अध्यायः 204

भीष्मेण युधिष्ठिरंप्रति मनुबृहस्पतिसंवादानुवादसमापनम् ॥ 1 ॥

मनुरुवाच ।
`तदेव सततं मन्ये न शक्यमनुवर्णितुम् ।
यथा निदर्शनं वस्तु न शक्यमनुबोधितुम् ॥
यथाहि सारं जानाति न कथंचन संस्थितम् ।
परकायच्छविस्तद्वद्देहेऽयं चेतनस्तथा ॥
विना कायं न सा च्छाया तां विना कायमस्त्युत ।
तद्वदेव विना नास्ति प्रकृतेरिह वर्तनम् ॥
इदं वै नास्ति नेदमस्ति परं विना ।
जीवात्मना त्वसौ छिन्नस्त्वेष चैव परात्मना ॥
तत्तवेति विदुः केचिदतथ्यमिति चापरे ।
उभयं मे मतं विद्वन्मुक्तिहेतौ समाहितम् ॥
विमुक्तैश्च मृगः सोऽपि दृश्यते संयतेन्द्रियः ।
सर्वेषां न हि दृश्यो हि तटिद्वत्स्फुरति ह्यसौ ॥
ब्राह्मणस्य समादृश्यो वर्तते सोऽपि किं पुनः ।
विद्यते परमः शुद्धः साक्षिभूतो विभावसुः ॥
श्रुतिरेषा ततो नित्या तस्मादेकः परो मतः ।
न प्रयोजनमुद्दिश्य चेष्टा तस्य महात्मनः ॥
तादृशोस्त्विति मन्तव्यस्तथा सत्यं महात्मना । नानासंस्थेन भेदेन सदा गतिविभेदवत् ।
तस्य भेदः समाख्यातो भेदो ह्यस्ति तथाविधः ॥
एवं विद्वन्विजानीहि परमात्मानमव्ययम् ।
तत्तद्गुणविशेषेण संज्ञानामनुसंयुतम् ॥
सर्वेश्वरः सर्वमयः स च सर्वप्रवर्तकः ।
सर्वात्मकः सर्वशक्तिः सर्वकारणकारणम् ॥
सर्वसाधारणः सर्वैरुपास्यश्च महात्मभिः । वासुदेवेति विख्यातस्तं विदित्वाऽश्नुतेऽमृतम् ॥'
यदा ते प़ञ्चभिः पञ्च युक्तानि मनसा सह ।
अथ तद्द्रक्ष्यते ब्रह्म मणौ सूत्रमिवार्पितम् ॥
तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः ।
मुक्तास्वथ प्रवालेषु मृन्मये राजते तथा ॥
तद्वद्गोऽश्वमनुष्येषु तद्वद्धस्तिमृगादिषु ।
तद्वत्कीटपतङ्गेषु प्रसक्तात्मा स्वकर्मभिः ॥
येनयेन शरीरेण यद्यत्कर्म करोत्ययम् ।
तेनतेन शरीरेण तत्तत्फलमुपाश्नुते ॥
यथा ह्येकरसा भूमिरोषध्यर्थानुसारिणी ।
तथा कर्मानुगा बुद्धिरन्तरात्माऽनुदर्शिनी ॥
ज्ञानपूर्वोद्भवा लिप्सा लिप्सापूर्वाभिसन्धिता ।
अभिसन्धिपूर्वकं कर्म कर्ममूलं ततः फलम् ॥
फलं कर्मत्मकं विद्यात्कर्म ज्ञेयात्मकं तथा ।
ज्ञेयं ज्ञानात्मकं विद्याज्ज्ञानं सदसदात्मकम् ॥
`तदेवमिष्यते ब्रह्म संख्यानाद्विनिभिद्यते ।' ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा ।
क्षयान्ते यत्फलं विद्याज्ज्ञानं ज्ञेयप्रतिष्ठितम् ॥
महद्धि परमं भूतं युक्ताः पश्यन्ति योगिनः ।
अबुधास्तं न पश्यन्ति ह्यात्मस्थं गुणबुद्धयः ॥
पृथिवीरुपतो रूपमपामिह महत्तरम् ।
अद्भ्यो महत्तरं तेजस्तेजसः पवनो महान् ॥
पवनाच्च महद्व्योम तस्मात्परतरं मनः ।
मनसो महती बुद्धिर्बुद्धेः कालो महान्स्मृतः ॥
कालात्स भगवान्विष्णुर्यस्य सर्वमिदं जगत् ।
नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते ॥
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः ।
अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते ॥
तद्ब्रह्म परमं प्रोक्तं तद्धाम परमं पदम् ।
तद्गत्वा कालविषयाद्विमुक्ता मोक्षमाश्रिताः ॥
गुणेष्वेते प्रकाशन्ते निर्गुणत्वात्ततः परम् ।
निवृत्तिलक्षणो धर्मस्तथाऽऽनन्त्याय कल्पते ॥
ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः ।
जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्याविनाशिनः ॥
न चैवमिष्यते ब्रह्म शरीराश्रयसंभवम् ।
न यत्नसाध्यं तद्ब्रह्म नादिमध्यं न चान्तवन् ॥
ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते ।
अन्तश्चादिमतां दृष्टो न त्वादिर्ब्रह्मणः स्मृतः ॥
अनादित्वादनन्तत्वात्तदनन्तमथाव्ययम् ।
अव्ययत्वाच्च निर्दुःखं द्वन्द्वाभावस्ततः परम् ॥
अदृष्टतोऽनुपायाच्च प्रतिसन्धेश्च कर्मणः ।
न तेन मर्त्याः पश्यन्ति येन गच्छान्त तत्पदम् ॥
विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् ।
मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते ॥
गुणान्यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः ।
परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद्गुणार्थिनः ॥
गुणैर्यस्त्ववरैर्युक्तः कथं विद्याद्गुणानिमान् ।
अनुमानाद्धि गन्तव्यं गुणैरवयवैः परम् ॥
सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः ।
मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम् ॥
ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या मनस्तथा ।
मनसा चेन्द्रियग्राममक्षरं प्रतिपद्यते ॥
बुद्धिप्रहीणो मनसा समृद्ध स्तथाऽनिराशीर्गुणतामुपैति ।
परं त्यजन्तीह विलोभ्यमाना हुताशनं वायुरिवेन्धनस्थम् ॥
गुणादाने विप्रयोगे च तेषां मनः सदा विद्धि परावराभ्याम् ।
अनेनैव विधिना संप्रवृत्तो गुणादाने ब्रह्म शरीरमेति ॥
अव्यक्तात्मा पुरुषोऽव्यक्तकर्मा सोऽव्यक्तत्वं गच्छति ह्यन्तकाले ।
तैरेवायं चेन्द्रियैर्वर्धमानै र्ग्लायद्भिर्वा वर्ततेऽकामरूपः ॥
सर्वैरयं चेन्द्रियैः संप्रयुक्तो देहं प्राप्तः यञ्चभूताश्रयः स्यात् ।
न सामर्थ्याद्गच्छति कर्मणेह हीनस्तेन परमेणाव्ययेन ॥
पृथ्व्या नरः पश्यति नान्तमस्या ह्यन्तश्चास्या भविता चेति विद्धि ।
परं न यातीह विलोभ्यमानो यथा प्लवं वायुरिवार्णवस्थम् ॥
दिवाकरो गुणमुपलभ्य निर्गुणो यथा भवेदपगतरश्मिमण्डलः ।
तथां ह्यसौ मुनिरिह निर्विशेषवान् स निर्गुणं प्रविशति ब्रह्म चाव्ययम् ॥
अनागतं सुकृतवतां परां गतिं स्वयंभुवं प्रभवनिधानमव्ययम् ।
सनातनं यदमृतमव्ययं ध्रुवं निचाय्य तत्परममृतत्वमश्नुते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुरधिकद्विशततमोऽध्यायः ॥ 204 ॥

12-204-16 येनयेन पित्र्येण दैवेन गान्धर्वेण प्राजापत्येन वा प्राप्येण हेतुभूतेन यस्य यस्य देहस्य प्राप्त्यर्थमित्यर्थः । यद्यत्कर्म यज्ञादिकम् ॥ 12-204-33 शाश्वतस्य दर्शनात् इति झ. पाठः ॥ 12-204-40 यो व्यक्तत्वं गच्छति ब्रह्मभूयः । सुपुष्पितैः कर्मभिरिद्ध्यमानः सायंदिवो वर्तते कर्मरूपः इति ध. पाठः ॥