अध्यायः 197

जापकोपाख्याने कालयमधर्मविप्रेक्ष्वाक्वादीनां संवादः ॥

युधिष्ठिर उवाच ।
कालमृत्युयमानां ते इक्ष्वाकोर्ब्राह्मणस्य च ।
विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
इक्ष्वाकोः सूर्यपुत्रस्य यद्वृत्तं ब्राह्मणस्य च ॥
कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे । यथा स तेषां संवादो यस्मिन्स्थानेऽपि चाभवत् ।
`येनैव कारणेनात्र धर्मवादसमन्वितः ॥'
ब्राह्मणो जापकः कश्चिद्धर्मवृत्तो महायशाः ।
षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः ॥
तस्यापरोक्षं विज्ञानं षडङ्गेषु वभूव ह ।
वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः ॥
सोयं ब्राह्मं पस्तेपे संहितां संयतो जपन् ।
तस्य वर्षसहस्रं तु नियमेन तथा गतम् ॥
स देव्या दर्शितः साक्षात्प्रीतास्मीति तदा किल ।
जप्यमावर्तयंस्तूष्णीं न स तां किंचिदब्रवीत् ॥
तस्यानुकम्पया देवी प्रीता समभवत्तदा ।
वेदमाता ततस्तस्य तज्जप्यं समपूजयत् ॥
`चतुर्भिरक्षरैर्युक्ता सोमपानेऽक्षराष्टका । जगद्बीजसमायुक्ता चनुर्विशाक्षरात्मिका ॥'
समाप्य जप्यं तूत्थाय शिरसा पादयोस्तदा ।
पपात देव्या धर्मात्मा वचनं चेदमब्रवीत् ॥
दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम ।
यदि चापि प्रसन्नासि जप्ये मे रमतां मनः ॥
सावित्र्युवाच ।
किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते ।
प्रब्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति ॥
इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित् ।
जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः ॥
मनसश्च समाधिर्मे वर्धेताहरहः शुभे ।
तत्तथेति ततो देवी मधुरं प्रत्यभाषत ॥
इदं चैवापरं प्राह देवी तत्प्रियकाम्यया ।
निरयं नैव याता त्वं यत्र याता द्विजर्षभाः ॥
यास्यसि ब्रह्मणः स्थानमनिमित्तमतन्द्रितः ।
साधु ते भविता चैतद्यत्त्वयाऽहमिहार्थिता ॥
नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति । कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम् ।
भविता च विवादोऽत्र तव तेषां च धर्मतः ॥
भीष्म उवाच ।
एवमुक्त्वा भगवती जगाम भवनं स्वकम् ॥
ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तथा ।
सदा दान्तो जितक्रोधः सत्यसन्धोऽनसूयकः ॥
समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः ।
साक्षात्प्रीतस्तदा धर्मो दर्शयामास तं द्विजम् ॥
धर्म उवाच ।
द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः ।
जप्यस्यास्य फलं यत्तत्प्रंप्राप्तं तच्च मे शृणु ॥
जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः ।
देवानां निलयान्साधो सर्वानुत्क्रम्य यास्यसि ॥
प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान् ।
त्यक्त्वाऽऽत्मनः शरीरं च ततो लोकानवाप्स्यसि ॥
ब्राह्मण उवाच ।
कृतं लोकेन मे धर्म गच्छ त्वं च यथासुखम् ।
बहुदुःखमहं देहं नोत्सृजेयमहं विभो ॥
धर्म उवाच ।
`अचलं ते मनः कृत्वा त्यज देहं महामते । अनेन किं ते संयोगः कथं मोहं गमिष्यसि ॥'
अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुङ्गव ।
स्वर्गमारोह भो विप्र किं वा वै रोचतेऽनघ ॥
ब्राह्मण उवाच ।
किमुक्तं धर्म किं नेति कस्मान्मां प्रोक्तवानसि ।
त्यज देहं द्विजेति त्वं ससंबुध्यात्र मे यदि ॥
न रोचये स्वर्गवासं विना देहमहं विभो ।
गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनाऽऽत्मना ॥
धर्म उवाच ।
अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव ।
गच्छ लोकानरजसो यत्र गत्वा न शोचसि ॥
ब्राह्मण उवाच ।
रमे जपन्महाभाग कृतं लोकैः सनातनैः ।
सशरीरेण गन्तव्यं मया स्वर्गं न चान्यथा ॥
धर्म उवाच ।
`एवं ते कायसंप्रातिर्वर्तते मुनिसत्तम ।' यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज ।
एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः ॥
भीष्म उवाच ।
अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो ।
ब्राह्मणं तं महाभागमुपगम्येदमब्रवन् ॥
यम उवाच ।
तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च ।
फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे ॥
काल उवाच ।
यथा वदस्य जप्यस्य फलं प्राप्तस्त्वमुत्तमम् ।
कालस्ते स्वर्गमारोहुं कालोऽहं त्वामुपागतः ॥
मृत्युरुवाच ।
मृत्युं मां विद्धि धर्मज्ञ रूपिणं स्वयमागतम् ।
कालेन चोदितो विप्र त्वामितो नेतुमद्य वै ॥
ब्राह्मण उवाच ।
स्वागतं सूर्यपुत्राय कालाय च महात्मने ।
मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः ॥
भीष्म उवाच ।
अर्ध्यं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागम ।
अब्रवीत्परमप्रीतः स्वशक्त्या किं करोमि वः ॥
`स्वकार्यनिर्भरा यूयं परोपद्रवहेतवः ।
भवन्तो लोकसामान्याः किमर्थं ब्रूत सत्तमाः ॥
यम उवाच ।
वयमप्येवमत्युग्रा धातुराज्ञापुरः सराः ।
चोदिता धावमाना वै कर्मभावमनुव्रताः ॥
भीष्म उवाच ।'
तस्मिन्नेवाथ काले तु तीर्थयात्रामुपागतः ।
इक्ष्वाकुरगमत्तत्र समेता यत्र ते विभो ॥
सर्वानेव तु राजर्षिः संपूज्याथ प्रणम्य च ।
कुशलप्रश्नमकरोत्सर्वेषां राजसत्तमः ॥
तस्मै सोऽथासनं दत्त्वा पाद्यमर्ध्यं तथैव च ।
अब्रवीद्ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम् ॥
स्वागतं ते महाराज ब्रूहि यद्यदिहेच्छसि ।
स्वशक्त्या किं करोमीह तद्भवान्प्रब्रवीतु माम ॥
राजोवाच ।
राजाऽहं ब्राह्मणश्च त्वं यदा षट््कर्मसंस्थितः ।
ददानि वसु किंचित्ते प्रार्थितं तद्वदस्व मे ॥
ब्राह्मण उवाच ।
द्विविधो ब्राह्मणो राजन्धर्मश्च द्विविधः स्मृतः ।
प्रवृत्तश्च निवृत्तश्च निवृत्तोऽह प्रतिग्रहात् ॥
तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप । अहं न प्रतिगृह्णामि किमिष्टं किं ददामि ते ।
ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम् ॥
राजोवाच ।
क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित् ।
प्रयच्छ युद्धमित्येवंवादी चास्मि द्विजोत्तम ॥
ब्राह्मण उवाच ।
तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप ।
अन्योन्यस्योत्तरं नास्ति यदिष्टं तत्समाचर ॥
राजोवाच ।
स्वशक्त्याऽहं ददानीति त्वया पूर्वमुदाहृतम् ।
याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज ॥
ब्राह्मण उवाच ।
युद्धं मम सदा वाणी याचतीति विकत्थसे ।
न च युद्धं मया सार्धं किमर्थं याचसे पुनः ॥
राजोवाच ।
वाग्वज्राब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः ।
वाग्युद्धं तदिदं तीव्रं मम विप्र त्वया सह ॥
ब्राह्मण उवाच ।
सेयमद्य प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम् ।
ब्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम् ॥
राजोवाच ।
यत्तद्वर्षशतं पूर्णं जप्यं वै जपता त्वया ।
फलं प्राप्तं तत्प्रयच्छ मम दित्सुर्भवान्यदि ॥
ब्राह्मण उवाच ।
परमं गृह्यतां तस्य फलं यज्जपितं मया ।
अर्धं त्वमविचारेण फलं तस्य ह्यवाप्नुहि ॥
अथवा सर्वमेवेह मामकं जापकं फलम् ।
राजन्प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि ॥
राजोवाच ।
कृतं सर्वेण भद्रं ते जप्यं यद्याचितं मया ।
स्वस्ति तेऽस्तु गमिष्यामि किंच तस्य फलं वद ॥
ब्राह्मण उवाच ।
फलप्राप्तिं न जानामि दत्तं यज्जपितं मया ।
अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः ॥
राजोवाच ।
अज्ञातमस्य धर्मस्य फलं किं मे करिष्यति । फलं ब्रवीषि धर्मस्य न चेज्जप्यकृतस्य माम् ।
प्राप्नोतु तत्फलं विप्रो नाहमिच्छे ससंशयम् ॥
ब्राह्मण उवाच ।
नाददेऽपरदत्तं वै दत्तं वा चाफलं मया ।
वाक्यं प्रमाणं राजर्षे ममाद्य तव चैव हि ॥
सकृदंशो निपतति सकृत्कन्या प्रदीतये ।
सकृदेव ददानीति त्रीण्येतानि सकृत्सकृत् ॥
नाभिसंधिर्मया जप्ये कृतपूर्वः कदाचन ।
जप्यस्य राजशार्दूल कथं वेत्स्याम्यहं फलम् ॥
ददस्वेति त्वया चोक्तं दत्तं वाचा फलं मया ।
न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव ॥
अथैवं वदतो मेऽद्य वचनं न करिष्यसि ।
महानधर्मो भविता तव राजन्मृषा कृतः ॥
न युक्ता तु मृषावाणी त्वया वक्तुमरिंदम ।
तथा मयाऽप्यभिहितं मिथ्या कर्तुं न शक्यते ॥
संश्रुतं च मया पूर्वं ददानीत्यविचारितम् ।
तद्गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान् ॥
इहागम्य हि मां राजञ्जाप्यं फलमयाचथाः ।
तन्मे निसृष्टं गृह्णीष्व भव सत्येस्थितोपि च ॥
नायं लोकोऽस्ति न परो न च पूर्वान्स तारयेत् ।
कुत एवापरान्राजन्मृषावादपरायणः ॥
न यज्ञाध्ययने दानं नियमास्तारयन्ति हि ।
यथा सत्यं परे लोके तथेह पुरुषर्षभ ॥
तपांसि यानि चीर्णानि चरिष्यन्ति च यत्तपः ।
समाशतैः सहस्रैश्च तत्सत्यान्न विशिष्यते ॥
सत्यमेकं परं ब्रह्म सत्यमेकं परं तपः ।
सत्यमेकं परो यज्ञः सत्यमेकं परं श्रुतम् ॥
सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम् ।
तपो धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम् ॥
सत्यं वेदास्तथाङ्गानि सत्यं यज्ञास्तथा विधिः ।
व्रतचर्या तथा सत्यमोंकारः सत्यमेव च ॥
प्राणिनां जननं सत्यं सत्यं सन्ततिरेव च ।
सत्येन वायुरभ्येति सत्येन तपते रविः ॥
सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः ।
सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती ॥
तुलामारोपितो धर्मः सत्यं चैवेति नः श्रुतम् ।
समां कक्षां धारयतो यः सत्यं ततोऽधिकम् ॥
यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते ।
किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि ॥
सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः ।
कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम् ॥
यदि जप्यफलं दत्तं मया नेच्छसि वै नृप ।
स्वधर्मेभ्यः परिभ्रष्टो लोकाननुचरिष्यसि ॥
संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति ।
उभावानृतिकावेतो न मृपा कर्तुमर्हसि ॥
राजोवाच ।
योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज ।
दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम् ॥
ब्राह्मण उवाच ।
न च्छन्दयामि ते राजन्नापि ते गृहमाव्रजम् ।
इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम् ॥
धर्म उवाच ।
अविवादोऽस्तु युवयोर्वित्तं मां धर्ममागतम् ।
द्विजो दानफलैर्युक्तो राजा सत्यफलेन च ॥
स्वर्ग उवाच ।
स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयमागतम् ।
अविवादोऽस्तु युवयोरुमौ तुल्यफलौ युवाम् ॥
राजोवाच ।
कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथागतम् ।
विप्रो यदीच्छते दातुं चीर्णं गृह्णातु मे फलम् ॥
ब्राह्मण उवाच ।
बाल्ये यदि स्मादज्ञानान्मया हस्तः प्रसारितः ।
निवृत्तलक्षणं धर्ममुपासे संहितां जपन् ॥
निवृत्तं मां चिराद्राजन्विप्रलोभयसे कथम् । स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप ।
तपःस्वाध्यायशीलोऽहं निवृत्तश्च प्रतिग्रहात् ॥
राजोवाच ।
यदि विप्र विसृष्टं ते जप्यस्य फलमुत्तमम् ।
आवयोर्यत्फलं किंचित्सहितं नौ तदस्त्विह ॥
द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः ।
यदि धर्मः क्षुतो विप्र सहैव फलमस्तु नौ ॥
मा वा भूत्सह भोज्यं नौ मदीयं फलमाप्नुहि ।
प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः ॥
भीष्म उवाच ।
ततो विकृतवैषौ द्वौ पुरुषौ समुपस्थितौ ।
गृहीत्वाऽन्योन्यमावेष्ठ्य कुचेलावूचतुर्वचः ॥
न मे धारयसीत्येको धारयामीति चापरः ।
इहास्ति नौ विवादोऽयमयं राजाऽनुशासकः ॥
सत्यं ब्रवीम्यहमिदं न मे धारयते भवान् । अनृतं वदसीह त्वमृणं ते धारयाम्यहम् ।
तावुभौ सुभृशं तप्तौ राजानमिदमृचतुः ।
परीक्ष्यौ तु यथा स्याव नावामिह विगर्हितौ ॥
विरूप उवाच ।
घारयामि नरव्याघ्र विकृतस्येह गोः फलम् ।
ददतश्च न गृह्णाति विकृतो मे महीपते ॥
विकृत उवाच ।
न मे धारयते किंचिद्विरूपोऽयं नराधिप ।
मिथ्या ब्रवीत्ययं हि त्वां सत्याभासं नराधिप ॥
राजोवाच ।
विरूप किं धारयते भवानस्य ब्रवीतु मे ।
श्रुत्वा तथा करिष्येऽहमिति मे धीयते मनः ॥
विरूप उवाच ।
शृणुष्वावहितो राजन्यथैतद्धारयाम्यहम् ।
विकृतस्यास्य राजर्षे निखिलेन नराधिप ॥
अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुराऽनघ ।
धेनुर्विप्राय राजर्षे तपःस्वाध्यायशीलिने ॥
तस्याश्चायं मया राजन्फलमभ्येत्य याचितः ।
विकृतेन च मे दत्तं विशुद्धेनान्तरात्मना ॥
ततो मे सुकृतं कर्म कृतमात्मविशुद्धये ।
गावौ च कपिले क्रीत्वा वत्सले बहुदोहने ॥
ते चोञ्छवृत्तये राजन्मया समुपवर्जिते ।
यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो ॥
इहाद्यैव प्रयच्छामि गृहीत्वा द्विगुणां फलम् ।
एवं स्यात्पुरुषव्याघ्र कःशुद्धः कोऽत्र दोषवान् ॥
एवं विवदमानौ स्वस्त्यामिहाभ्यागतौ नृप ।
कुरु धर्ममधर्मं वा विनये नौ समादध ॥
यदि नेच्छति मे दानं यथा दत्तमनेन वै ।
भवानत्र स्थिरो भूत्वा मार्गे स्थापयिताऽद्य नौ ॥
राजोवाच ।
दीयमानं न गृह्णासि ऋणं कस्मात्त्वमद्य वै ।
यथैव तेऽभ्यनुज्ञातं यथा गृह्णीष्व माचिरम् ॥
विकृत उवाच ।
दीयतामित्यनेनोक्तं ददानीति तथा मया ।
नायं मे धारयत्यत्र गच्छतां यत्र वाञ्छति ॥
राजोवाच ।
ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे ।
दणड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः ॥
विकृत उवाच ।
मयाऽस्य दत्तं राजर्षे गृह्णीयां तत्कथं पुनः ।
को ममात्रापराधो मे दण्डमाज्ञापय प्रभो ॥
विरूप उवाच ।
दीयमानं यदि मया न गृह्णासि कथंचन ।
नियच्छति त्वां नृपतिरयं धर्मानुशासकः ॥
विकृत उवाच ।
स्वयं मया याचितेन दत्तं कथमिहाद्य तत् ।
गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते ॥
ब्राह्मण उवाच ।
श्रुतमेतत्त्वया राजन्ननयोः कथितं द्वयोः ।
प्रतिज्ञातं मया यत्ते तद्गृहाणाविचारितम् ॥
राजोवाच ।
प्रस्तुतं सुमहत्कार्यमनयोर्गह्वरं यथा ।
जापकस्य दृढीकारः कथमेतद्भविष्यति ॥
यदि तावन्न गृह्णामि जापकेनापवर्जितम् ।
कथं न लिप्येयमहं पापेन महताऽद्य वै ॥
तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः ।
नेदानीं मामिहासाद्य राजधर्मो भवेन्मृषा ॥
स्वधर्मः परिपाल्यस्तु राज्ञामिति विनिश्चयः ।
विप्रधर्मश्च गहनो मामनात्मानमाविशत् ॥
ब्राह्मण उवाच ।
गृहाण धारयेऽहं च याचितं संश्रुतं मया ।
न चेद्भहीष्यसे राजञ्शपिष्ये त्वां न संशयः ॥
राजोवाच ।
धिग्राजधर्मं यस्यायं कार्यस्येह विनिश्चयः ।
इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति ॥
एष पाणिरपूर्वं मे निक्षेपार्थं प्रसारितः ।
यन्मे धारयसे विप्र तदिदानीं प्रदीयताम् ॥
ब्राह्मण उवाच ।
संहितां जपता यावान्गुणः कश्चित्कृतो मया ।
तत्सर्वं प्रतिगृह्णीष्व यदि किंचिदिहास्ति मे ॥
राजोवाच ।
जलमेतन्निपतितं मम पाणौ द्विजोत्तम ।
सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान् ॥
विरूप उवाच ।
कामक्रोधौ विद्धि नौ त्वमावाभ्यां कारितो भवान् । `जिज्ञासमानौ युवयोर्मनोत्थं तु द्विजोत्तम ॥'
सहेति च यदुक्तं ते समा लोकास्तवास्य च ।
नायं धारयते किंचिज्जिज्ञासा त्वत्कृते कृता ॥
कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम् ।
सर्वमन्योन्यनिष्कर्षे निकृष्टं पश्यतस्तव ॥
`सर्वेषामुपरिस्थानं ब्रह्मणो व्यक्तजन्मनः ।
युवयोः स्थानमूलं निर्द्वन्द्वममलात्मकम् ॥
सर्वे गच्छाम यत्र स्वान्स्वाँल्लोकांश्च तथा वयम् ।' गच्छ लोकाञ्जितान्स्वेन कर्मणा यत्र वाञ्छसि ॥
` ततो धर्मयमाद्यास्ते वाक्यमूचुर्नपर्द्विजौ ।
अस्माकं यः स्मृतो मूर्धा ब्रह्मलोकमिति स्मृतं ॥
तत्रस्थौ हि भवन्तौ हि युवाभ्यां निर्जिता वयम् । युवयोः काम आपन्नस्तत्काम्यमविशङ्कया ॥'
भीष्म उवाच ।
जापकानां फलावाप्तिर्मया ते संप्रदर्शिता ।
गतिः स्थानं च लोकाश्च जापकेन यथा जिताः ॥
प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम् ।
अथवाऽग्निं समायाति सूर्यमाविशतेऽपि वा ॥
स तैजसेन भावेन यदि तत्र रमत्युत ।
गुणांस्तेषां समाधत्ते रागेण प्रतिमोहितः ॥
एवं सोमे तथा वायौ भूम्याकाशशरीरगः ।
सरागस्तत्र वसति गुणांस्तेषां समाचरन् ॥
अथ तत्र विरागी स परं गच्छत्यसंशयम् ।
परमव्ययमिच्छन्स तमेवाविशते पुनः ॥
अमृताच्चामृतं प्राप्तः शान्तीभूतो निरात्मवान् ।
ब्रह्मभूतः स निर्द्वन्द्वः सुखी शान्तो निरामयः ॥
ब्रह्मस्थानमनावर्तमेकमक्षरसंज्ञकम् ।
अदुःखमजरं शान्तं स्थानं तत्प्रतिपद्यते ॥
चतुर्भिर्लक्षणैर्हीनं तथा पड्भिः सषोडशैः ।
पुरुषं तमतिक्रम्य आकाशं प्रतिपद्यते ॥
अथ नेच्छति रागात्मा सर्वं तदधितिष्ठति ।
यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते ॥
अथवा चेक्षते लोकान्सर्वान्निरयसंज्ञितान् ।
निस्पृहः सर्वतो मुक्तस्तत्र वै रमते सुखम् ॥
एवमेषा महाराज जापकस्य गतिर्यथा ।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमर्हसि ॥ ॥

इति श्रीमन्महाभारते सान्तिपर्वणि मोक्षधर्मपर्वणि सप्तनवत्यधिकशततमोऽध्यायः ॥ 197 ॥

12-197-1 आयुःपरिच्छेदिका देवता कालः । प्राणवियोजिका मृत्युः । पुण्यापुण्यफलदायिका यमः । तत् तम् ॥ 12-197-2 सूर्यपुत्रस्य यमस्य ॥ 12-197-4 जापको मन्त्राध्ययनपरः । पैप्पलाद इति ड. पाठः ॥ 12-197-7 देव्या सावित्र्या दर्शितो दर्शनदानेनानुगृहीतः ॥ 12-197-14 समाधिर्नियमः ॥ 12-197-15 निरयं स्वर्गं क्षयिणम् । याता यास्यसि । याता गताः ॥ 12-197-16 अनिमित्तमजन्यम् । यज्जप्ये मे रमतां मन इति ॥ 12-197-20 दर्शयामास आत्मानं दर्शितवान् ॥ 12-197-24 बहुदुःखसुखमिति झ.ध. पाठः ॥ 12-197-56 कृतमलं सर्वेण जपफलेन ॥ 12-197-57 यज्जपितं जप्यं तस्येति शेषः ॥ 12-197-61 अभिसंधिः कामः । निष्कामस्य जपस्यानन्तं फलमिति भावः ॥ 12-197-62 दूषयिष्यामि अन्यथाकरिष्यामि ॥ 12-197-66 मे मया निसृष्टं दत्तम् ॥ 12-197-77 देहीति उक्त्वेति शेषः ॥ 12-197-81 न च्छन्दयामि प्रतिगृह्णीष्वेति न प्रार्थितवानस्मि ॥ 12-197-84 तत्प्रतीच्छतु मे फलमिति ध. पाठः । बहु गृह्णातु मे फलमिति ट. पाठः ॥ 12-197-90 द्वौ पुरुषौ कामक्रोधौ ॥ 12-197-93 परीक्ष्य त्वं यथा स्यावो नावामिति झ. पाठः ॥ 12-197-94 प्रार्थना हि राज्ञोऽननुरूपेति तस्य कामो विकृतसंज्ञः । शान्तिस्वभावस्यापि जापकस्य याचित्वापि दीयमानं न गृह्णातीति राजानं प्रति यः क्रोधः स विरूपसंज्ञः । गोः फलं वाचं धेनुमुपासीतेति श्रुतेर्धेनुसरूप्रायाः वाचः । जपस्य फलमित्यर्थः ॥ 12-197-98 धेनुर्वाक् । विप्राय परमेश्वराय ॥ 12-197-106 धारयामीति झ. ट. पाठः ॥ 12-197-118 निक्षेपार्थं प्रतिगृह्य प्रदानार्थम् ॥ 12-197-131 तेषां सूर्यादिलोकपालानां गुणान् प्रकाशकत्वादीन् ॥