अध्यायः 266
युधिष्ठिरेण भीष्मंप्रति धर्मप्रामाण्याक्षेपः ॥ 1 ॥
युधिष्ठिर उवाच ।
सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम् ।
प्रतिभा त्यस्ति मे काचित्तां ब्रूयामनुमानतः ॥
भूयांसो हृदये ये मे प्रश्नास्ते व्याहृतास्त्वया ।
इदं त्वन्यत्प्रवक्ष्यामि न राजन्निग्रहादिव ॥
इमानि हि प्राणयन्ति सृदन्त्युत्तारयन्ति च ।
न धर्मः परिपाठेन शक्यो भारत वेदितुम् ॥
अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः ।
आपदस्तु कथं शक्याः परिपाठेन वेदितुम् ॥
सदाचारो मचो धर्मः संतस्त्वाचारलक्षणाः ।
साध्यासाध्यं कथं शक्यं सदाचारो ह्यलक्षणः ॥
दृश्यते धर्मरूपेण ह्यधर्मं प्राकृतश्चरन् ।
धर्मं चाधर्मरूपेण कश्चिदप्राकृतश्चरन् ॥
पुनरस्य प्रमाणं हि निर्दिष्टं शास्त्रकोविदैः ।
वेदवादाश्चानुयुगं ह्रसन्तीतीह नः श्रुतम् ॥
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे परे ।
अन्ये कलियुगे धर्मा यथाशक्ति कृता इव ॥
आम्नायवचनं सत्यमित्ययं लोकसंग्रहः ।
आम्नायेभ्यः पुनर्वेदाः प्रसृताः सर्वतोमुखाः ॥
ते चेत्सर्वप्रमाणं वै प्रमाणं ह्यत्र विद्यते ।
प्रमाणं च प्रमाणेन विरुद्ध्येच्छास्त्रता कुतः ॥
धर्मस्य क्रियमाणस्य बलवद्भिर्दुरात्मभिः ।
यदा विक्रियते संस्था ततः साऽपि प्रणश्यति ॥
विद्मश्चैनं न वा विद्मः शक्यं वा वेदितुं न वा ।
अणीयान्क्षुरधाराया गरीयानपि पर्वतात् ॥
गन्धर्वनगराकारः प्रथमं संप्रदृश्यते ।
अन्वीक्ष्यमाणः कविभिः पुनर्गच्छत्यदर्शनम् ॥
निपानानीव गोभ्याशे क्षेत्रे कुल्ये च भारत ।
स्मृतो हि शाश्वतो धर्मो विप्रहीणो न दृश्यते ॥
कामादन्ये भयादन्ये कारणैरपरैस्तथा ।
असन्तोऽपि वृथाचारं भजन्ते बहवोऽपरे ॥
धर्मो भवति स क्षिप्रं विलोमस्तेष्वसाधुषु ।
अथैतानाहुरुन्मत्तानपि चावहसन्त्युत ॥
महाजना ह्युपावृत्ता राजधर्मं समाश्रिताः ।
न हि सर्वहितः कश्चिदाचारः संप्रवर्तते ॥
तेनैवान्यः प्रभवति सोऽपरं बाधते पुनः ।
दृश्यते चैव स पुनस्तुल्यरूपो यदृच्छया ॥
येनैवान्यः प्रभवति सोऽपरानपि बाधते ।
आचाराणामनैकाग्र्यं सर्वेषामेव लक्षयेत् ॥
चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः ।
तेनाचारेण पूर्वेण संस्था भवति शाश्वती ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षट््षष्ट्यधिकद्विशततमोऽध्यायः ॥ 266 ॥
12-266-2 निग्रहात् कुतर्काग्रहेण ॥ 12-266-9 प्रसूताः सर्वतोमुखा इति ध. पाठः ॥ 12-266-16 अपि वाचं हसन्त्युतेति ध. पाठः ॥ 12-266-20 संस्था मर्यादा ॥