अध्यायः 229
भीष्मेण युधिष्ठिरंप्रति ज्ञानस्य
श्रेयःसाधनत्वज्ञानोपायादिप्रतिपादकेन्द्रप्रह्नादसंवादानुवादः ॥ 1 ॥
यदिदं कर्म लोकेऽस्मिञ्शुभं वा यदि वाऽशुभम् ।
पुरुषं योजयत्येव फलयोगेन भारत ॥
कर्ता स्वित्तस्य पुरुष उताहो नेति संशयः ।
एतदिच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादमिन्द्रस्य च युधिष्ठिर ॥
असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम् ।
अस्तब्धमनहंकारं सत्वस्थं संयतेन्द्रियम् ॥
तुल्यनिन्दास्तुतिं दान्तं शून्यागारसमाकृतिम् ।
चराचराणां भूतानां विदितप्रभवाप्ययम् ॥
अक्रुध्यन्तमहृष्यन्तमप्रियेषु प्रियेषु च ।
काञ्चने वाऽथ लोष्ठे वा उभयोः समदर्शनम् ॥
आत्मनि श्रेयसि ज्ञाने धीरं निश्चितनिश्चयम् ॥
परावरज्ञं भूतानां सर्वज्ञं सर्वदर्शनम् ॥
`अव्यक्तात्मनि गोविन्दे वासुदेवे महात्मनि ।
हृदयेन समाविष्टं सर्वभावप्रियंकरम् ॥
भक्तं भागवतं नित्यं नारायणपरायणम् ।
ध्यायन्तं परमात्मानं हिरण्यकशिपोः सुतम् ॥'
शक्रः प्रह्लादमासीनमेकान्ते संयतेन्द्रियम् ।
बुभुत्समानस्तत्प्रज्ञामभिगम्येदमब्रवीत् ॥
यैः कैश्चित्संमतो लोके गुणैः स्यात्पुरुषो नृषु ।
भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयामहे ॥
अथ ते लक्ष्यते बुद्धिः समा बालजनैरिह ।
आत्मानं मन्यमानः सञ्श्रेयः किमिह मन्यसे ॥
बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः ।
श्रिया विहीनः प्रह्लाद शोचितव्ये न शोचसि ॥
प्रज्ञालाभेन दैतेय उताहो धृतिमत्तथा ।
प्रह्लाद स्वस्थरूपोऽसि पश्यन्व्यसनमात्मनः ॥
भीष्म उवाच ।
इति संचोदितस्तेन धीरो निश्चितनिश्चयः ।
उवाच श्लक्ष्णया वाचा स्वां प्रज्ञामनुवर्णयन् ॥
प्रह्लाद उवाच ।
प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुध्यते ।
तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तंभोऽनुपश्यतः ॥
`गहनं सर्वभूतानां ध्येयं नित्यं सनातनम् ।
अनिग्रहमनौपम्यं सर्वाकारं परात्परम् ॥
सर्वावरणसंभूतं तस्मादेतत्प्रवर्तते ।
तन्मया अपि संपश्य नानालक्षणलक्षिताः ॥
स वै पाति जगत्स्रष्टा विष्णुरित्यभिशब्दितः ।
पुनर्दर्शति संप्राप्ते------सुरेश्चरः ॥'
स्वभावात्संप्रवर्तन्ते निवर्तन्ते तथैव च ।
सर्वे भावास्तथा भावाः पुरुषार्थो न विद्यते ॥
पुरुषार्थस्य चाभावे नास्ति कश्चित्स्वकारकः ।
स्वयं च कुर्वतस्तस्य जातु मानो भवेदिह ॥
यस्तु कर्तारमात्मानं मन्यते साध्वसाधु वा ।
तस्य दोषवती प्रज्ञा अतत्त्वज्ञेति मे मतिः ॥
यदि स्यात्पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम् ।
आरम्भास्तस्य सिद्ध्येयुर्न तु जातु पराभवेत् ॥
अनिष्टस्य हि निर्वृत्तिरनिवृत्तिः प्रियस्य च ।
लक्ष्यते यतमानानां पुरुषार्थस्ततः कुतः ॥
अनिष्टस्याभिनिर्वृत्तिमिष्टसंवृतिमेव च ।
अप्रयत्नेन पश्यामः केषां चित्तत्स्वभावतः ॥
प्रतिरूपतराः केचिद्दृस्यन्ते बुद्धिमत्तराः ।
विरूपेभ्योऽल्पबुद्धिभ्यो लिप्समाना धनागमं ॥
स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा ।
शुभाशुभास्तदा तत्र तस्य किं मानकारणम् ॥
स्वभावादेव तत्सर्वमिति मे निश्चिता मतिः ।
आत्मप्रतिष्ठा प्रज्ञा वा मम नास्ति ततोऽन्यथा ॥
कर्मजं त्विह मन्यन्ते पलयोगं शुभाशुभम् ।
कर्मणां विषयं कृत्स्नमहं वक्ष्यामि तच्छृणु ॥
यथा वेदयते कश्चिदोदनं पायसं ह्यदन् ।
एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम् ॥
विकारानेव यो वेद न वेद प्रकृतिं पराम् ।
तस्य स्तंभोऽभवेद्बाल्यान्नास्ति स्तंभोऽनुपश्यतः ॥
स्वभावभाविनो भावान्सर्वानेवेह निश्चये ।
बुद्ध्यमानस्य दर्पो वा मानो वा किं करिष्यति ॥
वेद धर्मविधिं कृत्स्नं भूतानां चाप्यनित्यताम् ।
तस्माच्छक्र न शोचारि सर्वं ह्येवेदमन्तवत् ॥
निर्ममो निरहंकारो निरीहो मुक्तबन्धनः ।
स्वस्थो व्यपेतः पश्यामि भूतानां प्रभवाप्ययौ ॥
कृतप्रज्ञस्य दान्तस्य वितृष्णाय निराशिषः ।
नायासो विद्यते शक्र पश्यतो योगवित्तया ॥
प्रकृतौ च विकारे च न मे प्रीतिर्न च द्विषे ।
द्वेष्टारं च न पश्यामि यो ममाद्य विरुध्यति ॥
नोर्ध्वं नावाङ्वतिर्यक्च न क्वचिच्छक्र कामये ।
न हि ज्ञेये न विज्ञाने नाज्ञाने विद्यतेऽन्तरम् ॥
शक्र उवाच ।
येनैषा लभ्यते प्रज्ञा येन शान्तिरवाप्यते ।
प्रब्रूहि तमुपायं मे सम्यक्प्रह्लाद पृच्छते ॥
प्रह्लाद उवाच ।
आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया ।
गुरुशुश्रूषया शक्र पुरुषो लभते महत् ॥
स्वभावाल्लभते प्रज्ञां शान्तिमेति स्वभावतः ।
स्वभावादेव तत्सर्वं यत्किंचिदनुपश्यति ॥
`नैवान्तरं विजानाति श्रुत्वा गुरुमुखात्ततः ।
वाक्यं वाक्यार्थविज्ञानमालोक्य मनसा यतिः ॥
विवेकप्रत्ययापन्नमात्मानमनुपश्यति ।
विरज्यति ततो भीत्या परमेश्वरमृच्छति ॥
त्रातारं सर्वदुःखानां तत्सुखान्वेषणं ततः ।
करोति सद्भिः संसर्गमलं सन्तः सुखाय वै ॥
सतां सकाशादाज्ञाय मार्गं लक्षणवत्तया ।
सर्वसङ्गविनिर्मुक्तः परमात्मानमृच्छति ॥
विषयेच्छाकृतो धर्मं सरजस्को भयावहः ।
धर्महानिमवाप्नोति क्रमात्तेन नरः पुनः ॥
भक्तिहीनो भवत्येव परमात्मनि चाच्युत ।
वाचके वाऽपि च स्थानं न हन्त्येव विमोचितः ॥
सार्क्ष्ये चास्य रतिर्नित्यं संसारे च रतिर्भवेत् ।
तस्य नित्यमविज्ञानादात्माचैव न सिद्ध्यति ॥
उन्मत्तवृत्तिर्भवति क्रमादेवं प्रवर्तते ।
आशौचं वर्धते नित्यं न शाम्यति कथंचन ॥
विषये चान्वितस्यास्य मोक्षवाञ्छा न जायते ।
हेत्वाभासेषु संलीनः स्तौति वैषयिकान्गुणान् ॥
न शास्त्राणि शृणोत्येव मानदर्पसमन्वितः ।
स्वतःसिद्धं न भोगस्तं स्वतः सिद्धं न वेत्ति च ।
चिद्रूपधारणं चैव परसृष्टिमथाव्ययम् ॥
नानायोनिगतस्तेन भ्राम्यमाणः स्वकर्मभिः ।
तीर्णपारं न जानाति महामोहसमन्वितः ।
आचार्यसंश्रयाद्विद्याद्विनयं समुपागतः ॥
अनुकूलेषु धर्मेषु चिनोत्येनं ततस्ततः ।
आचार्य इति च ख्यातस्तेनासौ बलवृत्रहन् ॥
नियतेनैव सद्भावस्तेन जन्मान्तरादिषु ।
कर्मसञ्चयतूलौघः क्षिप्यते ज्ञानवायुना ॥
एवं युक्तसमाचारः संसारविनिवर्तकः ।
अनुकूलवृत्तिं सततं छिनत्त्येव भृगुर्यथा ॥
येन चायं समापन्नं वैतृष्ण्यं नाधिगच्छति ।
अभ्यन्तरः स्मृतः शक्र तत्साम्यं परिवर्जयेत् ॥
प्रथमं तत्कृतेनैव कर्मणा परिमृच्छति ।
द्वितीयं स्वप्नयोगं च कर्मणा परिगच्छति ॥
एतैरक्षैः समापन्नः प्रत्यक्षोऽसौ समास्थितः ।
सुपुप्त्याख्यस्तुरीयोसौ न च ह्यावरणान्वितः ॥
लोकवृत्त्या तमीशानं यजञ्जुह्वन्यमी भवेत् ।
आत्मन्यायासयोगेन निष्क्रियं स परात्परम् ॥
आयामे तां विजानाति मायैषा परमात्मनः ।
प्रातिभासिकसामान्याद्बुद्धेर्या संविदात्मिका ॥
स्फुलिङ्गसत्त्वसदृशादग्निभावो यथा भवेत् ।
शिशूनामेवमज्ञानामात्मभावोऽन्यथा स्मृतः ॥
साध्येऽप्यवस्तुभूताख्ये मित्रामित्रादयः कुतः ।
तदभावे तु शोकाद्या न वर्तन्ते सुरेश्वर ॥
एवं बुध्यस्व भगवन्समबुद्धिं समन्वियात् ।
उपायमेतदाख्यातं मा वक्रं गच्छ देवप ॥
ज्ञानेन पश्यते कर्म ज्ञानिनां न प्रवर्तकम् ।
यावदारब्धमस्येह तावन्नैवोपशाम्यति ॥
तदन्ते तं प्रयात्येव न विद्वानिति मे मतिः ।
यदस्य वाचकं वक्ष्ये संस्मरे तद्भवेत्तदा ॥
तेनतेन च भावेन अपायं तत्र पश्यति ।
स्थानभेदेषु वागेषा तालुसंस्था यथा तथा ॥
तद्वदुद्धिगता ह्यर्था बुद्धिमात्मगतः सदा ॥
समस्तसंकल्पविशेषमुक्तं
परं पराणां परमं महात्मा ।
त्रय्यन्तविद्भिः परिगीयतेऽसौ
विष्णुर्विभुर्वास्ति गुणो न नित्यम् ॥
वर्णेषु लोकेषु विशेषणेषु
स वासुदेवो वसनान्महात्मा ।ट
गुणानुरूपं स च कर्मरूपं
ददाति सर्वस्य समस्तरूपम् ।
न संदृशे तिष्ठति रुपमस्य
न चक्षुषा पश्यति कश्चिदेनम् ॥
भक्त्या च धृत्या च समाहितात्मा
ज्ञानस्वरूपं परिपश्यतीह ॥
वदन्ति तन्मे भगवान्ददौ स
स एव शेषं मघवान्महात्मा ।
एवं ममोपायमवैहि शक्र
तस्माल्लोको नास्ति मह्यं सदैव ॥'
भीष्म उवाच ।
इत्युक्तो दैत्यपतिना शक्रो विस्मयमागमत् ।
प्रीतिमांश्च तदा राजंस्तद्वाक्यं प्रत्यपूजयत् ॥
स तदाभ्यर्च्य दैत्येन्द्रं त्रैलोक्यपतिरीश्वरः ।
असुरेन्द्रमुपामन्त्र्य जगाम स्वं निवेशनम् ॥ ॥
इति श्रीमन्महाभारते शन्तिपर्वणि मोक्षधर्मपर्वणि
एकोनत्रिंशदधिकद्विशततमोऽध्यायः ॥ 229 ॥
12-229-2 श्रोतुं त्वत्तो वदस्व मे इति ट. थ. पाठः ॥ 12-229-4
असक्तं फलेच्छारहितम् । संयमे रतं इति ट. थ. पाठः । समये रतं इति झ. पाठः ॥ 12-229-5 शून्यागारनिवासिनं इति झ. पाठः ॥ 12-229-7 आत्मनि प्रतीचि ।
श्रेयस्यानन्दरूपे । ज्ञाने चिन्मात्रे । धीरं कुतर्कानभिभूतम् । सर्वज्ञं
समदर्शनमिति झ. पाठः ॥ 12-229-11 भवति त्वयि । अनपगान् स्थिरान् ॥ 12-229-12
बालजनैः समारागद्वेषादिराहित्यात् । मन्यमानो जानन्नात्मज्ञानार्थं किं श्रेयः
प्रशस्ततरं साधनम् ॥ 12-229-15 तदुक्तमनुवर्णयन् इति ध. पाठः ॥ 12-229-21
नास्ति काचित्स्वका रतिः इति थ. पाठः ॥ 12-229-25
अनिष्टस्याप्यनिर्वृत्तिमिष्टनिर्वृत्तिमेव च इति ट. थ. पाठः ॥ 12-229-30
कश्चिदोदनं वायसो ह्यदन्निति झ. पाठः ॥ 12-229-32 वुध्यमानस्य वै दर्पं मनो वा
इति ध. पाठः ॥ 12-229-35 पश्यतो लोकविद्यया इति ध. पाठः । लोकमव्ययं इति झ.
पाठः ॥ 12-229-36 यो मामद्य ममायते इति झ. पाठः ॥ 12-229-37 न ज्ञाने कर्म
विद्यते इति झ. पाठः ॥ 12-229-38 प्रज्ञा ज्ञानम् । शान्तिस्तत्फलम् ॥ 12-229-39
महत् मोक्षम् ॥