अध्यायः 225

भीष्मेण युधिष्ठिरंप्रति दान्तलक्षणकथनपूर्वकं दमप्रशंसनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
किं कुर्वन्सुखमाप्नोति किं कुर्वन्दुःखमाप्नुयात् ।
किं कुर्वन्निर्भयो लोके सिद्धश्चरति भारत ॥
भीष्म उवाच ।
दममेव प्रशंसन्ति वृद्धाः श्रुतिसमाधयः ।
सर्वेषामेव वर्णानां ब्राह्मणस्य विशेषतः ॥
नादान्तस्य क्रियासिद्धिर्यथावदुपपद्यते ।
क्रिया तपश्च देवाश्च दमे सर्वं प्रतिष्ठितम् ॥
दमस्तेजो वर्धयति पवित्रं दम उच्यते ।
विपाष्मा निर्भयो दान्तः पुरुषो विन्दते महत् ॥
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते ।
सुखं लोके विपर्येति मनश्चास्य प्रसीदति ॥
तेजो दमन ध्रियते तत्र तीक्ष्णोऽधिगच्छति ।
अमित्रांश्च बहून्नित्यं पृथगात्मनि पश्यति ॥
क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् ।
तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयंभुवा ॥
आश्रमेषु च सर्वेषु दम एव विशिष्यते । 12-225-8b`धर्मः संरक्ष्यते तैस्तु यतस्ते धर्मसेतवः ।'
यच्च तेषु फलं धर्म्यं भूयो दान्ते तदुच्यते ॥
तेषां लिङ्गानि वक्ष्यानि येषां समुदयो दमः ।
अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता ॥
अक्रोध आर्जवं नित्यं नातिवादोऽभिमानिता ।
गुरुपूजाऽनसूया च दया भूतेष्वपैशुनम् ॥
जनवादमृषावादस्तुतिनिन्दाविवर्जनम् ।
साधुकामांश्च स्पृहयेन्नायतिं प्रत्ययेषु च ॥
अवैरकृत्सूपचारः समो निन्दाप्रशंसयोः ।
सुवृत्तः शीलसंपन्नः प्रसन्नात्माऽऽत्मवाञ्शुचिः ॥
प्राप्य लोके च सत्कारं स्वर्गं वै प्रेत्य गच्छति ।
दुर्गमं सर्वभूतानां प्रापयन्मोदते सुखी ॥
सर्वभूतहिते युक्तो न स्म यो द्विषते जनम् ।
महाह्रद इवाक्षोभ्यः प्राज्ञस्तृप्तः प्रसीदति ॥
अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः ।
नमस्यः सर्वभूतानां दान्तो भवति बुद्धिमान् ॥
न हृष्यति महत्यर्थे व्यसने च न शोचति ।
सदाऽपरिमितप्रज्ञः स दान्तो द्विज उच्यते ॥
कर्मभिः श्रुतसंपन्नः सद्भिराचारेतः शुचिः ।
सदैव दमसंयुक्तस्तस्य भुङ्क्ते महाफलम् ॥
अनसूयाऽक्षमा शान्तिः संतोषः प्रियवादिता ।
सत्यं दानमनायासो नैष मार्गो दुरात्मनाम् ॥
कामक्रोधौ च लोभश्च परस्येर्ष्या विकत्थना । `अतुष्टिरनृतं मोह एष मार्गो दुरात्मनाम् ॥'
कामक्रोधौ वशे कृत्वा ब्रह्मचारी जितेन्द्रियः । विक्रम्य घोरे तमसि ब्राह्मणः संशितव्रतः ।
कालाकाङ्क्षी चरेल्लोकान्निरपाय इवात्मवान् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चविंशत्यधिकद्विशततमोऽध्यायः ॥ 225 ॥

12-225-2 श्रुतिसमाधयो वेदद्रष्ठारः ॥ 12-225-3 तपश्च सत्यं चेति झ. पाठः ॥ 12-225-6 तीक्ष्णो राजसः । अमित्रान् कामादीन् ॥ 12-225-7 क्रव्याद्भ्यो व्याघ्रादिभ्यो मांसभक्षकेभ्यः ॥ 12-225-8 भूयोऽधिकम् ॥ 12-225-9 समुदेत्यस्मादिति समुदयो हेतुः । अकार्पण्यमदीनत्वम् । असंरम्भोऽभिनिवेशाभावः ॥ 12-225-11 प्रत्ययेषु सुखदुःखाद्यनुभवेषु । आयतिमुत्तरकालम् । न स्पृहयेत् । प्राप्तं सुखादिकं भुञ्जीत नतु कालान्तरीयौ तज्जौ हर्षविषादौ चिन्तनीयावित्यर्थः ॥ 12-225-12 सूपचारः शाठ्यवर्जितादरः ॥ 12-225-13 दुर्गमं दुष्काले दुर्लभमन्नादि प्रापयन् दयावानित्यर्थः ॥ 12-225-15 दान्तो भवति धर्मवित् इति ध. पाठः ॥ 12-225-19 डम्भो दर्पश्च मानश्च नैष मार्गो महात्मनाम् इति ट. ड. पाठः ॥