अध्यायः 192

भीष्मेण युधिष्ठिरंप्रत्यध्यात्मनिरूपणम् ॥ 1 ॥

युधिष्ठिर उवाच ।
अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते ।
यदध्यात्मं यथा चैतत्तन्मे ब्रूहि पितामह ॥
कुतः सृष्टमिदं सर्वं ब्रह्मन्स्थावरजङ्गमम् ।
प्रलये च कमभ्येति तन्मे वक्तुमिहार्हसि ॥
भीष्म उवाच ।
अध्यात्ममिति मां पार्थ यदेतदनुपृच्छसि ।
तद्व्याख्यास्यामि ते तात श्रेयस्करतमं शुभम् ॥
[सृष्टिप्रलयसंयुक्तमाचार्यैः परिदर्शितम् ।] यज्ज्ञात्वा पुरुषो लेके प्रीतिं सौख्यं च विन्दति ।
फललाभश्च तस्य स्यात्सर्वभूतहितं च तत् ॥
`आत्मानममलं राजन्नावृत्यैवं व्यवस्थितम् ।
तस्मिन्प्रकाशते नित्यं तमः सोमो यथैव तत् ॥
तद्विद्वान्नष्टयाप्मैष ब्रह्मभूयाय कल्पते । अण्डावरणभूतानां पर्यन्तं हि यथा तमः ॥'
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ॥
यतः सृष्टानि तत्रैव तानि यान्ति पुनःपुनः ।
महाभूतानि भूतेभ्यः सागरस्योर्मयो यथा ॥
प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः ।
तद्वद्भूतानि भूतात्मा सृष्ट्वा संहरते पुनः ॥
`स तेषां गुणसंघातः शरीरे भरतर्षभ ।
सततं प्रविलीयन्ते गुणास्ते प्रभवन्ति च ॥
यद्विना नैव शृणुते न पश्यति न दीप्यते ।
यदधीनं यतस्तस्मादध्यात्ममिति कथ्यते ॥
ज्ञानं तदेकरूपाख्यं नानाप्रज्ञान्वितं तदा ।
न तेवाचाऽनुरूपं स्याद्यया रासविवर्जितम् ॥
आकाशात्खलु याज्येषु भवन्ति सुमहागुणाः । इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम् ।
प्रलये च तमभ्येति तस्मादुत्सृज्यते पुनः । महाभूतेषु भूतात्मा सृष्ट्वा संहरते पुनः ॥'
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् ।
अकरोत्तेषु वैषम्य तत्तु जीवो न पश्यति ॥
शब्दः श्रोत्रं तथा खानि त्रयमाकाशसंभवम् ।
वायोः स्पर्शस्तथा चेष्टा त्वक्चैव त्रितयं स्मृतम् ॥
रूपं चक्षुस्तथा पाकस्त्रिविधं तेज उच्यते ।
रसः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः ॥
घ्रेयं घ्राणं शरीरं च एते भूमिगुणास्त्रयः ।
महाभूतानि पञ्चैव षष्ठं च मन उच्यते ॥
इन्द्रियाणि मनश्चैव विज्ञानान्यस्य भारत ।
सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः ॥
चक्षुरालोचनायैव संशयं कुरुते मनः ।
बुद्धिरध्यवसानाय क्षेत्रज्ञः साक्षिवत्स्थितः ॥
`चिच्छक्त्याधिष्ठिता बुद्धिश्चेतनेत्यभिविश्रुता ।
चेतनानन्तरो जीवस्तदा वेत्ति च लक्ष्यते ॥
नोत्सृजन्विसृजंश्चैव शरीरं दृश्यते तमः ।
तस्मिंश्चेतोपलब्धिः स्यात्तमो वा सारयन्त्युत ॥
ऊर्ध्वं पादतलाभ्यां यदर्वाक्चोर्ध्वं च पश्यति ।
एतेन सर्वमेवेदं बिद्ध्यभिव्याप्तमन्तरम् ॥
पुरुषैरिन्द्रियाणीह विजेतव्यानि कृत्स्नशः ।
तमो रजश्च सत्वं च तेऽपि भावास्तदाश्रिताः ॥
एतां बुद्ध्वा नरो बुद्ध्या भूतानामागतिं गतिम् ।
समवेक्ष्य शनैश्चैव लभते शममुत्तमम् ॥
गुणैर्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि ।
मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः ॥
इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम् ।
प्रलीयते चोद्भवति तस्मान्निर्दिश्यते तथा ॥
येन पश्यति तच्चक्षुः शृणोति श्रोत्रमुच्यते ।
जिघ्रति घ्राणमित्याहू रसं जानाति जिह्वया ॥
त्वचा स्पर्शयते स्पर्शं बुद्धिर्विक्रियतेऽसकृत् ।
येन संकल्पयत्यर्थं किंचिद्भवति तन्मनः ॥
अधिष्ठानानि बुद्धेर्हि पृथगर्थानि पञ्चधा ।
पञ्चेन्द्रियाणि यान्याहुस्तान्यदृश्योऽधितिष्ठति ॥
पुरुषाधिष्ठिता बुद्धिस्त्रिषु भावेषु वर्तते ।
कदाचिल्लभते प्रीतिं कदाचिदनुशोचति ॥
न सुखेन न दुःखेन कदाचिदपि वर्तते ।
एवं नराणां मनसि त्रिषु भावेष्ववस्थिता ॥
सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते ।
सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥
अविभागगता बुद्धिर्भावे मनसि वर्तते ।
प्रवर्तमानं तु रजस्तद्भावमनुवर्तते ॥
इन्द्रियाणि हि सर्वाणि प्रवर्तयति सा तदा ।
ततः सत्वं तमो भावः प्रातियोगात्प्रवर्तते ॥
प्रीतिः सत्वं रजः शोकस्तमो मोहस्तु ते त्रयः ।
येये च भावा लोकेऽस्मिन्सर्वेष्वेतेषु वै त्रिषु ॥
इति बुद्धिगतिः सर्वा व्याख्याता तव भारत ।
इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता ॥
सत्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा ।
त्रिविधा वेदना चैव सर्वसत्वेषु दृश्यते ॥
सात्विकी राजसी चैव तामसी चेति भारत । सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः ।
तमोगुणेन संयुक्तौ भवतो व्यावहारिकौ ॥
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् ।
वर्तते सात्विको भाव इत्युपेक्षेत तत्तथा ॥
अथ यद्दुःखसंयुक्तमप्रीतिकरमात्मनः ।
प्रवृत्तं रज इत्येव तन्न संरभ्य चिन्तयेत् ॥
अथ यन्मोहसंयुक्तमव्यक्तविषयं भवेत् । अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ।
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ।
कथंचिदभिवर्तन्त इत्येते सात्विका गुणा ॥
अतुष्टिः परितापश्च शोको लोभस्तथाऽक्षमा ।
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः ॥
अभिमानस्तथा मोहः प्रमादः स्वप्नतन्द्रिता ।
कथंचिदभिवर्तन्ते विविधास्तामसा गुणाः ॥
दूरगं बहुधागामि प्रार्थनासंशयात्मकम् ।
मनः सुनियतं यस्य स सुखी प्रेत्य चेह च ॥
सत्वक्षेत्रज्ञयोरेतदन्तरं पश्य सूक्ष्मयोः ।
सृजते तु गुणानेक एको न सृजते गुणान् ॥
मशकोदुम्बरौ वाऽपि संप्रयुक्तौ यथा सदा ।
अन्योन्यमेतौ स्यातां च संप्रयोगस्तथा तयोः ॥
पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा ।
यथा मत्स्यो जलं चैव संप्रयुक्तौ तथैव तौ ॥
न गुणा विदुरात्मानं स गुणान्वेति सर्वशः ।
परिद्रष्टा गुणानां स संसृष्टान्मन्यते तथा ॥
इन्द्रियैस्तु प्रदीपार्थं कुरुते बुद्धिसप्तमैः ।
निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवत् ॥
सृजते हि गुणान्सत्वं क्षेत्रज्ञः परिपश्यति ।
संप्रयोगस्तयोरेष सत्वक्षेत्रज्ञयोर्ध्रुवः ॥
आश्रयो नास्ति सत्वस्य क्षेत्रज्ञस्य च कश्चन ।
सत्वं मनः संसृजते न गुणान्वै कदाचन ॥
रश्मीस्तेषां स मनसा यदा सम्यङ्गियच्छति ।
तदा प्रकाशतेऽस्यात्मा घटे दीपो ज्वलन्निव ॥
त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः ।
सर्वभूतात्मभूस्तस्मात्स गच्छेदुत्तमां गतिम् ॥
यथा वारिचरः पक्षी सलिलेन न लिप्यते ।
एवमेव कृतप्रज्ञो भूतेषु परिवर्तते ॥
एवं स्वभावमेवैतत्स्वबुद्ध्या विहरेन्नरः ।
अशोचन्नप्रहृष्यंश्च चरेद्विगतमत्सरः ॥
स्वभावसिद्ध्या युक्तस्तु स नित्यं सृजत गुणान् ।
ऊर्णनाभिर्यथा सूत्रं विज्ञेयास्तन्तुवद्गुणाः ॥
प्रध्वस्ता न निवर्न्तते निवृत्तिर्नोपलभ्यते ।
प्रत्यक्षेण परोक्षं तदनुमानेन सिध्यति ॥
एवमेकेऽध्यवस्यन्ति निवृत्तिरिति चापरे ।
उभयं संप्रधार्यैतद्व्यवस्येत यथामति ॥
इतीमं हृदयग्रत्थिं बुद्धिभेदमयं दृढम् ।
विमुच्य सुखमासीत न शोचेच्छिन्नसंशयः ॥
मलिनाः प्राप्नुयुः शुद्धिं यथा पूर्णां नदीं नराः ।
अवगाह्य सुविद्वांसो विद्धि ज्ञानमिदं तथा ॥
महानद्या हि पारज्ञस्तप्यते न तदन्यथा ।
न तु तप्यति तत्त्वज्ञः फले ज्ञाते तरत्युत ॥
एवं ये विदुराध्यात्मं केवलं ज्ञानमुत्तमम् ॥
एतां बुद्धा नरः सर्वां भूतानामागतिं गतिम् ।
अवेक्ष्य च शनैर्बुद्ध्या लभते शममुत्तमम् ॥
त्रिवर्गो यस्य विदितः प्रेक्ष्य तं स विमुच्यते ।
अन्वीक्ष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः ॥
न चात्मा शक्यते द्रष्टुमिन्द्रियेषु विभागशः ।
तत्रतत्र विसृष्टेषु दुर्वार्येष्वकृतात्मभिः ॥
एतद्बुद्धा भवेद्बुद्धः किमन्यद्बुद्धिलक्षणम् ।
प्रतिगृह्य च निह्नोति ह्यन्यथा च प्रदृश्यते ॥
न सर्पति च यं प्राहुः सर्वत्र प्रतिहन्यते ।
धूमेन चाप्रसन्नोऽग्निर्यथाऽर्कं न प्रवर्तयेत् ॥
धिष्ण्याधिपे प्रसन्ने तु स्थितिमेतां निरीक्षते ।
अतिक्षूराच्च सूक्ष्मत्वात्प्रस्थानं न प्रकाशते ॥
प्रपद्य तच्छ्रुताह्नानि चिन्मयं स्वीकृतं विना ।
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः ॥
न भवति विदुषां ततो भयं यदविदुषां सुमहद्भयं भवेत् ।
न हि गतिरधिकास्ति कस्यचि त्सति हि गुणे प्रवदन्त्यतुल्यताम् ॥
यः करोत्यनभिसन्धिपूर्वकं तच्च निर्णुदति यत्पुरा कृतम् ।
नाप्रियं तदुभयं कुतः प्रियं तस्य तज्जनयतीह सर्वतः ॥
लोकमातुरमसूयते जन स्तस्य तज्जनयतीह सर्वतः ।
लोक आतुरजनान्विराविण स्तत्तदेव बहु पश्य शोचतः । तत्र पश्य कुशलानशोचतो
ये विदुस्तदुभयं पदं सताम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विनवत्यधिकशततमोऽध्यायः ॥ 192 ॥

12-192-47 क्षेत्रक्षेत्रज्ञयोरेतदिति ध. पाठः ॥ 12-192-61 बुद्धिमोहमयं दृढमिति थ. ध. पाठः ॥ 12-192-63 पारज्ञस्तप्यते न चरन्यथेति ध. पाठः । पारज्ञास्तरन्ते न तदन्यथेति ट.थ. पाठः ॥