अध्यायः 270

भीष्मेण युधिष्ठिरंप्रति जाजलितुलाधारसंवादानुवादः ॥ 1 ॥

तुलाधार उवाच ।
सद्भिर्वा यदि वाऽसद्भिः पन्थानमिममाश्रितः ।
प्रत्यक्षं क्रियतां साधु ततो ज्ञास्यसि तद्यथा ॥
एते शकुन्ता बहवः समन्ताद्विचरन्ति ह ।
तवोत्तमाङ्गे संभूताः श्येनाश्चान्याश्च जातयः ॥
आहूयैनान्महाब्रह्मन्विशमानांस्ततस्ततः ।
पश्येमान्हस्तपादैश्च श्लिष्टान्देहेषु सर्वशः ॥
संभावयन्ति पितरं त्वया संभाविताः स्वगाः ।
असंशयं पिता वै त्वं पुत्रानाह्वय जाजले ॥
भीष्म उवाच ।
ततो जाजलिना तेन समाहूताः पतत्रिणः ।
वाचमुच्चारयन्ति स्म धर्मस्य वचनात्किल ॥
तुलाधार उवाच ।
अहिंसादि कृतं कर्म इह चैव परत्र च ।
श्रद्धां निहन्ति वै ब्रह्मन्सा हता हन्ति तं नरम् ॥
समानां श्रद्दधानानां संयतानां सुचेतसाम् ।
कुर्वतां यज्ञ इत्येव न यज्ञो जातु नेष्यते ॥
श्रद्धा वै सात्विकी देवी सूर्यस्य दुहिता द्विज ।
सावित्री प्रसवित्री च हविर्वाङ्भनसी ततः ॥
वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धं च जाजले ।
श्रद्धावृद्धं वाङ्भनसी न यज्ञस्त्रातुमर्हति ॥
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः ।
शुचेरश्रद्दधानस्य श्रद्दधानस्यर चाशुचेः ॥
देवा वित्तममन्यन्त सदृशं यज्ञकर्मणि ।
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः ॥
मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ।
प्रजापतिस्तानुवाच विषमं कृतमित्युत ॥
श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ।
भोज्यमन्नं वदान्यस्य कदर्यस्य न वार्धुषेः ॥
अश्रद्दधान एवैको देवानां नार्हते हविः ।
तस्यैवान्नं न भोक्तव्यमिति धर्मविदो विदुः ॥
अश्रद्धा परमं पापं श्रद्धा पापप्रमोचनी ।
जहाति पापं श्रद्धावान्सर्पो जीर्णामिव त्वचम् ॥
ज्यायसी या पवित्राणां निवृत्तिः श्रद्धया सह ।
निवृत्तशीलदोषो यः श्रद्धावान्पूत एव सः ॥
किं तस्य तपसा कार्यं किं वृत्तेन किमात्मना ।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥
इति धर्मः समाख्यातः सद्भिर्धर्मार्थदर्शिभिः ।
वयं जिज्ञासमानास्तु संप्राप्ता धर्मदर्शनात् ॥
श्रद्धां कुरु महाप्राज्ञ ततः प्राप्स्यसि यत्परम् ॥
`जाजलिरुवाच ।
न वै मुनीनां शृणुमश्च तत्वं पृच्छामि ते वाणिज तत्वमेतत् ।
पूर्वे हि पूर्वेऽप्यनवेक्षमाणा नातः परं ते ऋषयः स्थापयन्ति ॥
यस्मिन्नेवानुतीर्थेन पशवः प्राप्नुयुः सुखम् । पत्नीव्रतेन विधिना प्रकरोति नियोजयन् ।'
श्रद्धावाञ्श्रद्दधानश्च धर्मश्चैव हि वाणिज ॥
तुलाधार उवाच ।
स्ववर्त्मनि स्थितश्चैव गरीयानेव जाजले ॥
भीष्म उवाच ।
ततोऽचिरेण कालेन तुलाधारः स एव च । दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम् ।
स्वंस्वं स्थानमुपागम्य स्वकर्मफलनिर्मितम् ॥
एवं बहुविधार्थं च तुलाधारेण भापितम् ।
सम्यक्चैवमुपालब्धो धर्मश्चोक्तः सनातनः ॥
तस्य विख्यातवीर्यस्य श्रुत्वा वाक्यानि जाजलिः ।
तुलाधारस्य कौन्तेय शान्तिमेवान्वपद्यत ॥
`समानां श्रद्दधानानां युक्तानां च यथाबलम् । कुर्वतां यज्ञ इत्येव नायज्ञो जातु नेष्यते ॥'
एवं बहुमतार्थं च तुलाधारेण भाषितम् ।
यथौपम्योपदेशेन किं भूयः श्रोतुमिच्छसि ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तत्यधिकद्विशततमोऽध्यायः ॥ 270 ॥

12-270-1 अयं पन्थाः समाश्रित इति ट. थ. पाठः ॥ 12-270-3 ततस्ततः तेषु तेषु नीडेषु प्रवेशाय श्लिष्टान् संकुचितहस्तपादान् ॥ 12-270-5 वाचमुच्चारयन्ति । निःशङ्कं प्रत्युत्तरं प्रयच्छन्तीत्यर्थः । तत्र हेतुः धर्मस्याऽहिंसात्मकस्य संबन्धिनो वचनात्प्रियवचनादित्यर्थः ॥ 12-270-6 हिंसा आदिपदार्थः । इह परत्र च प्रत्यक्षफलमिति शेषः । तत्र हिंसाफलमाह श्रद्धामिति । हिंसा श्रद्धां विश्वासं निहन्तीत्यध्याहृत्य योज्यम् । तं विश्वासघातिनम् । स्पर्धानिहन्ति तं धर्मं स हतो हन्तीति ध. पाठः । हिंसा निहन्ति वै धर्मसंहतो हन्तीति थ. पाठः ॥ 12-270-7 समानां लाभालाभयोः यज्ञः कर्तव्य इत्येवाभिसंधाय कुर्वतां फलं चाभिसंधायेति एवार्थः । तेषां यज्ञो नेष्वत इति न । संगतानां सुचेतसामिति ध. पाठः ॥ 12-270-9 वाचा स्वरवर्णविपर्यासेन यद्वृद्धं छिन्नं नष्टं मन्त्राद्युच्चारणे तच्छ्रद्धा त्रायते समाधत्ते । मनसा व्यग्रेण यन्नष्टं देवताध्यानादि ॥ 12-270-12 मीमांसित्वा विचार्य ॥ 12-270-14 हविर्दातुमिति शेषः ॥ 12-270-17 यत् या सात्विकी राजसी तामसी वा श्रद्धा यस्य स यच्छ्रद्धः । स एव स सात्विको राजसस्तामसो वा ॥ 12-270-18 धर्मदर्शनाख्यान्मुनेधैर्मं वयं प्राप्तवन्तः ॥ 12-270-19 स्पर्धां जहि महाप्राज्ञेति ध. पाठः ॥ 12-270-21 श्रद्धावान्वेदवाक्ये । श्रद्दधानस्तदर्थमनुष्ठातुं ममेदं श्रेय इति निश्चयवान् । धर्मो धर्मात्मा ॥ 12-270-22 गरीयानेव भूतले इति ट. थ. पाठः ॥ 12-270-27 यर्थापम्योपदेशेन यथायद्दष्टान्तकीर्तनेन ॥