अध्यायः 199

ज्ञानयोगादेः फलं भगवद्वेदनप्रकारं च पृष्टेन भीष्मेण युधिष्ठिरंप्रति तत्कथनाय मनुवृहस्पतिसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
किं फलं ज्ञानयोगस्य वेदानां नियमस्य च ।
भूतात्मा च कथं ज्ञेयस्तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मनोः प्रजापतेर्वादं महर्षेश्च बृहस्पतेः ॥
प्रजापतिं श्रेष्ठतमं प्रजानां देवर्षिसङप्रवरो महर्षिः ।
बृहस्पतिः प्रश्नमिमं पुराणं प्रपच्छ शिष्योऽथ गुरुं प्रणम्य ॥
यत्कारणं मन्त्रविधिः प्रवृत्तो ज्ञाने फलं यत्प्रवदन्ति विप्राः ।
यन्मन्त्रशब्दैरकृतप्रकाशं तदुच्यतां मे भगवन्यथावत् ॥
यत्स्तोत्रशास्त्रागममन्त्रिविद्भि र्यज्ञैरनेकैरथ गोप्रदानैः ।
फलं महद्भिर्यदुपास्यते च किं तत्कथं वा भविता क्व वा तत् ॥
मही महीजाः पवनोऽन्तरिक्षं जलौकसश्चैव जलं तथा द्यौः ।
दिवौकसश्चापि यतः प्रसूता स्तदुच्यतां मे भगवन्पुराणम् ॥
ज्ञानं यतः प्रार्थयते नरो वै ततस्तदर्था भवति प्रवृत्तिः ।
न चाप्यहं वेद परं पुराणं मिथ्याप्रवृत्तिं च कथं नु कुर्याम् ॥
ऋक्सामसङ्घांश्च यजूंषि चाहं छन्दांसि नक्षत्रगतिं निरुक्तम् ।
अधीत्य च व्याकरणं सकल्पं शिक्षां च भूतप्रकृतिं न वेद्मि ॥
स मे भवाञ्शंसतु सर्वमेत त्सामान्यशब्दैश्च विशेषणैश्च ।
स मे भवाञ्शंसतु तावदेत ज्ज्ञाने फलं कर्मणि वा यदस्ति ॥
यथा च देहाच्च्यवते शरीरी पुनः शरीरं च यथाऽभ्युपैति ।
मनुरुवाच ।
यद्यत्प्रियं यस्य सुखं तदाहु स्तदेव दुःखं प्रवदन्त्यनिष्टम् ॥
इष्टं च मे स्यादितरच्च न स्या देतत्कृते कर्मविधिः प्रवृत्तः ।
इष्टं त्वनिष्टं च न मां भजेते त्येतत्कृते ज्ञानविधिः प्रवृत्तः ॥
[कामात्मकाश्छन्दसि कर्मयोगा एभिर्विमुक्तः परमश्नुवीत् ।
नानाविधे कर्मपथे सुखार्थी नरः प्रवृत्तो निरयं प्रयाति ।]
बृहस्पतिरुवाच । इष्टं त्वनिष्टं च सुखासुखे च साशीस्तपश्छन्दति कर्मभिश्च ॥
मनुरुवाच ।
एभिर्विमुक्तः परमाविवेश एतत्कृते कर्मविधिः प्रवृत्तः ।
[कामात्मकांश्छन्दति कर्मयोग एभिर्विमुक्तः परमाददीत ॥]
आत्मादिभिः कर्मभिरिध्यमानो धर्मे प्रवृत्तो द्युतिमान्सुखार्थी ।
परं हि तत्कर्मफलादपेतं निराशिषो यत्पदमाप्नुवन्ति ॥
प्रजाः सृष्टा मनसा कर्मणा च द्वावेवैतौ सत्पथौ लोकजुष्टौ ।
दृष्टं कर्माशाश्वतं चान्तवच्च मनस्त्यागे कारणं नान्यदस्ति ॥
`कामात्मकौ छन्दसि कामभोगा वेभिर्वियुक्तः परमश्नुवीत ।
नानाविधे कर्मफले सुखार्थी नरः प्रमत्तो न परं प्रयाति । फलं हि तत्कर्मफलादपेतं निराशिषो ब्रह्म परं ह्युपेतम् ॥'
स्वेनात्मना चक्षुरिव प्रणेता निशात्यये तमसा संवृतात्मा ।
ज्ञानं तु विज्ञानगुणेन युक्तं कर्माशुभं पश्यति वर्जनीयम् ॥
सर्पान्कृशाग्राणि तथोदपानं त्वा मनुष्याः परिवर्जयन्ति ।
अज्ञामतस्तत्र पतन्ति मूढा ज्ञाने फलं पश्य यथा विशिष्टम् ॥
कृत्स्नस्तु मन्त्रो विधिवत्प्रयुक्तो यज्ञा यथोक्तास्त्विह दक्षिणाश्च ।
अन्नप्रदानं मनसः समाधिः पञ्चात्मकं कर्मफलं वदन्ति ॥
गुणात्मकं कर्म वदन्ति वेदा स्तस्मान्मन्त्रो मन्नपूर्वं हि कर्म ।
विधिर्विधेयं मनसोपपत्तिः फलस्य भोक्ता तु तथा शरीरी ॥
शब्दाश्च रूपाणि रसाश्च पुण्याः । स्पर्शाश्च गन्धाश्च शुभास्तथैव ।
नरोऽत्र हि स्थानगतः प्रभुः स्या देतत्फलं सिद्ध्यति कर्मणोऽस्य ॥
यद्यच्छरीरेण करोति कर्म शरीरयुक्तः समुपाश्नुते तत् ।
शरीरमेवायतनं सुखस्य दुःखस्य चाप्यायतनं शरीरम् ॥
वाचा तु यत्कर्म करोति किंचि द्वाचैव सर्वं समुपाश्नुते तत् ।
मनस्तु यत्कर्म करोति किंचि न्मनःस्थ एवायमुपाश्नुते तत् ॥
यथायथा कर्मगुणां फलार्थी करोत्ययं कर्मफले निविष्टः ।
तथातथाऽयं गुणसंप्रयुक्तः शुभाशुभं कर्मफलं भुनस्ति ॥
मत्स्यो यथा स्रोत इवाभिपाती तथा कृतं पूर्वमुपैति कर्म ।
शुभे त्वसौ तुष्यति दुष्कृते तु न तुष्यते वै परमः शरीरी ॥
यतो जगत्सर्वमिदं प्रसूतं ज्ञात्वाऽऽत्मवन्तो ह्युपयान्ति शान्तिम् ।
यन्मन्त्रशब्देरकृतप्रकाशं तदुच्यमानं शणु मे परं यत् ॥
रसैर्विमुक्तं विविधैश्च गन्धै रशब्दमस्पर्शमरूपवच्च ।
अग्राह्यमव्यक्तमवर्णमेकं पञ्चप्रकारान्ससृजे प्रजानाम् ॥
न स्त्री पुमान्नापि नपुंसकं च न सन्न चासत्सदसच्च तन्न ।
पश्यन्ति तद्ब्रह्मविदो मनुष्या स्तदक्षरं न क्षरतीति विद्धि ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनद्विशततमोऽध्यायः ॥ 199 ॥