अध्यायः 271

भीष्मेण युधिष्ठिरंप्रति हिंसात्यागपूर्वकं शरीराविरोधेन धर्माचरणचोदना ॥ 1 ॥

`युधिष्ठिर उवाच ।
शरीरमापदश्चैव न विदन्त्यविहिंसकाः ।
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यते ॥
भीष्म उवाच ।
यथा शरीरं न म्लायेन्नैव मृत्युवशं भवेत् । तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् ॥'
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्युना ॥
छिन्नस्थूणं वृपं दृष्ट्वा विरावं च गवां भृशम् ।
गोगृहे यज्ञवाटे च प्रेक्षमाणः स पार्थिवः ॥
स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम् ।
हिंसायां हि प्रवृत्तायामाशीरेषा तु कल्पिता ॥
अव्यवस्थितमर्यादैर्विमूढैर्नास्तिकैर्नरैः ।
संशयात्मभिरव्यक्तैर्हिंसा समनुदर्शिता ॥
सर्वकर्मग्वहिंसां हि धर्मात्मा मनुरब्रवीत् ।
कामकाराद्विहिंसन्ति बहिर्वेद्यां पशून्नराः ॥
तस्मात्प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता ।
अहिंसा ह्येव सर्वेभ्यो धर्मेभ्यो ज्यायसी मता ॥
उपोष्य संशितो भूत्वा हित्वा वेदकृतां शुचिः ।
आचार इत्यनाचारः कृपणाः फलहेतवः ॥
यदि च्छिन्दन्ति वृक्षांश्च यूपांश्चोद्दिश्य मानवाः ।
वृथा मांसानि खादन्ति नैप धर्मः प्रशस्यते ॥
सुरां मत्स्यान्मधु मांसमासवं कृसरौदनम् । धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम् ।
कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम् ॥
विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः ।
पायसैः सुमनोभिश्च तस्यैव यजनं स्मृतम् ॥
यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः । यच्चापि किंचित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् ।
महासत्वैः शुद्धभावैः सर्वं देवार्हमेव तत् ॥
युधिष्ठिर उवाच ।
शरीरमापदश्चापि विवदन्त्यविहंसतः ।
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यते ॥
भीष्म उवाच ।
यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा ।
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकसप्तत्यधिकद्विशततमोऽध्यायः ॥ 271 ॥

12-271-4 छिन्ना विशस्ता स्थूणा प्रतिमा शरीरं यस्य तम् ॥ 12-271-5 निश्चितं वचनं निर्वचनम् । एषा स्वस्ति गोभ्योऽस्त्विति हिंसा कतौ पश्वालम्भः ॥ 12-271-9 वेदकृतां वेदोक्तां हिंसाम् । आचार इति बुद्ध्या अनाचारः आचरणहीनः ॥ 12-271-12 विष्णुमेव यजन्तीहेति ट. थ. पाठः ॥ 12-271-13 चोक्षैर्विशुद्धैः ॥ 12-271-14 आपदः शरीरं शोपयन्ति शरीरं चापदां नाशमिच्छत्यतोऽत्यन्तं हिंसाशून्यस्य कथं शरीरनिर्वाह इत्याह शरीरमिति ॥