अध्यायः 203

भीष्मेण युधिष्ठिरंप्रति मनुबृहस्पतिसंवादानुवादः ॥ 1 ॥

मनुरुवाच ।
दुःखोपघाते शारीरे मानसे चाप्युपस्थिते ।
यस्मिन्न शक्यते कर्तुं यत्नस्तं नानुचिन्तयेत् ॥
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् ।
चिन्त्यमानं हि चाभ्येति भूयश्चापि प्रवर्तते ॥
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।
एतद्विज्ञानसामर्थ्यं न बालैः समतामियात् ॥
अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः ।
आरोग्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः ॥
न जानपदिकं दुःखमेकः शोचितुमर्हति ।
अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् ॥
सुखाद्बहुतरं दुःखं जीविते नास्ति संशयः ।
स्रिग्धस्य चेन्द्रियार्थेषु मोहान्मरणमप्रियम् ॥
परित्यजति यो दुःखं सुखं वाऽप्युभयं नरः ।
अभ्येति ब्रह्म सोत्यन्तं न ते शोचन्ति पण्डिताः ॥
दुःखमर्था हि युज्यन्ते पालने न च ते सुखम् ।
दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत् ॥
ज्ञानं ज्ञेयाभिर्निवृत्तं विद्धि ज्ञानगुणं मनः ।
प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते ॥
यदा कर्मगुणोपेता बुद्धिर्मनसि वर्तते ।
तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना ॥
सेयं गुणवती बुद्धिर्गुणेष्वेवाभिवर्तते ।
अपरादभिनिः स्रौति गिरेः शृङ्गादिवोदकम् ॥
यदा निर्गुणमाप्नोति ध्यानं मनसि पूर्वजम् ।
तदा प्रज्ञायते ब्रह्म निकषं निकषे यथा ॥
मनस्त्वसंहृतं बुद्ध्या हीन्द्रियार्थनिदर्शकम् ।
न समर्थं गुणापेक्षि निर्गुणस्य निदर्शने ॥
सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः ।
मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते ॥
यथा महान्ति भूतानि निवर्तन्ते गुणक्षये ।
तथेन्द्रियाण्युपादाय बुद्धिर्मनसि वर्तते ॥
यदा मनसि सा बुद्धिर्वर्ततेऽन्तरचारिणी ।
व्यवसायगुणोपेता तदा संपद्यते मनः ॥
गुणवद्भिर्गुणोपेतं यदा ध्यानगतं मनः ।
तदा सर्वान्गुणान्हित्वा निर्गुणं प्रतिपद्यते ॥
अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम् ।
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् ॥
तपसा चानुमानेन गुणैर्जात्या श्रुतेन च ।
निनीषेत्परमं ब्रह्म विशुद्धेनान्तरात्मना ॥
गुणहीनो हि तं मार्गं बहिः समनुवर्तते ।
गुणाभावात्प्रकृत्या वा निस्तर्क्यं ज्ञेयसंमितम् ॥
नैर्गुण्याद्ब्रह्म चाप्नोति सगुणत्वान्निवर्तते ।
गुणप्रसारिणी बुद्धिर्हुताशन इवेन्धने ॥
यदा पञ्च वियुक्तानि इन्द्रियाणि स्वकर्मभिः ।
तदा तत्परमं ब्रह्म संमुक्तं प्रकृतेः परम् ॥
एवं प्रकृतितः सर्वे संभवन्ति शरीरिणः ।
निवर्तन्ते निवृत्तौ च स्वर्गे नैवोपयान्ति च ॥
पुरुषप्रकृतिर्बुद्धिर्विशेषाश्चेन्द्रियाणि च ।
अहंकारोऽभिमानश्च संभूतो भूतसंज्ञकः ॥
एतस्याद्या प्रवृत्तिस्तु प्रधानात्संप्रवर्तते ।
द्वितीया मिथुनव्यक्तिमविशेषान्नियच्छति ॥
धर्मादुत्कृष्यते श्रेयस्तथा धर्मोऽष्यधर्मतः ।
रागवान्प्रकृतिं ह्येति विरक्तो ज्ञानवान्भवम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्र्यधिकद्विशततमोऽध्यायः ॥ 203 ॥

12-203-5 उपक्रमं प्रतीकारोपायम् ॥ 12-203-6 मरणं भवति ॥ 12-203-7 ते ब्रह्माभिगताः ॥