अध्यायः 230

इन्द्रबलिसंवादः ॥ 1 ॥ इन्द्रावमानितेन बलिना तंप्रति गर्वभञ्जकवचनोपन्यासः ॥ 2 ॥

युधिष्ठिर उवाच ।
यया बुद्ध्या महीपालो भ्रष्टश्रीर्विचरेन्महीम् ।
कालदण्डविनिष्पिष्टस्तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
वासवस्य च संवादं बलेर्वैरोचनस्य च ॥
पितामहमुपागम्य प्रणिपत्य कृताञ्जलिः ।
सर्वानेवासुराञ्जित्वा बलिं पप्रच्छ वासवः ॥
यस्य स्म ददतो वित्तं न कदाचन हीयते ।
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥
स वायुर्वरुणश्चैव स रविः स च चन्द्रमाः ।
सोऽग्निस्तपति भूतानि जलं च स भवत्युत ॥
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ।
स एव ह्यस्तमयते स स्म विद्योतते दिशः ॥
स वर्षति स्म वर्षाणि यथाकालमतन्द्रितः ।
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥
ब्रह्मोवाच ।
नैतत्ते साधु मघवन्यदेनमनुपृच्छसि ।
पृष्टस्तु नानृतं ब्रूयात्तस्माद्वक्ष्यामि ते बलिम् ॥
उष्ट्रेषु यदि वा गोषु खरेष्वश्वेषु वा पुनः ।
वरिष्ठो भविता जन्तुः शून्यागारे शचीपते ॥
शक्र उवाच ।
यदि स्म बलिना ब्रह्मञ्शून्यागारे समेयिवान् ।
हन्यामेनं न वा हन्यां तद्ब्रह्मन्ननुशाधि माम् ॥
ब्रह्मोवाच ।
मा स्म शक्र बलिं हिंसीर्न बलिर्वधमर्हति ।
न्यायस्तु शक्र प्रष्टव्यस्त्वया वासव काम्यया ॥
भीष्म उवाच ।
एवमुक्तो भगवता महेन्द्रः पृथिवीं तदा ।
चचारैरावतस्कन्धमधिरुह्य श्रिया वृतः ॥
ततो ददर्श स बलिं खरवेषेण संवृतम् ।
यथाख्यातं भगवता शून्यागारकृतालयम् ॥
शक्र उवाच ।
खरयोनिमनुप्राप्तस्तुपभक्षोऽसि दानव ।
इदं ते योनिरसमा शोचस्याहो न शोचसि ॥
अदृष्टं वत पश्यामि द्विषतां वशमागतम् ।
श्रिया विहीनं मित्रैश्च भ्रष्टैश्वर्यपराक्रमम् ॥
यत्तद्यानसहस्रैस्त्वं ज्ञातिभिः परिवारितः ।
लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् ॥
त्वन्मुखाश्चैव दैतेय व्यतिष्ठंस्तव शासने ।
अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह ॥
इदं च तेऽद्य व्यसनं शोचस्याहो न शोचसि ।
यदाऽतिष्ठः समुद्रस्य पूर्वकूले विलेलिखन् ॥
ज्ञातिभ्यो विभजन्वित्तं तदासीत्ते मनः कथम् ।
यत्ते सहस्रसमिता ननुतुर्देवसोषितः ॥
बहूनि वर्षपूगानि विहारे दीप्यतः श्रिया ।
सर्वाः पुष्करमालिन्यः सर्वाः काञ्चनसप्रभाः ॥
कथमद्य तदा चैव मनस्ते दानवेश्वर ।
छत्रं तवासीत्सुमहत्सौवर्णं रत्नभूषितम् ॥
ननृतुस्तत्र गन्धर्वाः षट््सहस्राणि सप्तचा ।
यूपस्तवासीत्सुमहान्यजतः सर्वकाञ्चनः ॥
यत्राददः सहस्राणि अयुतानां गवां दश ।
अनन्तरं सहस्रेण तदाऽऽसीद्दैत्या का मतिः ॥
यदा च पृथिवीं सर्वां यजमानोऽनुपर्यगाः ।
शम्याक्षेपेण विधिना तदाऽऽसीत्किंतु ते हृदि ॥
न ते पश्यामि भृङ्गारं न च्छत्रं व्यजनं न च ।
ब्रह्मदत्तां च ते मालां न पश्याम्यसुराधिप ॥
`भीष्म उवाच ।
ततः प्रहस्य स बलिर्वासवेन समीरितम् ।
निशम्य मानगम्भीरं सुरराजमथाब्रवीत् ॥
अहो हि तव बालिश्यमिह देवगणाधिप । अयुक्तं देवराजस्य तव कष्टमिदं वचः ॥'
न त्वं पश्यसि भृङ्गारं न च्छन्नं व्यजनं न च ।
ब्रह्मदत्तां च मे मालां न त्वं द्रक्ष्यसि वासव ॥
गुहायां निहितानि त्वं मम रत्नानि पृच्छसि ।
यदा मे भविता कालस्तदा त्वं तानि द्रक्ष्यसि ॥
`न जानीषे भवान्सिद्धिं शुभाङ्गस्वरूपरूपिणीम् । कालेन भविता सर्वो नात्र गच्छति वासव ॥'
न त्वेतदनुरूपं ते यशसो वा कुलस्य च ।
समृद्धार्थोऽसमृद्धार्थं यन्मां कत्थितुमिच्छसि ॥
न हि दुःखेषु शोचन्ते न प्रहृष्यन्ति चर्द्धिषु ।
कृतप्रज्ञाः ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः ॥
त्वं तु प्राकृतया बुद्ध्या पुरंदर विकत्थसे ।
यदाऽहमिव भावी स्यास्तदा नैवं वदिष्यसि ॥
`ऐश्वर्यमदमत्तो मां स त्वं किंचिन्न बुद्ध्यसे । राज्याद्विनिपतानेन सोहं न त्वपराजितः ॥' ॥

इति श्रीमन्महाभारते शन्तिपर्वणि मोश्रधर्मपर्वणि त्रिंशदधिकद्विशततमोऽध्यायः ॥ 230 ॥

12-230-1 भ्रष्टश्रीर्विन्दते महीम् इति ध. पाठः ॥ 12-230-4 स्ववीर्यख्यापनाय बलिं स्तौति यस्येत्यादिना ॥ 12-230-9 गोषु वृषभेषु । शृन्यागारप्रतिश्रयः इति ट. थ. ध. पाठः ॥ 12-230-15 भ्रष्टवीर्यपराक्रमम् इति झ. पाठः ॥ 12-230-17 अफुष्टयच्या कृषणंजिना धान्यप्रसृः ॥ 12-230-18 विलेलिहन् इति ध. पाठः । तत्र तालुग्रस्तं जगाकुर्वशित्यर्थः ॥ 12-230-24 सूक्ष्माग्रः स्थूलमूलः षट््त्रिंशदङ्गुलो दण्डः शम्या सा बलवता क्षिप्ता भातहूरे पतेतावदेकं देवप्रजनम् । एवं सर्वापि पृथिवी शम्याप्रक्षेपविभेदा । तव देवगजनानामपर्याप्ताभूदित्यर्थः । पर्यगाः परिहृत्य गतवान् ॥ 12-230-25 भृङ्गारः सौवणं उदपात्रविशेषः ॥ 12-230-35 विनिपतानेन विनिपतनेन ॥