अध्यायः 265

भीष्मेण युधिष्ठिरंप्रति धर्मलक्षणकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
इमे वै मानसाः सर्वे धर्मं प्रति विशङ्किताः ।
कोऽयं धर्मः कुतो धर्मस्तन्मे ब्रूहि पितामह ॥
धर्मस्त्वयमिहार्थः किममुत्रार्थोपि वा भवेत् ।
उभयार्थो हि वा धर्मस्तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम् ।
चतुर्थमर्थमप्याहुः कवयो धर्मलक्षणम् ॥
अविध्युक्तानि कर्माणि व्यवस्यन्त्युप्तमूषरे ।
लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः ॥
उभयत्र सुखोदर्क इह चैव परत्र च ।
अलब्ध्वा निपुणं धर्मं पापः पापे प्रसज्जति ॥
न च पापकृतः पापान्मुच्यन्ते केचिदापदि । अपापवादी भवति यथा भवति धर्मवित् ।
धर्मस्य निष्ठा स्वाचारस्तमेवाश्रित्य चावसेत् ॥
यथाधर्मसमाविष्टो धनं गृह्णाति तस्करः ।
रमते निर्हरस्तेनः परवित्तमराजके ॥
यदास्य तद्धरन्त्यन्ये तदा राजानमिच्छति ।
तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर्धनैः ॥
अभीतः शुचिरभ्येति राजद्वारमशङ्कितः ।
न हि दुश्चरितं किंचिदन्तरात्मनि पश्यति ॥
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् ।
सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम् ॥
अपि पापकृतो रौद्राः सत्यं कृत्वा मिथःकृतम् ।
अद्रोहमविसंवादं प्रवर्तन्ते तदाश्रयाः ॥
ते चेन्मिथ्या धृतिं कुर्युर्विनश्येयुरसंशयम् ।
न हर्तव्यं परधनमिति धर्मविदो विदुः ॥
मन्यन्ते बलवन्तस्तं दुर्बलैः संप्रवर्तितम् ।
यदा नियतिदौर्बल्यमथैषामेव रोचते ॥
न ह्यत्यन्तं बलयुता भवन्ति सुखिनोपि वा ।
तस्मादनार्जवे बुद्धिर्न कार्या ते कदाचन ॥
असाधुभ्योऽस्य न भयं न चौरेभ्यो न राजतः ।
अकिंचित्कस्यचित्कुर्वन्निर्भयः शुचिरावसेत् ॥
सर्वतः शङ्कते स्तेनो मृगो ग्राममिवेयिवान् ।
बहुधाऽऽचरितं पापमन्यत्रैवानुपश्यति ॥
मुदितः शुचिरभ्येति सर्वतो निर्भयः सदा ।
न हि दुश्चरितं किंचिदात्मनोऽन्येषु पश्यति ॥
दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः ।
तं मन्यन्ते धनयुताः कृपणैः संप्रवर्तितम् ॥
यदा नियतिकार्पण्यमथैपामव रोचते ।
धनवन्तोपि नात्यन्तं भवन्ति सुखिनोपि वा ॥
यदन्यैर्विहितं नेच्छेदात्मनः कर्म पूरुषः ।
न तत्परेषु कुर्वीत जानन्नप्रियमात्मनः ॥
योऽन्यस्य स्यादुपपतिः स कं किं वक्तुमर्हति ।
यदन्यस्य ततः कुर्यान्न मृष्येदिति मे मतिः ॥
जीवितुं यः स्वयं चेच्छेत्कथं सोऽन्यं प्रघातयेत् ।
यद्यदात्मन इच्छेत तत्परस्यापि चिन्तयेत् ॥
अतिरिक्तः संविभजेद्भोगैरन्यानकिंचनान् ।
एतस्मात्कारणाद्धात्रा कुसीदं संप्रवर्तितम् ॥
यस्मिंस्तु देवाः समये सन्तिष्ठेरंस्तथा भवेत् ।
अथ चेल्लोभसमये स्थितिर्धर्मोऽपि शोभना ॥
सर्वं प्रियाभ्युपगतं पुण्यमाहुर्मनीषिणः ।
पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर ॥
लोकसंग्रहसंयुक्तं विधात्रा विहितं पुरा ।
सूक्ष्मधर्मार्थनियतं सतां चरितमुत्तमम् ॥
धर्मलक्षणमाख्यातमेतत्ते कुरुसत्तम ।
तस्मादनार्जवे बुद्धिर्न ते कार्या कथंचन ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चषष्ट्यधिकद्विशततमोऽध्यायः ॥ 265 ॥

12-265-14 तस्मादर्थार्जने बुद्धिरिति थ. पाठः ॥ 12-265-16 पापं मनस्येवाधिगच्छतीति थ. पाठः ॥ 12-265-18 क्षन्तव्यमित्ययं धर्म इति ध. पाठः ॥ 12-265-21 योऽन्यस्य स्वादुवद्वक्ति कस्तं हिंसितुमिच्छतीति ट. थ. पाठः ॥ 12-265-22 यः स्वयं नेच्छेदिति ध. पाठः ॥