अध्यायः 015
युधिष्ठिरंप्रत्यर्जुनवाक्यम् ॥ 1 ॥
याज्ञसेन्या वचः श्रुत्वा पुनरेवार्जुनोऽब्रवीत् ।
अनुमान्य महाबाहुं ज्येष्ठं भ्रातरमीश्वरम् ॥
अर्जुन उवाच ।
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
दण़्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥
दण्डः संरक्षते धर्मं तथैवार्यं जनाधिप ।
कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते ॥
दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते ।
एतद्विद्वानुपादाय स्वभावं पश्य लौकिकम् ॥
राजदण्डभयादेके नराः पापं न कुर्वते ।
यमदण्डभयादेके परलोकभयादपि ॥
परस्परभयादेके पापाः पापं न कुर्वते ।
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् ॥
दण्डस्यैव भयादेके न खादन्ति परस्परम् ।
अन्धेतमसि मज्जेयुर्यदि दण्डो न पालयेत् ॥
यस्माददान्तान्दमयत्यशिष्टान्दण्डयत्यपि ।
दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ॥
वाचि दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् ।
धनदण्डाः स्मृता वैश्या निर्दण्डः शूद्र उच्यते ॥
असंमोहाय मर्त्यानामर्थसंरक्षणाय च ।
मर्यादा स्थापिता लोके दण्डसंज्ञा विशांपते ॥
यत्र श्यामो लोहिताक्षो दण्डश्चरति सूद्यतः ।
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थस्च भिक्षुकः ।
दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः ॥
नाभीतो यजते राजन्नाभीतो दातुमिच्छति ।
नाभीतः पुरुषः कश्चित्समये स्थातुमिच्छति ॥
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दुष्करम् ।
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥
नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः ।
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत ।
`माहेन्द्रं च गृहं लेभे लोकानां चेश्वरोऽभवत् ॥'
य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम् ।
हन्तारुद्रस्तथास्कन्दः शक्रोऽग्निर्वरुणो यमः ॥
हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः ।
वसवो मरुतः साध्या विश्वेदेवाश्च भारत ॥
एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः ।
न ब्रह्माणं न धातारं न पूषाणं कथंचन ॥
मध्यस्थान्सर्वभूतेषु दान्ताञ्शमपरायणान् ।
यजन्ते मानवाः केचित्प्रशान्तान्सर्वकर्मसु ॥
न हि पश्यामि जीवन्तं लोके कंचिदर्हिसया ।
सत्वैः सत्वा हि जीवन्ति दुर्बलैर्बलवत्तराः ॥
नकुलो मूषिकानत्ति बिडालो नकुलं तथा ।
बिडालमत्ति श्वा राजञ्श्वानं व्यालमृगस्तथा ॥
तानत्ति पुरुषः सर्वान्पश्य धर्मो यथा गतः ।
प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत् ॥
विधानं दैवविहितं तत्र विद्वान्न मुह्यति ।
यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि ॥
विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः ।
विना वधं न कुर्वन्ति तापसाः प्राणयापनम् ॥
उदके बहवः प्राणाः पृथिव्यां च फलेषु च ।
न च कश्चिन्न तान्हन्ति किमन्यत्प्राणयापनम् ॥
सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित् ।
पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः ॥
ग्रामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः ।
वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः ॥
भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान्पशून् ।
मनुष्यास्तन्वये यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च ॥
दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः ।
कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः ॥
दण्डश्चेन्न भवेल्लोके विनश्येयुरिमाः प्रजाः ।
जले मत्स्यानिवाभक्ष्यन्दुर्बलान्बलवत्तराः ॥
सत्यं बतेदं ब्रह्मणा पूर्वमुक्तं दण्डः प्रजा रक्षति साधुनीतः ।
पश्याग्नयः पूतिमांसस्य भीताः सन्तर्जिता दण्डभयाज्ज्वलन्ति ॥
अन्धंतम इवेदं स्यान्न प्रज्ञायेत किंचन ।
दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी ॥
येऽपि संभिन्नमर्यादा नास्तिका वेदनिन्दकाः ।
तेऽपि भोगाय कल्पन्ते दण्डेनाशु निपीडिताः ॥
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः ।
दण्डस्य हि भयाद्भीतो भोगायैव प्रकल्पते ॥
चातुर्वर्ण्यप्रमोदाय सुनीतिकरणाय च ।
दण्डो विधात्रा विहितो धर्मार्थौं भुवि रक्षितुम् ॥
यदि दण्डान्न विभ्येयुर्वयांसि श्वापदानि च ।
अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च ॥
न ब्रह्मचार्यधीयीत न काल्यं दुहते च गौः ।
न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत् ॥
विष्वग्लोपः प्रवर्तेत भिद्येरन्सर्वसेतवः ।
ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत् ॥
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः ।
विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत् ॥
चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः ।
न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत् ॥
न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः ।
न विद्यां प्राप्नुर्यानानि यदि दण्डो न पालयेत् ॥
न प्रेष्या वचनं कुर्युर्न बालो जातु कर्हिचित् ।
तिष्ठेत्पितुर्मते धर्मे यदि दण्डो न पालयेत् ॥
दण्डे स्थिताः प्रजाः सर्वा भयं दण्डे विदुर्बुधाः ।
दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः ॥
न तत्र कूटं पापं वा वञ्चना वाऽपि दृश्यते ।
यत्र दण्डः सुविहितश्चरत्यरिविनाशनः ॥
हविः श्वा प्रलिहेद्दृष्ट्वा दण्डश्चेन्नोद्यतो भवेत् ।
हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत् ॥
यदीदं धर्मतो राज्यं विहितं यद्यधर्मतः ।
कार्यस्तत्र न शोको वै भुङ्क्ष्व भोगान्यजस्व च ॥
सुखेन धर्मं श्रीमन्तश्चरन्ति शुचिवाससः ।
संवसन्तः प्रियैर्दारैर्भुञ्जानाश्चान्नमुत्तमम् ॥
अर्थे सर्वे समारम्भाः समायत्ता न संशयः ।
स च दण्डे समायत्तः पश्य दण्डस्य गौस्वम् ॥
लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम् ।
अहिंसाऽसाधुहिंसेति श्रेयान्धर्मपरिग्रहः ॥
नात्यन्तं गुणवत्किंचिन्न चाप्यत्यन्तनिर्गुणम् ।
उभयं सर्वकार्येषु दृश्यते साध्वसाधु च ॥
पशूनां वृषणं छित्त्वा ततो भिन्दन्ति नस्सु तान् ।
वहन्ति बहवो भारान्बध्नन्ति दमयन्ति च ॥
एवं पर्याकुले लोके वितथैर्जर्झरीकृते ।
तैस्तैर्न्यायैर्महाराज पुराणं धर्ममाचर ॥
यज देहि प्रजा रक्ष धर्मं समनुपालय ।
अमित्राञ्जहि कौन्तेय मित्राणि परिपालय ॥
मा च ते निघ्नतः शत्रून्मन्युर्भवतु पार्थिव ।
न तत्र किल्विषं किंचिद्धन्तुर्भवति भारत ॥
आततायी हि यो हन्यादाततायिनमागतम् ।
न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमार्च्छति ॥
अवध्यः सर्वभूतानामन्तरात्मा न संशयः ।
अवध्ये चात्मनि कथं वध्यो भवति कस्यचित् ॥
यथा हि पुरुषः शालां पुनः संप्रविशेन्नवाम् ।
एव जीवः शरीराणि तानितानि प्रपद्यते ॥
देहान्पुराणानुत्सृज्य नवान्संप्रतिपद्यते ।
एवं मृत्युमुखं प्राहुर्जना ये तत्त्वदर्शिनः ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चदशोऽध्यायः ॥ 15 ॥
12-15-6 संसिद्धिके पशुवत् दण्डार्हस्वभावे ॥ 12-15-8 दमयति
ताडनादिना । दण्डयति वित्तमपहरति ॥ 12-15-9 भुज्यत इति भुजं भक्तं
तन्मात्रार्पणं वेतनप्रदानमित्यर्थः ॥ 12-15-11 श्यामः दृढाभिघातेन
दण्ड्यस्यान्ध्यजनकत्वात् । लोहिताक्षो दण्डयितुः क्रोधातिशयात् । सूद्यतः
सुतरामुद्यतः । साधु यथापराधम् ॥ 12-15-20 सत्वैः सत्वानीति ट. ड. थ. पाठः ॥ 12-15-21 व्यालमृगश्चित्रव्याघ्रः ॥ 12-15-22 पश्य कालो यथा गत इति झ. पाठः ।
पश्य धर्मं यथागतमिति ड. त. पाठः ॥ 12-15-23 यथासृष्टः शौर्यं तेजो
धृतिर्दाक्ष्यमित्याद्युक्तस्वभावः क्षत्रियः सृष्टोऽसि धात्रा ॥ 12-15-24
विनीतावपनीतौ क्रोधहर्षौ यैस्ते । मन्दाः क्षत्रियाः । वधं कन्दमूलादिवधम् ॥ 12-15-26 स्कन्धपर्ययो देहस्य नाशः ॥ 12-15-29 दण्डयुक्ता
नीतिर्दण्डनीतिस्तस्यां प्रणीतायां प्रवर्तितायाम् ॥ 12-15-30 अभक्ष्यन्
भक्षयेयुः ॥ 12-15-31 पश्याग्नयश्च प्रतिशाम्येति झ.पाठः । संतर्जिताः
फूत्कारेण ॥ 12-15-33 भोगाय पालनाय । मर्यादाया इति शेषः ॥ 12-15-36 हन्युः
पशूनिति ट. ड. पाठः ॥ 12-15-37 न कल्याणीं दुहेत गामिति झ. पाठः । तत्र
कल्याणीमपत्यवतीं न दुहेत लोक इत्यर्थः । उद्वहनं न गच्छेत् किंतु व्यभिचरेदेव ॥ 12-15-38 विश्वलोप इति ट. थ. पाठः । सेतवो मर्यादाः । ममत्वं परिच्छिन्नं न
जानीयुः । सर्वः सर्वत्र ममत्वं कुर्यादित्यर्थरः ॥ 12-15-39
तिष्ठेयुरनुतिष्ठेयुः ॥ 12-15-42 न तिष्ठेद्युवतीधर्म इति झ. पाठः ॥ 12-15-46
यदि दण्डवतो राज्यं विहितं यद्यधर्मतः । कार्यं तत्र न कार्यं च इति ड. थ.
पाठः ॥ 12-15-47 संवर्षन्तः फलैदीनैरिति झ. पाठः ॥ 12-15-51 नस्मु नासिकासु ।
भिन्दन्ति मस्तकमिति पाठे मस्तकं भिन्दन्ति शृङ्गवृद्धिर्माभूदितीत्यर्थः ॥ 12-15-52 जर्झरीकृते दण्डेन । तदभावे भारवहनादिकार्यं न स्यादतः पुराणमेव
धर्ममाचर । नत्वत्र प्रवाहायातं हिंसादिदोषमवेक्षस्वेति भावः ॥ 12-15-54
मन्युर्दैन्यम् ॥ 12-15-55 आततायी शस्त्रपाणिः । मन्युः क्रोधः । मन्युं
क्रोधमार्च्छति । आ सर्वत ऋच्छति प्राप्नोति । मन्युः कर्ता नाहं कर्तेति
श्रुतेस्तत्र न भ्रूणहा भवतीत्यर्थः ॥