अध्यायः 188

भृगुणा भरद्वाजंप्रति धर्माधर्मयोः सुखदुःखसाधनत्वे प्रतिपादिते ऋष्यादीनां स्वर्गानपेक्षणाद्व्यभिचारशङ्किना भरद्वाजेरतदाक्षेपः ॥ 1 ॥ भृगुणा मोक्षस्वरूपनिरूपणपूर्वकं निष्कामकर्मणस्तत्साधनत्वमक्षतमिति स्वाभिप्रायाविष्करणम् ॥ 2 ॥

भृगुरुवाच ।
सत्यं ब्रह्म तपः सत्यं सत्यं सृजति च प्रजाः ।
सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति ॥
अनृतं तमसो रूपं तमसा नीयते ह्यधः ।
तमोग्रस्ता न पश्यन्ति प्रकाशं तमसाऽऽवृतम् ॥
स्वर्गः प्रकाश इत्याहुर्नरकं तम एव च ।
सत्यानृतात्तदुभयं प्राप्यते जगतीचरैः ॥
तत्र त्वेवंविधा लोके वृत्तिः सत्यानृते भवेत् ।
धर्माधर्मौ प्रकाशश्च तमो दुःखं सुखं तथा ॥
तत्र यत्सत्यं स धर्मो यो धर्मः स प्रकाशो यः प्रकाशस्तत्सुखमिति । तत्र यदनृतं सोऽधर्मो योऽधर्मस्तत्तमो यत्तमस्तद्दुःखमिति ॥
अत्रोच्यते ।
शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः ।
लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः ॥
तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः ।
सुखं ह्यनित्यं भूतानामिह लोके परत्र च ॥
राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते ।
तथा तमोभिभूतानां भूतानां भ्रश्यते सुखम् ॥
तत्खलु द्विविधं सुखमुच्यते शारीरं मानसं च । इह खल्वमुष्मिंश्च लोके सर्वारम्भप्रवृत्तयः सुखार्थमभिधीयन्ते न ह्यतः परं त्रिवर्गफलं विशिष्टतरमस्ति स एष काम्यो गुणविशेषो धर्मार्थगुणारम्भस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजनार्थ आरम्भः ॥
भरद्वाज उवाच ।
यदेतद्भवताऽभिहितं सुखानां परमार्थस्थितिरिति तन्न गृह्णीमो न ह्येषामृषीणां तपसि स्थितानामप्राप्य एव काम्यो गुणविशेषो न चैनमभिलषन्ति च तपसि श्रूयते त्रिलोकेकृद्ब्रह्मा प्रभुरेकाकी तिष्ठति । ब्रह्मचारी न कामसुखेष्वात्मानमवदधाति । अपिच भगवान्विश्वेश्वर [उमापतिः] काममभिवर्तमानमनङ्गत्वेन नाशमनयत् । तस्माद्ब्रूमो न तु महात्मभिः प्रतिगृहीतोऽयमर्थो तत्वेष तावद्विशिष्टो गुणगण इति । नैतद्भगवान्प्रत्येति भगवतोक्तं सुखानां परमार्थस्थितिरिति लोकप्रवादो हि द्विविधः फलोदयः सुकृतात्सुखमवाप्यते दुष्कृताद्दुःखमिति ॥
भृगुरुवाच ।
अत्रोच्यते । अनृतात्खलु तमः प्रादुर्भूतं ततस्तमोग्रस्ता अधर्ममेवानुवर्तन्ते न धर्मम् । क्रोधलोभमोहमदादिभिरवच्छन्ना न खल्वस्मिँल्लोके नामुत्र सुखमाप्नुवन्ति । विविधव्याधिव्रणरुजोपतापैरवकीर्यन्ते । वधबन्धननिरोधपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते । चण्डवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यन्ते । बन्धुधनविननाशविप्रयोगकृतैश्च मानसैः शोकैरभिभूयन्ते जरामृत्युकृतैश्चान्यैरिति ॥
यदैतैः शारीरैर्मानसैर्दुःखैर्न स्पृश्यते तत्सुखं विद्यात् ।
न चैते दोषाः स्वर्गे प्रादुर्भवन्ति तत्र खलु भवन्ति ॥
सुसुखः पवनः स्वर्गे गन्धश्च सुरभिस्तथा ।
क्षुत्पिपासाश्रमो नास्ति न जरा न च पातकम् ॥
नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम् ।
नरके दुःखमेवाहुः सुखं तु परमं पदम् ॥
पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः ।
पुमान्प्रजापतिस्तत्र शुक्रं तेजोमयं विदुः ॥
इत्येतल्लोकनिर्माणं ब्रह्मणा विहितं पुरा ।
प्रजा विपरिवर्न्तते स्वैः स्वैः कर्मभिरावृताः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टाशीत्यधिकशततमोऽध्यायः ॥ 188 ॥

12-188-9 लोके वस्तुप्रवृत्तयः इति झ. पाठः ॥ 12-188-10 अनङ्गत्वेन शममनयत् इति झ. पाठः ॥ 12-188-11 क्रोधलोभहिंसानृतादिभिरिति चण्डवातात्युष्णेति च झ. पाठः ॥ 12-188-16 प्रजाः समनुवर्तन्ते इति झ. पाठः ॥