अध्यायः 226

भीष्मेण युधिष्ठिरंप्रति तपउपवासादिनिरूपणम् ॥ 1 ॥

युधिष्ठिर उवाच ।
द्विजातयो व्रतोपेता यदिदं भुञ्जते हविः ।
अन्नं ब्राह्मणकामाय कथमेतत्पितामह ॥
भीष्म उवाच ।
अवेदोक्तव्रतोपेता भुञ्जानाः कार्यकारिणः ।
वेदोक्तेषु च भुञ्जाना व्रतलुब्धा युधिष्ठिर ॥
युधिष्ठिर उवाच ।
यदिदं तप इत्याहुरुपवासं पृथग्जनाः ।
एतत्तपो महाराज उताहो किं तपो भवेत् ॥
भीष्म उवाच ।
मासपक्षोपवासेन मन्यन्ते यत्तपो जनाः ।
आत्मतन्त्रोपधातस्तु न तपस्तत्सतां मतम् ॥
त्यागश्च सन्नतिश्चैव शिष्यते तप उत्तमम् ।
सदोपवासी स भवेद्ब्रह्मचारी सदा भवेत् ॥
मुनिश्च स्यात्सदा विप्रो दैवतं च सदा भवेत् ।
कुटुम्बिको धर्मपरः सदाऽस्वप्नश्च भारत ॥
अमांसादी सदा च स्यात्पवित्री च सदा भवेत् ।
अमृताशी सदा च स्यान्न च स्याद्विषभोजनः ॥
विधसाशी सदा च स्यात्सदा चैवातिथिप्रियः ।
[श्रद्दधानः सदा च स्याद्देवताद्विजपूजकः] ॥
युधिष्ठिर उवाच ।
कथं सदोपवासी स्याद्ब्रह्मचारी कथं भवेत् ।
विघसाशी कथं च स्यात्सदा चैवातिथिप्रयिः ॥
भीष्म उवाच ।
अन्तरा प्रातराशं च सायमाशं तथैव च ।
सदोपवासी स भवेद्यो न भुङ्क्तेऽन्तरा पुनः ॥
भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः ।
ऋतवादी भवेन्नित्यं ज्ञाननित्यश्च यो नरः ॥
न भक्षयेद्वृथा मांसममांसाशी भवत्यपि ।
दाननित्यः पवित्रीस्यादस्वप्नश्च दिवाऽस्वपन् ॥
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु सदा नरः ।
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर ॥
अभुक्तवत्सु भुञ्जानो विषमश्नाति वै द्विजः । अदत्त्वा योऽतिथिभ्योऽन्नं न भुङ्क्ते सोतिथिप्रियः ।
`अभुक्त्वा दैवतेभ्यश्च यो न भुङ्क्ते सदैवतम्'
देवताभ्यः पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह ।
अवशिष्टं तु योऽश्नाति तमाहुर्विघसाशिनम् ॥
तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणा सह ।
उपस्थिताश्चाप्सरोभिः परियान्ति दिवौकसः ॥
देवताभिश्च ये सार्धं पितृभ्यश्चोपभुञ्जते ।
रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षङ्विशत्यधिकद्विशततमोऽध्यायः ॥ 226 ॥

12-226-1 द्विजातयस्त्रैवर्णिकाः । हविर्देवताशेषम् ॥ 12-226-2 भुज्जाना अभोज्यं मांसादीति शेषः । कार्यकारिणः कामाचारवन्तः । इहैव सतिता इत्यर्थः । व्रतलुब्धा दीक्षोक्तफलानुरागिणः स्वर्गं प्राप्य पतिष्यन्तीत्यर्थः ॥ 12-226-4 ह्यत्मतन्त्रमात्मविद्या तस्या उपघातो विघ्नः ॥ 12-226-5 भूतभयंकरकर्मसंन्यासस्त्यागः । सन्नतिर्भूताराधनम् ॥ 12-226-7 अमृताशी सदा च स्याद्देवतातिथिपूजकः इति झ. ड. पाठः ॥ 12-226-9 अतिथिर्वैश्वदेवान्ते प्राप्तः ॥ 12-226-12 वृथा देवपितृशेषं विना ॥ 12-226-14 अभुक्तवत्सु नाश्नानः सततं यस्तु वैद्विजः । अभोजनेन तेनास्य जितः स्वर्गो भवत्युत्तेति झ. पाठः ॥