अध्यायः 196
भीष्मेण युधिष्ठिरंप्रति जापकोपाख्यानम् ॥ 1 ॥
कीदृशं निरयं याति जापको वर्णयस्व मे ।
कौतूहलं हि राजन्मे तद्भवान्वक्तुमर्हति ॥
भीष्म उवाच ।
धर्मस्यांशप्रसूतोऽसि धर्मज्ञोऽसि स्वभावतः ।
धर्ममूलाश्रयं वाक्यं शृणुष्वावहितोऽनघ ॥
अमूनि यानि स्थानानि देवानाममरात्मनाम् ।
नानासंस्थानवर्णानि नानारूपफलानि च ॥
दिव्यानि कामचारीणि विमानानि सभास्तथा ।
आक्रीडा विविधा राजन्पद्मिन्यश्चामलोदकाः ॥
चतुर्णां लोकपालानां शुक्रस्याथ बृहस्पतेः ।
मरुतां विश्वदेवानां साध्यानामश्विनोरपि ॥
रुद्रादित्यवसूनां च तथाऽन्येषां दिवौकसाम् ।
एते वै निरयास्तात स्थानस्य परमात्मनः ॥
अभयं चानिमित्तं च न च क्लेशभयावृतम् ।
द्वाभ्यां मुक्तं त्रिभिर्मुक्तमष्टाभिस्त्रिभिरेव च ॥
चतुर्लक्षणवर्जं तु चतुष्कारणवर्जितम् ।
अप्रहर्षमनानन्दमशोकं विगतक्लमम् ॥
कालः संपच्यते तत्र कालस्तत्र न वै प्रभुः ।
स कालस्य प्रभू राजन्सर्वस्यापि तथेश्वरः ॥
`एतद्वै ब्रह्मणः स्थाने जापकस्य महात्मनः ।
तत्रस्थं परमात्मानं ध्यायन्वै सुसमाहितः ।
हिरण्यगर्भः सायुज्यं प्राप्नुयाद्वा नृपोत्तम ॥'
आत्मकेवलतां प्राप्तस्तत्र गत्वा न शोचति ।
ईदृशं परमं स्थानं निरयास्ते च तादृशाः ॥
एते ते निरयाः प्रोक्ताः सर्व एव यथातथम् ।
तस्य स्थानवरस्येह सर्वे निरयसंज्ञिताः ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षण्णवत्यधिकशततमोऽध्यायः ॥ 196 ॥
12-196-2 धर्ममूलं वेदः परमात्मा च तावाश्रयौ यस्य ॥ 12-196-3
अमूनि वक्ष्यमाणानि देवानां दिव्यदेहानाम् । संस्थानान्याकृतयः । वर्णाः
श्वेतपीताद्याः । नानारूपाण्यनेकविधानि ॥ 12-196-4 आक्रौडाः उद्यानानि ॥ 12-196-7 अभयं नाशभयशून्यम् । अनिमित्तं स्वभावसिद्धम् । त्रिभिर्गुणैः द्वाभ्यां
युक्तं त्रिभिर्युक्तमिति ट. पाठः ॥ 12-196-8 अप्रतर्क्यमनाद्यनन्तमशोकमिति
ट.ड.थ. पाठः ॥ 12-196-9 कालं संवहते तत्रेति ध. पाठः ॥