अध्यायः 252

भीष्मेण युधिष्ठिरंप्रति कठवल्ल्यर्थप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥

व्यास उवाच ।
प्रकृतेस्तु विकारा ये क्षेत्रज्ञस्तैरधिष्ठितः ।
न चैनं ते प्रजानन्ति स तु जानाति तानपि ॥
तैश्चैवं कुरुते कार्यं मनःषष्ठैरिहेन्द्रियैः ।
सुदान्तैरिव संयन्ता दृढैः परमवाजिभिः ॥
इन्द्रियेभ्यः परे ह्यर्था अर्थेभ्यः परमं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥
एवं सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥
अन्तरात्मनि संलीय मनः षष्ठानि मेधया ।
इन्द्रियाणीन्द्रियार्थांश्च बहुचिन्त्यमचिन्तयन् ॥
ध्यानोपरमणं कृत्वा विद्यासंपादितं मनः ।
अनिश्चरः प्रशान्तात्मा ततोर्च्छत्यमृतं पदम् ॥
इन्द्रियाणां तु सर्वेषां पश्यात्मा चलितस्मृतिः ।
आत्मनः संप्रदानेन मर्त्यो मृत्युमुपाश्नुते ॥
हित्वा तु सर्वसंकल्पान्सत्वे चित्तं निवेशयेत् ।
सत्वे चित्तं समावेश्य ततः कालंजरो भवेत् ॥
चित्तप्रसादेन यतिर्जहातीह शुभाशुभम् ।
प्रसन्नात्मात्मनि स्थित्वा सुखमत्यन्तमश्नुते ॥
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् ।
निवाते वा यथा दीपो दीप्यमानो न कम्पते ॥
एवं पूर्वापरे रात्रौ युञ्जन्नात्मानमात्मनि ।
लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥
रहस्यं सर्ववेदानामनैतिह्यमनागतम् ।
आत्मप्रत्ययिकं शास्त्रमिदं पुत्रानुशासनम् ॥
धर्माख्यानेषु सर्वेषु चित्राख्यानेषु यद्वसु ।
दृश्यते ऋक्सहस्राणि निर्मथ्यामृतमुद्धृतम् ॥
नवनीतं यथा दध्नः काष्ठादग्निर्यथैव च ।
तथैव विदुषां ज्ञानं पुत्रहेतोः समुद्धृतम् ॥
स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम् ।
तदितं नाप्रशान्ताय नादान्तायातपस्विने ॥
नावेदविदुषे वाच्यं तथा नानुगताय च ।
नासूयकायानृजवे न चानिर्दिष्टकारिणे ॥
न तर्कशास्त्रदग्धाय तथैव पिशुनाय च ।
श्लाघिने श्लाघनीयाय प्रशान्ताय तपस्विने ॥
इदं प्रियाय पुत्राय शिष्यायानुगताय च ।
रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथंचन ॥
यद्यप्यस्य महीं दद्याद्रत्नपूर्णामिमां नरः ।
इदमेव ततः श्रेय इति मन्येत तत्त्ववित् ॥
अतो गुह्यतरार्थं तदध्यात्ममतिमानुषम् ।
यत्तन्महर्षिभिर्जुष्टं वेदान्तेषु च गीयते ॥
तत्तेऽहं संप्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ॥
यच्च ते मनसि वर्तते परं यत्र चास्ति तव संशयः क्वचित् ।
श्रूयतामयमहं तवाग्रतः पुत्र किं हि कथयामि ते पुनः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 252 ॥

12-252-4 अव्यक्तात्परतोऽमृतम् । अमृतान्न परं इति झ. थ. पाठः ॥ 12-252-5 महात्मा तत्वदर्शिभिरिति थ. ध. पाठः ॥