अध्यायः 262
भीष्मेण युधिष्ठिरंप्रति नारदाकम्पनसंवादानुवादः ॥ 1 ॥ नारदेनाकम्पनं प्रति स्थाणुप्रजापतिसंवादानुवादारम्भः ॥ 2 ॥
युधिष्ठिरं उवाच । 
					य इमे पृथिवीपालाः शेरते पृथिवीतले ।
						पृतनामध्य एते हि गतसत्त्वा महाबलाः ॥
					एकैकशो भीमबला नागायुतबलास्तथा ।
						एते हि निहताः सङ्ख्ये तुल्यतेजीबलैर्नरैः ॥
					नैषां पश्यामि हन्तारं प्राणिनां संयुगे पुरा ।
						विक्रमेणोपसंपन्नास्तेजोबलसमन्विताः ॥
					अथ चेमे महाप्राज्ञाः शेरते हि गतासवः ।
						मृता इति च शब्दोऽयं वर्तत्येषु गतासुषु ॥
					इमे मृता नृपतयः प्रायशो भीमविक्रमाः ।
						तत्र मे संशयो जातः कुतः संज्ञा मृता इति ॥
					कस्य मृत्युः कुतो मृत्युः केन मृत्युरिह प्रजाः ।
						हरत्यमरसंकाश तन्मे ब्रूहि पितामह ॥
						भीष्म उवाच । 
					पुरा कृतयुगे तात राजा ह्यासीदकम्पनः ।
						स शत्रुवशमापन्नः संग्रामे क्षीणवाहनः ॥
					तस्य पुत्रो हरिर्नाम नारायणसमो बले ।
						स शत्रुभिर्हतः सङ्ख्ये सबलः सपदानुगः ॥
					स राजा शत्रुवशगः पुत्रशोकसमन्वितः ।
						यदृच्छया शान्तिपरो ददर्श भुवि नारदम् ॥
					तस्मै स सर्वमाचष्ट यथावृत्तं जनेश्वरः ।
						शत्रुभिर्ग्रहणं सङ्ख्ये पुत्रस्य मरणं तथा ॥
					तस्य तद्वचनं श्रुत्वा नारदोऽथ तपोधनः ।
						आख्यानमिदमाचष्ट पुत्रशोकापहं तदा ॥
						नारद उवाच । 
					राजञ्शृणु महाख्यानं ममेदं बहुविस्तरम् ।
						यथावृत्तं श्रुतं चैव मयाऽपि वसुधाधिप ॥
					प्रजाः सृष्ट्वा महातेजाः प्रजासर्गे पितामहः ।
						अतीव वृद्धा बहुला नामृष्यत पुनः प्रजाः ॥
					न ह्यन्तरमभूत्किंचित्क्वचिज्जन्तुभिरच्युत ।
						निरुच्छ्वासमिवोन्नद्धं त्रैलोक्यमभवन्नृप ॥
					तस्य चिन्ता समुत्पन्ना संहारं प्रति भूपते ।
						चिन्तयन्नाध्यगच्छच्च संहारे हेतुकारणम् ॥
					तस्य रोपान्महाराज खेभ्योऽग्निरुदतिष्ठत ।
						तेन सर्वा दिशो राजन्ददाह स पितामहः ॥
					ततो दिवं भुवं खं च जगच्च सचराचरम् ।
						ददाह पावको राजन्भगवत्कोपसंभवः ॥
					तत्रादह्यन्त भूतानि जङ्गमानि ध्रुवाणि च ।
						महता क्रोधवेगेन कुपिते प्रपितामहे ॥
					ततो हरो जटी स्थाणुर्देवोऽध्वरपतिः शिवः ।
						जगाम शरणं देवो ब्रह्माणं परमेष्ठिनम् ॥
					तस्मिन्नभिगते स्थाणौ प्रजानां हितकाम्यया ।
						अब्रवीद्वरदो देवो ज्वलन्निव तदा शिवम् ॥
					करवाण्यद्य कं कामं व्नरार्होऽसि मतो मम ।
						कर्ता ह्यसि प्रियं शंभो तव यद्धृदि वर्तते ॥ ॥
					इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विषष्ट्यधिकद्विशततमोऽध्यायः ॥ 262 ॥
12-262-1 गतसंज्ञा महाबला इति थ. पाठः ॥ 12-262-16 खेभ्य इन्द्रियच्छिद्रेभ्यः ॥ 12-262-17 खं खस्थं ग्रहनक्षत्रादि ॥ 12-262-19 स्थाणुः श्मशाननिलयः शिव इति ड. थ. पाठः ॥