अध्यायः 223

भीष्मेण युधिष्ठिरंप्रति जनकोपाख्यानकथनम् ॥ 1 ॥

`* युधिष्ठिर उवाच ।
किं कारणं महाप्राज्ञ दह्यमानश्च मैथिलः ।
मिथिलां नेह धर्मात्मा प्राह वीक्ष्य विदाहिताम् ॥
भीष्म उवाच ।
श्रृयतां नृपशार्दूल यदर्थं दीपिता पुरा ।
वह्निना दीपिता सा तु तन्मे शृणु महामते ॥
जनको जनदेवस्तु कर्माण्याध्याय चात्मनि ।
सर्वभावमनुप्राप्य भावेन विचचार सः ॥
यजन्ददंस्तथा जुह्वन्पालयन्पृथिवीमिमाम् ।
अध्यात्मविन्महाप्राज्ञस्तन्मयत्वेन निष्ठितः ॥
स तस्य हृदि संकल्पं ज्ञातुमैच्छत्स्वयं प्रभुः ।
सर्वलोकाधिपस्तत्र द्विजरूपेण संयुतः ॥
मिथिलायां महाबुद्धिर्व्यलीकं किंचिदाचरन् ।
स गृहीत्वा द्विजश्रेष्ठैर्नृपाय प्रतिवेदितः ॥
अपराधं समुद्दिश्य तं राजा प्रत्यभाषत ।
न त्वां ब्राह्मण दण्डेन नियोक्ष्यामि कथंचन ॥
मम राज्याद्विनिर्गच्छ यावत्सीमा भुवो मम ।
तच्छ्रुत्वा ब्राह्मणो गत्वा राजानं प्रत्युवाच ह ॥
करिष्ये वचनं राजन्ब्रवीहि मम जानतः ।
का सीमा तव भूमेस्तु ब्रूहि धर्मं ममाद्य वै ॥
तच्छ्रुत्वा मैथिलो राजा लज्जयावनताननः ।
नोवाच वचनं विप्रं तत्वबुद्ध्या समीक्ष्य तत् ॥
पुनःपुनश्च तं विप्रश्चोदयामास सत्वरम् ।
ब्रूहि राजेन्द्र गच्छामि तव राज्या द्विवासितः ॥
ततो नृपो विचार्यैवमाह ब्राह्मणपुङ्गवम् । आवासो वा न मेऽस्त्यत्र सर्वा वा पृथिवी मम ।
गच्छ वा तिष्ठ वा ब्रह्मन्निति मे निश्चिता मतिः ॥
इत्युक्तः स तथा तेन मैथिलेन द्विजोत्तमः ।
अब्रवीत्तं महात्मानं राजानं मन्त्रिभिर्वृतम् ॥
त्वमेवं पद्मनाभस्य नित्यं पक्षपदाहितः ।
अहो सिद्धार्थरूपोऽसि गमिष्ये स्वस्ति तेऽस्तु वै ॥
इत्युक्त्वा प्रययौ विप्रस्तज्जिज्ञासुर्द्विजोत्तमान् ।
अदहच्चाग्निना तस्य मिथिलां भगवान्स्वयम् ॥
प्रदीप्यमानां मिथिलां दृष्ट्वा राजा न कम्पितः ।
जनैः स परिपृष्टस्तु वाक्यमेतदुवाच ह ॥
अनन्तं वत मे वित्तं भाव्यं मे नास्ति किंचन ।
मिथिलायां प्रदीप्तायां न मे किंचन दह्यते ॥
तदस्य भाषमाणस्य श्रुत्वा श्रुत्वा हृदि स्थितम् ।
पुनः संजीवयामास मिथिलां तां द्विजोत्तमः ॥
आत्मानं दर्शयामास वरं चास्नै दद्रौ पुनः ।
धर्मे तिष्ठस्व सद्भावो बुद्धिस्तेऽर्थे नराधिप ॥
सत्ये तिष्ठस्व निर्विण्णः स्वस्ति तेऽस्तु व्रजाम्यहम् । इत्युक्त्वा भगवांश्चैनं तत्रैवान्तरधीयत ।
एतत्ते कथितं राजन्किं भूयः श्रोतुमिच्छसि ॥' ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥ 223 ॥

* 223, 223 एतदध्यायद्वयं ध. पुस्तकएव दृश्यते ।