अध्यायः 213

भीष्मेम युधिष्ठिरंप्रति शिष्यंप्रत्युक्तजगत्सृष्ट्यादिप्रतिपादकगुरुवाक्यानुवादः ॥ 1 ॥

गुरुरुवाच ।
चतुर्विधानि भूतानि स्थावराणि चराणि च । अव्यक्तप्रभवान्याहुरव्यक्तनिधनानि च ।
अव्यक्तलक्षणं विद्यादव्यक्तात्मात्मकं मनः ॥
यथाऽश्वत्थकणीकायामन्तर्भूतो महाद्रुमः ।
निष्पन्नो दृश्यते व्यक्तमव्यक्तात्संभवस्तथा ॥
`आत्मानमनुसंयाति बुद्धिरव्यक्तजा तथा । तामन्वेति मनो यद्वल्लोहवर्मणि सन्निधौ ॥'
अभिद्रवत्ययस्कान्तमयोनिश्चेतनं यथा ।
स्वभावहेतुजा भावा यद्वदन्यदपीदृशम् ॥
तद्वदव्यक्तजा भावाः कर्तुः कारणलक्षणाः ।
अचेतनाश्चेतयितुः कारणादभिसंगताः ॥
न भूर्न खं द्यौर्भूतानि नर्षयो न सुरासुराः ।
नान्यदासीदृते जीवमासेदुर्न तु संहतिम् ॥
सर्वं नित्यं सर्वगतं मनोहेतुत्वलक्षणम् ।
अज्ञानकर्म निर्दिष्टमेतत्कारणलक्षणम् ॥
तत्कारणेन संयुक्तं कार्यसंग्रहकारकम् ।
येनैतद्वर्तते चक्रमनादिनिधनं महत् ॥
`येन स्वभावसद्भावं हेतुभूता सकारणा । एवं प्राकृतविस्तारो ह्याश्रित्य पुरुषं परम् ॥'
अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम् ।
क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम् ॥
स्निग्धत्वात्तिलवत्सर्वं चक्रेऽस्मिन्पीड्यते जगत् ।
तिलपीडैरिवाक्रम्य भोगैरज्ञानसंभवैः ॥
`प्राणेनायं हि शान्ते तु विरोधात्प्रतिपालनम् ।
देहस्येषून्य आस्ते यः शुद्धोऽचिन्त्यः सनातनः ॥
भ्रामयन्नेषतो याति कालचक्रसमन्वितः ।
भूतानि मोहयन्नित्यं चक्रस्य च रयं गतः ॥
स्नेहद्रव्यसमायोगे क्षेत्रपाचं न वस्तुषु । तिलवत्पीडिते चक्रे ह्याधियन्त्रनिपीडिते ।
बहिश्चाधिष्ठिते यद्वज्ज्ञानिनां कर्मसंभवम्' ॥
कर्म तत्कुरुते तर्षादहंकारपरिग्रहम् ।
कार्यकारणसंयोगे स हेतुरुपपादितः ॥
`यथाऽऽकर्ण्य च तच्छिष्यस्तत्वज्ञानमनुत्तमम् ।' नात्येति कारणं कार्यं न कार्यं कारणं तथा ।
कार्याण्यमूनि करणे कालो भवति हेतुमान् ॥
हेतुयुक्ताः प्रकृतयो विकाराश्च परस्परम् ।
अन्योन्यमभिवर्तन्ते पुरुषाधिष्ठिताः सदा ॥
सत्वरजस्तामसैर्भावैश्च्युतो हेतुबलान्वितः ।
क्षेत्रज्ञमेवानयाति पांसुर्वातेरितो यथा ॥
न च तैः स्पृश्यते भावैर्न ते तेन महात्मना ।
सरजस्कोऽरजस्कश्च स वै वायुर्भवेद्यथा ॥
तथैतदन्तरं विद्यात्सत्वक्षेत्रज्ञयोर्बुधः ।
अभ्यासात्स तथा युक्तो न गच्छेत्प्रकृतिं पुनः ॥
संदेहमेतमुत्पन्नमच्छिनद्भगवानृषिः ।
तथा वार्तां समीक्षेत कृतलक्षणसंविदम् ॥
बीजान्यग्न्युपदग्धानि नरो हन्ति यथा पुनः ।
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संपद्यते पुनः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रयोदशाधिकद्विशततमोऽध्यायः ॥ 213 ॥

12-213-9 विद्यादव्यक्तात्मकमेव च इति थ. पाठः ॥ 12-213-16 कार्यव्यक्तेन करणे इति झ. पाठः ॥ 12-213-18 राजसैस्तामसैर्भावैः इति झ. पाठः ॥