशांपते ॥
अराजके हि लोकेऽस्मिन्सर्वतो विद्रुते भयात् । रक्षार्थमस्य लोकस्य राजानमसृजत्प्रभुः ।
महाकायं महावीर्यं पालने जगतः क्षमम् ॥
अनिलाग्नियमार्काणामिन्द्रस्य वरुणस्य च ।
चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥
यस्मादेषां सुरेन्द्राणां संभवत्यंशतो नृपः ।
तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥
तपत्यादित्यवच्चैव चक्षूंषि च मनांसि च ।
च चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् ॥
सोऽग्निर्भवति वायुश्च सोऽर्कः सोमश्च धर्मराट् ।
स कुबेरः स वरुणः स महेन्द्रः प्रतापवान् ॥
पितामहस्य देवस्य विष्णोः शर्वस्य चैव हि ।
ऋषीणां चैव सर्वेषां तस्मिंस्तेजः प्रतिष्ठितम् ॥
बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।
महती देवता ह्येषा नररूपेण तिष्ठति ॥
एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् ।
कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् ॥
धृतराष्ट्रकुलं दग्धं क्रोधोद्भूतेन वह्निना ।
प्रत्यक्षमेतल्लोकस्य संशयो हि न विद्यते ॥
कुलजो वृत्तसंपन्नो धार्मिकश्च महीपतिः ।
प्रजानां पालने युक्तः पूज्यते दैवतैरपि ॥
कार्यं योऽवेक्ष्य शक्तिं च देशकालौ च तत्वतः ।
कुरुते धर्मसिद्ध्यर्थं वैश्वरूप्यं पुनः पुनः ॥
तस्य प्रसादे पझा श्रीर्विजयश्च पराक्रमे ।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥
तं यस्तु द्वेष्टि संमोहात्स विनश्यति मानवः ।
तस्य ह्याशुविनाशाय राजाऽपि कुरुते मनः ॥
तस्माद्धर्मं यदिष्टेषु स व्यवस्यति पार्थिवः ।
अनिष्टं चाप्यनिष्टेषु तद्धर्मं न विचालयेत् ॥
तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् ॥
ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः ॥
तस्य सर्वाणि भूतानि स्थावराणि चराणि च ।
भयाद्भोगाय कल्पन्ते धर्मान्न विचलन्ति च ॥
देशकालौ च शक्तिं च कार्यं चावेक्ष्य तत्वतः ।
यथार्हतः संप्रणयेन्नरेष्वन्यायवर्तिषु ॥
स राजा पुरुषो दण्डः स नेता शासिता च सः ।
वर्णानामाश्रमाणां च धर्मप्रभुरथाव्ययः ॥
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥
सुसमीक्ष्य धृतो दण्डः सर्वा रञ्जयति प्रजाः ।
असमीक्ष्य प्रणीतस्तु विनाशयति सर्वशः ॥
यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः ।
जले मत्स्यानिवाभक्ष्यन्दुर्बलान्बलवत्तराः ॥
काकोऽद्याच्च पुरोडाशं श्वा चैवावलिहेद्धविः ।
स्वामित्वं न क्वचिच्च स्यात्प्रपद्येताधरोत्तरम् ॥
सर्वो दण्डजितो लोको दुर्लभस्तु शुचिर्नरः ।
दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते ॥
देवदानवगन्धर्वा रक्षांसि पतगोरगाः ।
तेऽपि भोगाय कल्पन्ते दण्डेनैवाभिपीडिताः ॥
दूष्येयुः सर्ववर्णाश्च भिद्येरन्सर्वसेतवः ।
सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा ।
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥
आहुस्तस्य प्रणेतारं राजानं सत्यवादिनम् ।
समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ॥
तं राजा प्रणयन्सम्यक्स्वर्गायाभिप्रवर्तते ।
कामात्मविषयी क्षुद्रो दण्डेनैव निहन्यते ॥
दण्डो हि सुमहातेजा दुर्धरश्चाकृतात्मभिः ।
धर्माद्विचलितं हन्ति नृपमेव सबान्धवम् ॥
ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् ।
अन्तरिक्षगतांश्चैव मुनीन्देवांश्च हिंसति ॥
सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना ।
अशक्यो न्यायतो नेतुं विषयांश्चैव सेवता ॥
शुचिना सत्यसन्धेन नीतिशास्त्रानुसारिणा ।
दण्डः प्रणेतुं शक्यो हि सुसहायेन धीमता ॥
स्वराष्ट्रे न्यायवर्ती स्याद्भृशदण्डश्च शत्रुषु ।
सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥
एवंवृत्तस्य राज्ञस्तु शिलोञ्छेनापि जीवतः ।
विस्तीर्येत यशो लोके तैलबिन्दुरिवाम्भसि ॥
अतस्तु विपरीतस्य नृपतेरकृतात्मनः ।
संक्षिप्येन यशो लोके घृतबिन्दुरिवाम्भसि ॥
देवदेवेन रुद्रेण ब्रह्मणा च महीपते ।
विष्णुना चैव देवेन शक्रेण च महात्मना ॥
लोकपालैश्च भूतैश्च पाण्डवैश्च महात्मभिः । धर्माद्विचलिता राजन्धार्तराष्ट्रा निपातिताः ।
अधार्मिका दुराचाराः ससैन्या विनिपातिताः ॥
तान्निहत्य न दोषस्ते स्वल्पोऽपि जगतीपते । छलेन मायया वाऽथ क्षत्रधर्मेण वा नृप ॥'
मित्रता सर्वभूतेषु दानमध्ययनं तपः ।
ब्राह्मणस्यैव धर्मः स्यान्न राज्ञो राजसत्तम ॥
असतां प्रतिषेधश्च सतां च परिपालनम् ।
एष राज्ञां परो धर्मः समरे चापलायनम् ॥
यस्मिन्क्षमा च क्रोधश्च दानादाने भयाभये ।
निग्रहानुग्रहौ चोभौ स वै धर्मविदुच्यते ॥
न श्रुतेन न दानेन न सांत्वेन न चेज्यया ।
त्वयेयं पृथिवी लब्धा न संकोचेन चाप्युत ॥
यत्तद्बलममित्राणां तथा वीरसमुद्यतम् ।
हस्त्यश्वरथसंपन्नं त्रिभिरङ्गैरनुत्तमम् ॥
रक्षितं द्रोणकर्णाभ्यामश्वत्थाम्ना कृपेण च ।
तत्त्वया निहतं वीर तस्माद्भुङ्क्ष्व वसुंधराम् ॥
जम्बूद्वीपो महाराज नानाजनपदैर्युतः ।
त्वया पुरुषशार्दूल दण्डेन मृदितः प्रभो ॥
जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप ।
अपरेण महामेरोर्दण्डेन मृदितस्त्वया ॥
क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप ।
पूर्वेण तु महामेरोर्दण्डेन मृदितस्त्वया ॥
उत्तरेण महामेरोः शाकद्वीपेन संमितः ।
भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस्त्वया ॥
द्वीपाश्च सान्तरद्वीपा नानाजनपदाश्रयाः ।
विगाह्य सागरं वीर दण्डेन मृदितास्त्वया ॥
एतान्यप्रतिमेयानि कृत्वा कर्माणि भारत ।
न प्रीयसे महाराज पूज्यमानो द्विजातिभिः ॥
स त्वं भ्रातॄनिमान्दृष्ट्वा प्रतिनन्दस्व भारत ।
ऋषभानिव संमत्तान्गजेन्द्रान्गर्जितानिव ॥
अमरप्रतिमाः सर्वे शत्रुसाहाः परंतपाः ।
एकैकोऽपि सुखायैषां मम स्यादिति मे मतिः ॥
किं पुनः पुरुषव्याघ्राः पतयो मे नरर्षभाः ।
समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने ॥
अनृतं नाब्रवीच्छ्वश्रूः सर्वज्ञा सर्वदर्शिनी ।
युधिष्ठिरस्त्वां पाञ्चालि सुखे धास्यत्यनुत्तमे ॥
इत्वा राजसहस्राणि बहून्याशुपराक्रमः ।
तद्व्यर्थं संप्रपश्यामि मोहात्तव जनाधिप ॥
येषामुन्मत्तको ज्येष्ठः सर्वे तेऽप्यनुसारिणः ।
तवोन्मादान्महाराजसोन्मादाः सर्वपाण्डवाः ॥
यदि हि स्युरनुन्मत्ता भ्रातरस्ते नराधिप ।
बद्ध्वा त्वां नास्तिकैः सार्धं प्रशासेयुर्वसुंधराम् ॥
कुरुते मूढ एवं हि यः श्रेयो नाधिगच्छति ।
धूपैरञ्जनयोगैश्च नस्यकर्मभिरेव च ॥
`उन्मत्तिरपनेतव्या तव राजन्यदृच्छया ।' भेषजैः स चिकित्स्यः स्याद्य उन्मार्गेण गच्छति ॥
साहं सर्वाधमा लोके स्त्रीणां भरतसत्तम ।
तथा विनिकृता पुत्रैर्याऽहमिच्छामि जीवितुम् ॥
धृतराष्ट्रसुता राजन्नित्यमुत्पथगामिनः ।
तादृशानां वधे दोषं नाहं पश्यामि कर्हिचित् ॥
इमांश्चोशनसा गीताञ्श्लोकाञ्श्रृणु नराधिप ॥
आत्महन्ताऽर्थहन्ता च बन्धुहन्ता विषप्रदः ।
अकारणेन हन्ता च यश्च भार्यां परामृशेत् ॥
निर्दोषं वधमेतेषां षण्णामप्याततायिनाम् ।
ब्रह्मा प्रोवाच भगवान्भार्गवाय महात्मने ॥
ब्रह्मक्षत्रविशां राजन्सत्पथे वर्तिनामपि ।
प्रसह्यागारमागम्य हन्तारं गरदं तथा ॥
अभक्ष्यापेयदातारमग्निदं च निशातयेत् ।
मार्ग एष महीपानां गोब्राह्मणवधेषु च ॥
केशग्रहे च नारीणामपि युध्येत्पितामहम् ।
ब्रह्माणं देवदेवेशं किं पुनः पापकारिणम् ॥
गोब्राह्मणार्थे व्यसने च राज्ञां राष्ट्रोपमर्दे स्वशरीरहेतोः ।
स्त्रीणां च विक्रुष्टरुतानि श्रुत्वा विप्रोऽपि युध्येत महाप्रभावः ॥
धर्माद्विचलितं विप्रं निहन्यादाततायिनम् ।
तस्यान्यत्र वधं विद्वान्मनसाऽपि न चिन्तयेत् ॥
गोब्राह्मणवधे वृत्तं मन्त्रत्राणार्थमेव च ।
निहन्यात्क्षत्रियो विप्रं स्वकुटुम्बस्य चाप्तये ॥
तस्करेण नृशंसेन धर्मात्प्रचलितेन च ।
क्षत्रबन्धुः परं शक्त्या युध्येद्विप्रेण संयुगे ॥
आततायिनमायान्तमपि वेदान्तपारगम् ।
जिघांसन्तं जिघांसीयान्न तेन भ्रूणहा भवेत् ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽप्यन्त्यजोपि वा ।
न हन्याद्ब्राह्मणं शान्तं तृणेनापि कदाचन ॥
ब्राह्मणायावगुर्याद्यः स्पृष्ट्वा गुरुतरं महत् ।
वर्षाणां त्रिशतं पापः प्रतिष्ठां नाधिगच्छति ॥
सहस्राणि च वर्षाणि निहत्य नरके पतेत् ।
तस्मान्नैवावगुर्याद्धि नैव शस्त्रं निपातयेत् ॥
शोणितं यावतः पांसून्गृह्णातीति हि धारणा ।
तावतीः स समाः पापो नरके परिवर्तते ॥
त्वगस्थिभेदं विप्रस्य यः कुर्यात्कारयेत वा ।
ब्रह्महा स तु विज्ञेयः प्रायश्चित्ती नराधमः ॥
श्रोत्रियं ब्राह्मणं हत्वा तथाऽऽत्रेयीं च ब्राह्मणीम् ।
चतुर्विशतिवर्षाणि चरेद्ब्रह्महणो व्रतम् ॥
द्विगुणां ब्रह्महत्येयं सर्वैः प्रोक्ता महर्षिभिः ।
प्रायश्चित्तमकुर्वाणं कृताङ्कं विप्रवासयेत् ॥
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं वा घातयेन्नृपः ।
ब्रह्मघ्नं तस्करं चैव माभूदेवं चरिष्यति ॥
छित्त्वा हस्तौ च पादौ च नासिकोष्ठौ च भूपतिः ।
ब्रह्मघ्नं चोत्तमं पापं नेत्रोद्धारेण योजयेत् ॥
शूद्रस्यैव स्मृतो दण्डस्तद्वद्राजन्यवैश्ययोः ।
प्रायश्चित्तमकुर्वाणं ब्राह्मणं तु प्रवासयेत् ॥
क्षत्रियं वैश्यशूद्रौ च शस्त्रेणैव च घातयेत् ।
ब्रह्मघ्नान्ब्राह्मणात्राजा कृताङ्कान्विप्रवासयेत् ॥
विकलेन्द्रियांस्त्रिवर्णांश्च चण्डालैः सह वासयेत् ।
तैश्च यः संपिबेत्कश्चित्स पिबन्ब्रह्महा भवेत् ॥
प्रेतानां न च देयानि पिण्डदानानि केनचित् ॥
कृष्णवर्णा विरूपा च निर्णीता लम्बमूर्धजा ।
दुनोत्यदृष्ट्वा कर्तारं ब्रह्महत्येति तां विदुः ॥
ब्रह्मघ्नेन पिबन्तश्च विप्रा देशाः पुराणि च ।
अचिरादेव पीड्यन्ते दुर्भिक्षव्याधितस्करैः ॥
ब्राह्मणं पापकर्माणं विप्राणामाततायिनम् ।
क्षत्रियं वैश्यशूद्रौ च नेत्रोद्धारेण योजयेत् ॥
दुर्बलानां बलं राजा बलिनो ये च साधवः ।
बलिनां दुर्बलानां च पापानां मृत्त्युरिष्यते ॥
सदोषमपि यो हन्यादश्राव्य जगतीपते ।
दुर्बलं बलवन्तं वा स पराजयमर्हति ॥
राजाज्ञां प्राड्विवाकं च नेच्छेद्यच्चापि निष्पतेत् ।
साक्षिणं साधुवाक्यं च जितं तमपि निर्दिशेत् ॥
बन्धनान्निष्पतेद्यच्च प्रतिभूर्न ददाति च ।
कुलजश्च धनाढ्यश्च स पराजयमर्हति ॥
राजाज्ञया समाहूतो यो न गच्छेत्सभां नरः ।
बलवन्तमुपाश्रित्य सायुधः स पराजितः ॥
तं दण्डेन विनिर्जित्य महासाहसिकं नरम् ।
वियुक्तदेहसर्वस्वं परलोकं विसर्जयेत् ॥
मृतस्यापि न देयानि पिण्डदानानि केनचित् ।
दत्त्वा दण्डं प्रयच्छेत मध्यमं पूर्वसाहयम् ॥
कुलस्त्रीव्यभिचारं च राष्ट्रस्य च विमर्दनम् ।
ब्रह्महत्यां च चौर्यं च राजद्रोहं च पञ्चमम् ॥
युद्धादन्यत्र हिंसायां सुरापस्य च कीर्तने ।
महान्तं गुरुतल्पे च मित्रद्रोहे च पातकम् ॥
न कथंचिदुपेक्षेत महासाहसिकं नरम् ।
सर्वस्वमपहृत्याशु ततः प्राणैर्वियोजयेत् ॥
त्रिषु वर्णेषु यो दण्डः प्रणीतो ब्रह्मणा पुरा ।
महासाहसिकं विप्रं कृताङ्कं विप्रवासयेत् ॥
साहस्रो वा भवेद्दण्डः काञ्चनो देहनिष्क्रिया ।
चतुर्णामपि वर्णानामेवमाहोशना कविः ॥
नारीणां बालवृद्धानां गोपतेश्च महामतिः । पापानां दुर्विनीतानां प्राणान्तं च बृहस्पतिः ।
दण्डमाह महाभाग सर्वेषामाततायिनाम् ॥
सर्वेषां पापबुद्धीनां पापकर्मैव क्वुर्वताम् । धृतराष्ट्रस्य पुत्राणां दण्डो निर्दोष इष्यते ।
सौबलस्य च दुर्बुद्धेः कर्णस्य च दुरात्मनः ॥
पश्यतां चैव शूराणां याऽहं द्यूते सभां तदा । रजस्वला समानीता भवतां पश्यतां नृप ।
वाससैकेन संवीता तव दोषेण भूपते ॥
माभूद्धर्मविलोपस्ते धृतराष्ट्रकुलक्षयात् ।
क्रोधाग्निना तु दग्धं च सपशुद्रव्यसंचयम् ॥
साऽहमेवंविधं दुःखं संप्राप्ता तव हेतुना ।
आदित्यस्य प्रसादेन न च प्राणैर्वियोजिता ॥
रक्षिता देवदेवेन जगतः कालहेतुना ।
दिवाकरेण देवेन विवस्त्रा न कृता तदा' ॥
एतेषां यतमानानां न मेऽद्य वचनं मृषा ।
त्वं तु सर्वां महीं त्यक्त्वा कुरुषे स्वयमापदम् ॥
यथाऽऽस्तां संमतौ राज्ञां पृथिव्यां राजसत्तम् ।
मांधाता चाम्बरीषश्च तथा राजन्विराजसे ॥
प्रशाधि पृथिवीं देवीं प्रजा धर्मेण पालयन् ।
सपर्वतवनद्वीपां मा राजन्विमना भव ॥
यजस्व विविधैर्यज्ञैर्युध्यस्वारीन्प्रयच्छ च ।
धनानि भोगान्वासांसि द्विजातिभ्यो नृपोत्तम ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुर्दशोऽध्यायः ॥ 14 ॥

12-14-6 स्तोककाश्चातका वावाश्यमानाः पुनः पुनः क्रन्दन्तः ॥ 12-14-7 उपपन्नेन युक्तियुक्तेन ॥ 12-14-9 सर्वकामानां सर्वैरर्थैः ॥ 12-14-13 क्लीबोऽधीरः । अविपाला इवासत इति. ट. ड. पाठः । वत्सपाला इवासत इति थ. पाठः ॥ 12-14-57 प्रतिषेधो दण्डो राज्यान्निर्वासनं वा ॥ 12-14-58 दानं आदानं च ते ॥ 12-14-59 संकोचेन याञ्चया ॥ 12-14-63 अपरेण पश्चिमतः 12-14-64 क्रौञ्चद्वीपादिवशीकरणं सिद्धद्वारा राजसूये ॥ 12-14-73 सर्वे तेप्यवमानिता इति ट. ड. द. पठः ॥ 12-14-75 नस्यकर्म नासाद्वारा भेषजग्रहणम् ॥