अध्यायः 207

भीष्मेण युधिष्ठिरंप्रति मरीच्यादिब्रह्मपुत्रवंशकथनपूर्वकं प्राच्यादिदिग्गतमहर्षिनामनिर्देशः ॥ 1 ।

युधिष्ठिर उवाच ।
के पूर्वमासन्पतयः प्रजानां भरतर्षभ ।
के चर्षयो महाभागा दिक्षु प्रत्येकशः स्थिताः ॥
भीष्म उवाच ।
श्रूयतां भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि ।
प्रजानां पतयो ये च दिक्षु ये चर्षयः स्मृताः ॥
एकः स्वयंभूर्भगवानाद्यो ब्रह्मा सनातनः ।
ब्रह्मणः सप्त वै पुत्रा महात्मानः स्वयंभुवः ॥
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठश्च महाभागः सदृशो वै स्वयंभुवा ॥
सप्त ब्रह्मण इत्येते पुराणे निश्चयं गताः ।
अत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन् ॥
अत्रिवंशतमुत्पन्नो ब्रह्मयोनिः सनातनः ।
प्राचनवर्हिर्भगवांस्तस्मात्प्राचेतसो दश ॥
दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः ।
तस्य द्वे नामनी लोके दक्षः क इति चोच्यते ॥
मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी स्मृते ।
अरिष्टनेमिरित्येके कश्यपेत्यपरे विदुः ॥
अत्रेश्चैवौरसः श्रीमान्राजा सोमश्च वीर्यवान् ।
सहस्रं यश्च दिव्यानां युगानां पर्युपासिता ॥
अर्यमा चैव भगवान्ये चास्य तनया विभो ।
एते प्रदेशाः कथिता भुवनानां प्रभावनाः ॥
शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत ।
एकैकस्यां सहस्रं तु तनयानामभूत्तदा ॥
एवं शतसहस्राणि दश तस्य महात्मनः ।
पुत्राणां च न ते संचिदिच्छन्त्यन्यं प्रजापतिम् ॥
प्रजामाचक्षते विप्राः पुराणाः शाशबिन्दवीम् ।
स वृष्णिवंशप्रभवो महावंशः प्रजापतेः ॥
एते प्रजानां पतयः समुद्दिष्टा यशस्विनः ॥
`शशबिन्दुस्तु राजर्षिर्महायोगी महामनाः ।
अध्यात्मवित्सहस्राणां भार्याणां दशमध्यगः ॥
स योगी योगमापन्नस्ततः सायुच्यतां गतः ।' अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान् ॥
भयोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा ।
सविता चैव घाता च विवस्वांश्च महाबलः ॥
त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते ।
इत्येते द्वादशादित्याः कश्यपस्यात्मसंभवाः ॥
नासत्यश्चैव दस्रश्च स्मृतो द्वावश्विनावपि ।
मार्तण्डस्यात्मजावेतावात्मस्य प्रजापतेः ॥
त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः ॥
अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः ।
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥
सावित्रश्च जयन्तश्च पिनाकी चापराजितः । `एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥'
पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः । एत एवविधा देवा मनोरेव प्रजापतेः ।
ते च पूर्वं सुराश्चेति द्विविधाः पितरः स्मृताः ॥
शीलयौवनयोस्त्वन्यस्तथाऽन्ये सिद्धसाध्ययोः ।
ऋभवो मरुतश्चैव देवानां चोदितो गणः ॥
एवमेते समाम्नाता विश्वेदेवास्तथाऽश्विनौ ।
आदित्याः क्षत्रियास्तेषां विशश्च मरुतस्तथा ॥
अश्विनौ तु स्मृतौ शूद्रौ तपस्युग्रे समास्थितौ । स्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयः ।
इत्येतत्सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम् ॥
एतान्वै प्रातरुत्थाय देवान्यस्तु प्रकीर्तयेत् ।
स्वजादन्यकृताच्चैव सर्वपापात्प्रमुच्यते ॥
यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू ।
औशिजश्चैव कक्षीवान्बलश्चाङ्गिरसः स्मृतः ॥
ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा ।
त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा ॥
उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान् ।
प्रमुचश्चेध्मवाहश्च भगवांश्च दृढव्रतः ॥
मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान् ।
एते ब्रह्मर्षयो नित्यमास्थिता दक्षिणां दिशम् ॥
उषङ्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान् ।
एकतश्च द्वितश्चैव त्रितश्चैवं महर्षयः ॥
अत्रेः पुत्रश्च दुर्वासास्तथा सारस्वतः प्रभुः ।
एते चैव महात्मानः पश्चिमामाश्रिता दिशम् ॥
अत्रिश्चैव वसिष्ठश्च काश्यपश्च महानुषिः ।
गौतमोऽथ भरद्वाजो विश्वामित्रोऽथ कौशिकः ॥
तथैव पुत्रो भगवानृचीकस्य महात्मनः ।
जमदग्निश्च सप्तैते उदीचीमाश्रिता दिशम् ॥
एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः ।
साक्षिभूता महात्मानो भुवनानां प्रभावनाः ॥
एवमेते महात्मानः स्थिताः प्रत्येकशो दिशम् ।
एतेषां कीर्तनं कृत्वा सर्वपापात्प्रमुच्यते ॥
यस्यांयस्यां दिशि ह्येते तां दिशं शरणं गतः ।
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च तथा भवेत् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्ताधिकद्विशततमोऽध्यायः ॥ 207 ॥

12-207-9 अङ्गश्च पौरवः श्रीमान्राजा भौमश्च वीर्तवान् इति ड. थ. पाठः । अंशश्चैवौरसः श्रीमान्राजा भौमश्च वीर्यवानिति ध. पाठः ॥ 12-207-10 प्रदेशाः प्रदिशन्ति आज्ञापयन्तीति प्रेदशा ईशनशीला इत्यर्थः । प्रभावनाः प्रकर्षेण स्नष्टारश्च ॥ 12-207-27 स्वजात् स्वयं कामतोऽकामतश्च कृतात् । अन्यसंसर्गजात् ॥ 12-207-28 नीलश्चाङ्गिरसः स्मृत इति ड.ध. पाठः ॥ 12-207-29 त्रैलोक्यगायना इति ड. थ.पाठः ॥