अध्यायः 216

भीष्मेण युधिष्ठिरंप्रति ब्रह्मचर्योपायादिप्रतिपादकवार्ष्णेयाध्यात्मानुवादः ॥ 1 ॥

गुरुरुवाच ।
अत्रोपायं प्रवक्ष्यामि यथावच्छास्त्रचक्षुषा ।
तत्त्वज्ञानाच्चरन्राजन्प्राप्नुयात्परमां गतिम् ॥
सर्वेषामेव भूतानां पुरुषः श्रेष्ठ उच्यते ।
पुरुषेभ्यो द्विजानाहुर्द्विजेभ्यो मन्त्रदर्शिनः ॥
सर्वभूतात्मभूतास्ते सर्वज्ञाः सर्वदर्शिनः ।
ब्राह्मणा वेदशास्त्रज्ञास्तत्त्वार्थगतनिश्चयाः ॥
नेत्रहीनो यथा ह्येकः कृच्छ्राणि लभतेऽध्वनि ।
ज्ञानहीनस्तथा लोके तस्माज्ज्ञानविदोऽधिकाः ॥
तांस्तानुपासते धर्मान्धर्मकामा यथागमम् ।
न त्वेषामर्थसामान्यमन्तरेण गुणानिमान् ॥
वाग्देहमनसां शौचं क्षमा सत्यं धृतिः स्मृतिः ।
सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुणाञ्छुभान् ॥
यदिदं ब्रह्मणो रूपं ब्रह्मंचर्यमिति स्मृतम् ।
परं तत्सर्वधर्मेभ्यस्तेन यान्ति परां गतिम् ॥
लिङ्गसंयोगहीनं यच्छब्दस्पर्शविवर्जितम् ।
श्रोत्रेण श्रवणं चैव चक्षुषा चैव दर्शनम् ॥
वाक्संभाषाप्रवृत्तं यत्तन्मनः परिवर्जितम् ।
बुद्ध्या चाध्यवसीयीत ब्रह्मचर्यमकल्मषम् ॥
सम्यग्वृत्तिर्ब्रह्मलोकं प्राप्नुयान्मध्यमः सुरान् ।
द्विजाग्र्यो जायते विद्वान्कन्यसीं वृत्तिमास्थितः ॥
सुदुष्करं ब्रह्मचर्यमुपायं तत्र मे शृणु ।
संप्रदीप्तमुदीर्णं च निगृह्णीयाद्द्विजो मनः ॥
योषितां न कथा श्राव्या न निरीक्ष्या निरम्बराः ।
कथंचिद्दर्शनादासां दुर्बलानां विशेद्रजः ॥
रागोत्पन्नश्चेरत्कृच्छ्रमह्नस्त्रिः प्रविशेदपः ।
मग्नस्त्वप्स्वेव मनसा त्रिर्जपेदघमर्षणम् ॥
पाप्मानं निर्दहेदेवमन्तर्भूतरजोमयम् ।
ज्ञानयुक्तेन मनसा संततेन विचक्षणः ॥
कुणपामेध्यसंयुक्तं यद्वदच्छिद्रबन्धनम् ।
तद्वद्देहगतं विद्यादात्मानं देहबन्धनम् ॥
`अमेध्यपूर्णं यद्भाण्डं श्लेष्मान्तकलिलावृतम् ।
नेच्छते वीक्षितुं भाण्डं कुतः स्प्रष्टुं प्रवर्तते ॥
देहभाण्डं मलैः पूर्णं बहिः स्वेदजलावृतम् ।
बीभत्सं नरनारीणां ज्ञानिनां नरकं मतम् ॥
छिद्रकुम्भो यथा स्रावं सृजते तद्गतं दृढम् ।
अन्तस्यं स्रंसते तद्वज्जलं देहेषु देहिनाम् ॥
श्लेष्माश्रुमूत्रकलिलं पुरीषं शुक्लमेव च । कफजालविनिर्यासः सरसश्चित्त मुञ्चय ॥'
वातपित्तकफान्रक्तं त्वङ्भांसं स्नायुमस्थि च ।
मज्जां देहं सिराजालैस्तर्पयन्ति रसा नृणाम् ॥
दश विद्याद्धमन्योऽत्र पञ्चेन्द्रियगुणावहाः ।
याभिः सूक्ष्माः प्रजायन्ते धमन्योऽन्याः सहस्रशः ॥
एवमेताः सिरा नद्यो रसोदा देहसागरम् ।
तर्पयन्ति यथाकालमापगा इव सागरम् ॥
मध्ये च हृदयस्यैका सिरा तत्र मनोवहा ।
शुक्रं संकल्पजं नॄणां सर्वगात्रैर्विमुञ्चति ॥
सर्वगात्रप्रतायिन्यस्तस्या ह्यनुगताः सिराः ।
नेत्रयोः प्रतिपद्यन्ते वहन्त्यस्तैजसं गुणम् ॥
पयस्यन्तर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः ।
शुक्रं निर्मथ्यते तद्वद्देहसंकल्पजैः खजैः ॥
स्वप्नेऽप्येवं यथाऽभ्येति मनः संकल्पजं रजः ।
शुक्रमस्पर्शजं देहात्सृजन्त्यस्य मनोवहाः ॥
महर्षिर्भगवानत्रिर्वेद तच्छ्रुक्रसंभवम् ।
नृबीजमिन्द्रदैवत्यं तस्मादिन्द्रियमुच्यते ॥
ये वै शुक्रगतिं विद्युर्भूतसंकरकारिकाम् ।
विरागा दग्धदोषास्ते नाप्नुयुर्देहसंभवम् ॥
गुणानां साम्यमागम्य मनसैव मनोवहम् ।
देहकर्म नुदन्प्राणानन्तकाले विमुच्यते ॥
भविता मनसो ज्ञानं मन एव प्रजायते ।
ज्योतिष्मद्विरजो नित्यं मन्त्रसिद्धं महात्मनाम् ॥
तस्मात्तदभिघाताय कर्म कुर्यादकल्मषम् ।
देहबीजं समुत्पन्नमस्मित्कर्मणि विद्यते ॥
न स्मरेन्न प्रयुञ्जीत ज्ञानी तत्कर्म बुद्धिमान् ।
रजस्तमश्च हित्वेह न तिर्यग्गतिमाप्नुयात् ॥
तरुणाधिगतं ज्ञानं जरादुर्बलतां गतम् ।
विपक्वबुद्धिः कालेन आदत्ते मानसं बलम् ॥
`एव पुत्रकलत्रेषु ज्ञातिसंबन्धिबन्धुषु ।
आदत्ते हृदये कामं व्याध्यादिभिरभिप्लुतः ॥
यतस्ततः परिपतन्नविन्दन्सुखमण्वपि । बहुदुःखसमापन्नः पश्चान्निर्वेदमास्थितः ।
ज्ञानवृक्षं समाश्रित्य पश्चान्निर्वृतिमश्नुते ॥'
सुदुर्गमिव पन्थानमतीत्य गुणबन्धनम् ।
यथा पश्येत्तथा दोषानतीत्यामृतमश्नुते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षोडशाधिकद्विशततमोऽध्यायः ॥ 216 ॥

12-216-10 कन्यसीं कनीयसीम् ॥ 12-216-11 निगृह्णीयाच्चलं मन इति ध. पाठः ॥ 12-216-12 रजो रागः ॥ 12-216-20 सिरानाड्यस्तासां जालैः ॥ 12-216-21 धमन्यो नाड्यः । याभिः सूक्ष्माः प्रतायन्ते इति झ. पाठः ॥ 12-216-24 सर्वगात्रप्रवाहिन्यः इति ध. पाठः ॥ 12-216-25 स्वजैर्मन्थनदण्डैः । देहस्थात् संकल्पात् खेभ्य इन्द्रियेभ्यश्च जातैः संकल्पजैः स्वजैः स्त्रीदर्शनस्पर्शनादिभिः ॥ 12-216-26 शुक्रं संकल्पजं देहात्सृजत्यस्य मनोवहा इति झ. पाठः ॥ 12-216-27 त्रिबीजमिन्द्रदैवत्यं इति झ. पाठः ॥ 12-216-31 तदभिघाताय मनोनाशाय । अकल्मषं निवृत्तिरूपम् ॥ 12-216-32 यथेष्टां गतिमाप्नुयात् इति झ. पाठः । तत्र यथा येन प्रकारेण इष्टां गतिं मोक्षम् ॥ 12-216-33 जरया दुर्बलता तां । तृतीया तत्कृतार्थेनेति समासः । मानसंबलं संकल्पमादत्ते संहरति । काले पूर्वभाग्येन नतु दृष्टयोग्यतया ॥ 12-216-36 गुणा देहेन्द्रियादयस्तदेव बन्धनम् ॥