अध्यायः 241

भीष्मेण युधिष्ठिरंप्रति व्यासकृतब्राह्मणधर्मकथनपूर्वकज्ञानप्रशंसनानुवादः ॥ 1 ॥

व्यास उवाच ।
त्रयीं विद्यामवेक्षेत वेदेपूत्तमतां गतः ।
ऋक्सामवर्णाक्षरतो यजुषोऽथर्वणस्तथा ॥
[तिष्ठत्येतेषु भगवान्षट््सु कर्मसु संस्थितः ।] वेदवादेषु कुशला ह्यध्यात्मकुशलाश्च ये ॥
सत्ववन्तो महाभागाः पश्यन्ति प्रभवाप्ययौ ।
एवं धर्मेण वर्तेत क्रियाः शिष्टवदाचरेत् ॥
असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः ।
सद्भ्य आगतविज्ञानः शिष्टः शास्त्रविचक्षणः ॥
स्वधर्मेण क्रिया लोके कुर्वाणः सोऽप्यसङ्करः ।
तिष्ठते तेषु गृहवान्षट््सु कर्मसु स द्विजः ॥
पञ्चभिः सततं यज्ञैः श्रद्दधानो यजेत च । धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान् ।
वीतहर्षमदक्रोधो ब्राह्मणो नावसीदति ॥
दानमध्ययनं यज्ञस्तपो ह्रीरार्जवं दमः ।
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति ॥
धूतपाप्मा च मेधावी लघ्वाहारो जितेन्द्रियः ।
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च ।
वर्जयेदुशतीं वाचं हिंसां चाधर्मसंहिताम् ॥
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते ।
ज्ञानागमेन कर्माणि कुर्वन्कर्मसु सिद्ध्यति ॥
पञ्चेन्द्रियजलां घोरां लोभकूलां सुदुस्तराम् ।
मन्युपङ्कामनाधृष्यां नदीं तरति बुद्धिमान् ॥
कालमभ्युद्यतं पश्येन्नित्यमत्यन्तमोहनम् ॥
महता विधिदृष्टेन बलिनाऽप्रतिघातिना ।
स्वभावस्रोतसा वृत्तमुह्यते सततं जगत् ॥
कालोदकेन महता वर्षावर्तेन संततम् ।
मासोर्मिणर्तुवेगेन पक्षोलपतृणेन च ॥
निर्मषोन्मेषफेनेन अहोरात्रजवेन च ।
कामग्राहेण घोरेण वेदयज्ञप्लवेन च ॥
धर्मद्वीपेन भूतानां चार्थकामरवेण च ।
ऋतवाङ्भोक्षतीरेण विहिंसातरुवाहिना ॥
युगह्रदौघमध्येन ब्रह्मप्रायभवेन च ।
धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम् ॥
एतत्प्रज्ञामयैर्धीरा निस्तरन्ति मनीषिणः ।
प्लवैरप्लववन्तो हि किं करिष्यन्त्यचेतसः ॥
उपपन्नं हि यत्प्राज्ञो निस्तरेन्नेतरो जनः ।
दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति ॥
संशयात्तु स कामात्मा चलचित्तोऽल्पचेतनः ।
अप्राज्ञो न तरत्येनं यो ह्यास्ते न स गच्छति ॥
अप्लवो हि महादोषं मुह्यमानो न गच्छति ।
कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः ॥
तस्मादुन्मज्जनस्यार्थे प्रयतेत विचक्षणः ।
एतदुन्मज्जनं तस्य यदयं ब्राह्मणो भवेत् ॥
त्र्यवदाते कुले जातस्त्रिसंदेहस्त्रिकर्मकृत् ।
तस्मादुन्मज्जनं तिष्ठेत्प्रज्ञया निस्तरेद्यथा ॥
संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः ।
प्राज्ञस्यानन्तरा सिद्धिरिह लोके परत्र च ॥
वर्तेत तेषु गृहवानक्रुध्यन्ननसूयकः ।
पञ्चभिः सततं यज्ञैर्विघसाशी यजेत च ॥
सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत् ।
असंरोधेन लोकस्य वृत्तिं लिप्सेदगर्हिताम् ॥
श्रुतविज्ञानतत्त्वज्ञः शिष्टाचारविचक्षणः ।
स्वधर्मेण क्रियावांश्च कर्मणा सोऽप्यसंकरः ॥
क्रियावाञ्श्रद्दधानो कहि दान्तः प्रायोऽनसूयकः ।
धमार्धर्मविशेषज्ञः सर्वं तरति दुस्तरम् ॥
धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान् ।
वीतहर्षमदक्रोधो ब्राह्मणो नावसीदति ॥
एषा पुरातनी वृत्तिर्ब्राह्मणस्य विधीयते ।
ज्ञानवृद्ध्यैव कर्माणि कुर्वन्सर्वत्र सिध्यति ॥
अधर्मं धर्मकामो हि करोति ह्यविचक्षणः ।
धर्मं वा धर्मसंकाशं शोचन्निव करोति सः ॥
धर्मं करोमीति करोत्यधर्म मधर्मकामश्च करोति धर्मम् ।
उभे बालः कर्मणी न प्रजानम् संजायते म्रियते चापि देही ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 241 ॥

12-241-1 वेदेषूक्तामथाङ्गत इति झ. पाठः ॥ 12-241-7 एतैर्वर्धयते इति झ. पाठः ॥ 12-241-12 काममन्यूद्धतं पश्यन्नित्यमत्यन्तमोहितमिति ट. थ. ध. पाठः ॥ 12-241-17 ब्रह्मप्रायभवेन ब्रह्मकार्यभूतेन । स्रोतसा युगभूतेन ब्रह्मप्रायभवेन चेति ट. थ. पाठः ॥ 12-241-23 अवदातेषु शुद्धेषु कुलेष्विति शेषः । त्रिष्वध्यापनयाजनप्रतिग्रहेषु संदेहवांस्तत्राप्रवृत्त इत्यर्थखः । त्रिकर्मकृत् स्वाध्याययजनदानकृत् ॥ 12-241-27 शिष्टशास्त्रविचक्षण इति ट. थ. पाठः ॥