अध्यायः 232

बलिशरीरान्निर्गन्त्या श्रिया शक्नं प्रति स्वनिर्गमनकारणाभिधानपूर्वकं ततः स्वस्य स्थानचतुष्टयवरणम् ॥ 1 ॥ इन्द्रबलिसंवादश्च ॥ 2 ॥

भीष्म उवाच ।
शतक्रतुरथापश्यद्बलेर्दीप्तां महात्मनः ।
स्वरूपिणीं शरीराद्धि निष्क्रामन्तीं तदा श्रियम् ॥
तां दृष्ट्वा प्रभया दीप्तां भगवान्पाककशासनः ।
विस्मयोत्फुल्लनयनो बलिं पप्रच्छ वासवः ॥
बले केयमपक्रान्ता रोचमाना शिखण्डिनी ।
त्वत्तः स्थिता सकेयूरा दीप्यमाना स्वतेजसा ॥
बलिरुवाच ।
न हीमामासुरीं वेद्मि न दैवीं च न मानुषीम् ।
त्वमेनां पृच्छ वा मा वा यथेष्टं कुरु वासव ॥
शक्र उवाच ।
का त्वं बलेरपक्रान्ता रोचमाना शिखण्डिनी ।
अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते ॥
का त्वं तिष्ठसि मामेवं दीप्यमाना स्वतेजसा ।
हित्वा दैत्यवरं सुभ्रु तन्ममाचक्ष्व पृच्छतः ॥
श्रीरुवाच ।
न मां विरोचनो वेद नायं वैरोचनो बलिः ।
आहुर्मां दुःसहेत्येवं विधित्सेति च मां विदुः ॥
भूतिर्लक्ष्मीति मामाहुः श्रीरित्येव च वासव ।
त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः ॥
शक्र उवाच ।
किमिदं त्वं मम कृते उताहो बलिनः कृते ।
दुःसहे विजहास्येनं चिरसंवासिनी सती ॥
श्रीरुवाच ।
नो धाता न विधाता मां विदधाति कथंचन ।
कालस्तु शक्र पर्यागान्मैवं शक्रावमन्यथाः ॥
शक्र उवाच ।
कथं त्वया बलिस्त्यक्तः किमर्थं वा शिखण्डिनि ।
कथं च मां न जह्यास्त्वं तन्मे ब्रूहि शुचिस्मिते ॥
श्रीरुवाच ।
सत्ये स्थिताऽस्मि दाने च व्रते तपसि चैव हि ।
पराक्रमे च धर्मे च पराचीनस्ततो बलिः ॥
ब्रह्मण्योऽयं पुरा भूत्वा सत्यवादी जितेन्द्रियः ।
अभ्यसूयन्ब्राह्मणान्वै उच्छिष्टश्चास्पृशद्धृतम् ॥
यज्ञशीलः सदा भूत्वा मामेव यजते स्वयम् ।
ततः प्रहाय मूढात्मा कालेनोपनिपीडितः ॥
अपक्रान्ता ततः शक्र त्वयि वत्स्यामि वासव ।
अप्रमत्तेन धार्याऽस्मि तपसा विक्रमेण च ॥
शक्र उवाच ।
कोऽस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान् ।
यस्त्वामेको विषहितुं शक्नुयात्कमलालये ॥
श्रीरुवाच ।
नैव देवो न गन्धर्वो नासुरो नं च न्राक्षसः ।
यो मामेको विषहितुं शक्तः कश्चित्पुरंदर ॥
शक्र उवाच ।
तिष्ठेथा मयि नित्यं त्वं यथा तद्ब्रूहि मे शुभे ।
तत्करिष्यामि ते वाक्यमृतं तद्वक्तुमर्हसि ॥
शक्र उवाच ।
स्थास्यामि नित्यं देवेन्द्र यथा त्वयि निबोध तत् ।
विधिना वेददृष्टेन चतुर्धा विभजस्व माम् ॥
शक्र उवाच ।
अहं वै त्वां निधास्यामि यथाशक्ति यथाबलम् ।
न तु मेऽतिक्रमः स्याद्वै सदा लक्ष्मि तवान्तिके ॥
भूमिरेव मनुष्येषु धारिणी भूतभाविनी ।
सा ते पादं तितिक्षेत समर्था हीति मे मतिः ॥
श्रीरुवाच ।
एष मे निहितः पादो योऽयं भूमौ प्रतिष्ठितः ।
द्वितीयं शक्र पादं मे तस्मात्सुनिहितं कुरु ॥
शक्र उवाच ।
आप एव मनुष्येषु द्रवन्त्यः परिधारणे ।
तास्ते पादं तितिक्षन्तामलमापस्तितिक्षितुम् ॥
श्रीरुवाच ।
एष मे निहितः पादो योऽयमप्सु प्रतिष्ठितः ।
तृतीयं शक्र पादं मे तस्मात्सुनिहितं कुरु ॥
शक्र उवाच ।
यस्मिन्वेदाश्च यज्ञाश्च यस्मिन्देवाः प्रतिष्ठिताः ।
तृतीयं पादमग्निस्ते सुधृतं धारयिष्यति ॥
श्रीरुवाच ।
एष मे निहितः पादो योऽयमग्नौ प्रतिष्ठितः ।
चतुर्थं शक्र पादं मे तस्मात्सुनिहितं कुरु ॥
शक्र उवाच ।
ये वै सन्तो मनुष्येषु ब्रह्मण्याः सत्यवादिनः ।
तेते पादं तितिक्षन्तामलं सन्तस्तितिक्षितुम् ॥
श्रीरुवाच ।
एष मे निहितः पादो योऽयं सत्सु प्रतिष्ठितः ।
एवं हि निहितां शक्र भूतेषु परिधत्स्व माम् ॥
शक्र उवाच ।
`भूमिशुद्धिं ततः कृत्वा अद्भिः संतर्पयन्ति ये ।
भूतानि च यजन्त्यग्नौ तेषां त्वमनपायिनी ॥
ये क्रियाभिः सुरक्ताभिर्हेतुयुक्ताः समाहिताः । ज्ञानवन्तो विवत्सायां लब्धा माद्यन्ति योगिनः ॥'
भूतानामिह यो वै त्वां मया विनिहितां सतीम् ।
उपहन्यात्स मे द्वेष्यस्तथा शृण्वन्तु मे वचः ॥
`भीष्म उवाच ।
तथेति चोक्त्वा सा भ्रष्टा सर्वलोकनमस्कृता । वासवं पालयामास सा देवी कमलालया ॥'
ततस्त्यक्तः श्रिया राजा दैत्यानां बलिरब्रवीत् ॥
यावत्पुरस्तात्प्रतपेत्तावद्वै दक्षिणां दिशम् ।
पश्चिमां तावदेवापि तथोदीचीं दिवाकरः ॥
तथा मध्यंदिने सूर्यो नास्तमेति यदा तदा ।
पुनर्देवासुरं युद्धं भावि जेताऽस्मि वस्तदा ॥
सर्वलोकान्यदाऽऽदित्यो मध्यस्थस्तापयिष्यति ।
तदा देवासुरे युद्धे जेताऽहं त्वां शतक्रतो ॥
शक्र उवाच ।
ब्रह्मणाऽस्मि समादिष्टो न हन्तव्यो भवानिति ।
तेन तेऽहं बले वज्रं न विमुञ्जामि मूर्धनि ॥
यथेष्टं गच्छ दैत्येन्द्र स्वस्ति तेऽस्तु महासुर ॥
आदित्यो नैव तपिता कदाचिन्मध्यतः स्थितः ।
स्थापितो ह्यस्य समयः पूर्वमेव स्वयंभुवा ॥
अजस्रं परियात्येष सत्येनावतपन्प्रजाः । अयनं तस्य षण्मासा उत्तरं दक्षिणं तथा ।
येन संयाति लोकेषु शीतोष्णे विसृजन्रविः ॥
भीष्म उवाच ।
एवमुक्तस्तु दैत्येन्द्रो बलिरिन्द्रेण भारत ।
जगाम दक्षिणामाशामुदीचीं तु पुरंदरः ॥
इत्येतद्बलिना गीतमनहंकारसंज्ञितम् ।
वाक्यं श्रुत्वा सहस्राक्षः स्वमेवारुरुहे तदा ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥ 232 ॥

12-232-31 वित्तं तीर्थादिपुण्यं यज्ञादिधर्मो विद्या चेति श्रियश्चत्वारः पादा भूमौ जलेऽग्नौ विद्वत्सु च निहितास्तेषामुपघातः स्तेयकामाशौचाशमैः ॥ 12-232-34 वैवस्वतमन्वन्तरमेवाष्टधा विभज्य तदन्ते सर्वपुर्युच्छेदे सति मन्वन्तरान्तरे बलिरिन्द्रो भविष्यतीति ज्ञेयम् । तदिदमुक्तं यावत्पुरस्तात्प्रतपेदित्यादिना श्लोकत्रयेण ॥ 12-232-36 यदादित्यो ह्येकस्थ इति झ. ध. पाठः ॥