अध्यायः 263

स्थाणुवचनाद्ब्रह्मणा लोकदाहककोपाग्नेरन्तर्नियमनम् ॥ 1 ॥ तथा स्वचक्षुरादीन्द्रियेभ्यो जातां मृत्युदेवींप्रति प्रजासंहारे नियोजनम् ॥ 2 ॥

स्थाणुरुवाच ।
प्रजासर्गनिमित्तं मे कार्यवत्तामिमां प्रभो ।
विद्धि सृष्टास्त्वया हीमा मा कुप्यासां पितामह ॥
तव तेजोग्निना देव प्रजा दह्यन्ति सर्वशः ।
ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत्प्रभो ॥
प्रजापतिरुवाच ।
न कुप्ये न च मे कामो नभवेयुः प्रजा इति ।
लाघवार्थं धरण्यास्तु ततः संहार इष्यते ॥
इयं हि मां सदा देवी भारार्ता समचोदयत् ।
संहारार्थं महादेव भारेणाप्सु निमज्जती ॥
यदाऽहं नाधिगच्छामि बुद्ध्या बहु विचारयन् ।
संहारमासां वृद्धानां ततो मां क्रोध आविशत् ॥
स्थाणुरुवाच ।
संहारात्त्वं निवर्तस्य मा क्रुधो विवुधेश्वर ।
मा प्रजाः स्थावरं चैव जङ्गमं च व्यनीनशः ॥
पल्वलानि च सर्वाणि सर्वं चैव तृणीलपम् ।
स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम् ॥
अकाले भस्मसाद्भूतं जगत्सर्वमुपप्लुतम् ।
प्रसीद भगवन्साधो वर एष वृतो मया ॥
नष्टा न पुनरेष्यन्ति प्रजा ह्येताः कथंचन ।
तस्मान्निवर्ततामेतत्तेन स्वेनेव तेजसा ॥
उपायमन्यं संपश्य भूतानां हितकाम्यया ।
यथामी जन्तवः सर्वे न दह्येरन्पितामह ॥
अभावं हि न गच्छेयुरुत्सन्नप्रजनाः प्रजाः । `पुत्रत्वेनानुसंकल्प्ये तदाऽहं तप्य दानवैः ।'
अधिदैवे नियुक्तोस्मि त्वया लोकहितेप्सुना ॥
त्वद्भवं हि जगन्नाथ एतत्स्थावरजङ्गमम् ।
प्रसाद्य त्वां महादेव याचाम्यावृत्तिजाः प्रजाः ॥
नारद उवाच ।
श्रुत्वा तु वचनं देवः स्थाणोर्नियतवाङ्भनाः ।
तेजस्तत्सन्निजग्राह पुनरेवान्तरात्मनि ॥
ततोऽग्निमुपसंगृह्य भगवाँल्लोकपूजितः ।
प्रवृत्तिं च निवृत्तिं च कल्पयामास वै प्रभुः ॥
उपसंहरतस्तस्य तमग्निं रोषजं तदा ।
प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महात्मनः ॥
कृष्णरक्ताम्बरधरा कृष्णनेत्रतलान्तरा ।
दिव्यकुण्डलसंपन्ना दिव्याभरणभूषिता ॥
सा विनिःसृत्य वै खेभ्यो दक्षिणामाश्रिता दिशम् ।
ददृशाते च तां कन्यां देवौ विश्वेश्वरावुभौ ॥
तामाहूय तदा देवो लोकानामादिरीश्वरः ।
मृत्यो इति महीपाल जहि चेमाः प्रजा इति ॥
त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च ।
तस्मात्संहर सर्वास्त्वं प्रजाः सजडपण्डिताः ॥
अविशेषेण चैव त्वं प्रजाः संहर कामिनि ।
मम त्वं हि नियोगेन श्रेयः परमवाप्स्यसि ॥
एवमुक्ता तु या देवी मृत्युः कमलमालिनी ।
प्रदध्यौ दुःखिता बाला साश्रुपातमतीव च ॥
पाणिभ्यां चैव जग्राह तान्यश्रूणि जनेश्वरः ।
मानवानां हितार्थाय ययाचे पुनरेव ह ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिषष्ट्यधिकद्विशततमोऽध्यायः ॥ 263 ॥

12-263-1 कार्यवत्तामर्थित्वम् । मा कुप्य कोपं मा कुरु । आसां आसु ॥ 12-263-3 नभवेयुर्नश्येयुः ॥ 12-263-7 उलयं तृणविशेषः ॥ 12-263-10 निवर्तेरन्परंतपेति ध. पाठः थ. ध. पाठः ॥ 12-263-11 अधिदैवे अहंकाराधिष्ठातृत्वे ॥ 12-263-12 आवृत्तिजाः प्रजा याचामि याचे । आवृत्त्या जाताः । मृत्वा मृत्वा पुनर्जायन्तामित्यर्थः ॥ 12-263-13 संनिजग्राह संहृतवान् ॥ 12-263-14 प्रवृत्तिं जन्म । निवृत्तिं मरणम् अनेन नात्यन्तं प्रजानामुच्छेदो नाप्यत्यन्तं भूमेर्भार इति दर्शितम् ॥ 12-263-17 उभौ ब्रह्मरुद्रौ ॥ 12-263-22 मृत्योरश्रुपातेयुगपत् सर्वभूतक्षयो माभूदिति भावः ॥