अध्यायः 193

भीष्मेण युधिष्ठिरंप्रति ध्यानयोगकथनम् ॥ 1 ॥

भीष्म उवाच ।
हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम् ।
यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्तीह महर्षयः ॥
यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः ।
महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः ॥
नावर्तन्ते पुनः पार्थ मुक्ताः संसारदोषतः ।
अन्मदोषपरिक्षीणाः स्वभावे पर्युपस्थिताः ॥
निर्द्वन्द्वा नित्यसत्वस्था विमुक्तिं नित्यमश्रिताः ।
असङ्गीन्यविवादीनि मनः शान्तिकराणि च ॥
तत्र ध्यानेन संश्लिष्टमेकाग्रे धारयेन्मनः ।
तत्र च ध्यानसंरोधादथ ज्ञानी भवत्युत ॥
चतुर्विधेषु भावेषु योऽर्थसक्तः सदैव हि । तज्ज्ञात्वा वास्तवं तेषामर्थेषु परिवर्तते ।
पिण्डीकृत्येन्द्रियग्राममासीनः काष्ठवन्मुनिः ॥
शब्दं न विन्देच्छ्रोत्रेण त्वचा स्पर्शं न वेदयेत् ।
रूपं न चक्षुषा विद्याज्जिह्वया न रसांस्तथा ॥
घ्रेयाण्यपि च सर्वाणि जह्याद्राणेन योगवित् ।
पञ्चवर्गप्रमाथीनि नेच्छेच्चैतानि वीर्यवान् ॥
ततो मनसि संसृज्य पञ्चवर्ग विचक्षणः ।
समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चमिः ॥
विसंचारि निरालम्बं पञ्चद्वारं चलाचलम् ।
पूर्वं ध्यानपदे धीरः समादध्यान्मनो नरः ॥
इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम् ।
एव ध्यानपथः पूर्वो मया समनुवर्णितः ॥
तस्य तत्पूर्वसंरुद्धमात्सषष्ठं मनोऽन्तरा ।
स्फुरिष्यति समुद्धान्तं विद्युदम्बुधरे यथा ॥
जलबिन्दुर्यथा लोलः पर्णस्थः सर्वतश्चलः ।
एवमेवास्य तच्चित्तं भ्रमति ध्यानवर्त्मनि ॥
समाहितं क्षणं किंचिद्ध्यानवर्त्मनि तिष्ठति ।
पुनर्वायुपथं प्राप्तं मनो भवति वायुवत् ॥
अनिर्वेदो गतक्लेशो गततन्द्रीरमत्सरः ।
समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित् ॥
विचारश्च विवेकश्च वितर्कश्चोपजायते ।
मुनेः समादधानस्य प्रथमं ध्यानमादितः ॥
मनसा क्लिश्यमानस्तु समाधानं च कारयेत् ।
न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम् ॥
पांसुभस्मकरीषाणां यथा वै राशयश्चिताः ।
सहसा वारिणा सिक्ता न यान्ति परिभावनम् ॥
किंचित्स्निग्धं यथा च स्याच्छुष्कचूर्णमभावितम् ।
क्रमशस्तु शनैर्गच्छेत्सर्वं तत्परिभावनम् ॥
एवमेवेन्द्रियग्रामं शनैः संपरिभावयेत् ।
संहरेत्क्रमशश्चैनं स सम्यक्प्रशमिष्यति ॥
स्वयमेव मनश्चैवं पञ्चवर्गं च भारत ।
पूर्वं ध्यानपथे स्थाप्य नित्ययोगेन शाम्यति ॥
न तत्पुरुषकारेण न च दैवेन केनचित् ।
सुखमेष्यति तत्तस्य न भवन्ति विपत्तयः ॥
सुखेन तेन संयुक्तो रस्यते ध्यानकर्मणि ।
गच्छन्ति योगिनो ह्येवं निर्वाणं तन्निरामयम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिनवत्यधिकशततमोऽध्यायः ॥ 193 ॥

12-193-3 स्वगावे पर्यवस्थिता इति झ. ध. पाठः ॥ 12-193-10 ध्यानपथे इति ड. पाठः ॥ 12-193-14 भ्रनति ज्ञानवर्त्मनीति ट. ड. पाठः ॥