अध्यायः 277

भीष्मेण युधिष्ठिरंप्रति धर्मार्थकामेषु धर्मस्यैव ज्यायस्त्वप्रतिपादककुण्डधारचरित्रप्रतिपादनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
धर्ममर्थं च कामं च वेदाः शंसन्ति भारत ।
कस्य लाभो विशिष्टोऽत्र तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।
कुण्डधारेण यत्प्रीत्या भक्तायोपकृतं पुरा ॥
अधनो ब्राह्मणः कश्चित्कामाद्धनमवैक्षत ।
यज्ञार्थं सततोऽर्थार्थी तपोऽतप्यत दारुणम् ॥
स निश्चयमथो कृत्वा पूजयामास देवताः ।
भक्त्या न चैवाध्यगच्छद्धनं संपूज्य देवताः ॥
ततश्चिन्तामनुप्राप्तः कतमद्दैवतं तु तत् ।
यन्मे द्रुतं प्रसीदेत मानुषैरजडीकृतम् ॥
सोऽथ सौम्येन मनसा देवानुचरमन्तिके ।
प्रत्यपश्यज्जलधरं कुण्डधारमवस्थितम् ॥
दृष्ट्वैव तं महाबाहुं तस्य भक्तिरजायत ।
अयं मे धास्यति श्रेयो वपुरेतद्धि तादृशम् ॥
संनिकृष्टश्च देवस्य न चान्यैर्मानुषैर्वृतः ।
एष मे दास्यति धनं प्रभूतं शीघ्रमेव च ॥
ततो धूपैश्च गन्धैश्च माल्यैरुच्चावचैरपि ।
बलिभिर्विविधाभिश्च पूजयामास तं द्विजः ॥
ततस्त्वल्पेन कालेन तुष्टो जलधरस्तदा ।
तस्योपकारनियतामिमां वाचमुवाच ह ॥
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥
आशायास्तनयोऽधर्मः क्रोधोऽसूयासुतः स्मृतः ।
लोभः पुत्रो निकृत्यास्तु कृतघ्नो नार्हति प्रजां ॥
ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा ।
अपश्यत्सर्वभूतानि कुशेषु शयितस्तदा ॥
शमेन तपसा चैव भक्त्या च निरुपस्कृतः ।
शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत ॥
माणिभद्रं स तत्रस्थं देवतानां महाद्युतिम् ।
अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर ॥
तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च ।
शुभैः कर्मभिरारब्धाः प्रच्छिदन्त्यशुभेषु च ॥
पश्यतामथ यक्षाणं कुण्डधारो महाद्युतिः ।
निष्पत्य पतितो भूमौ देवानां भरतर्षभ ॥
ततस्तु देववचनान्मणिभद्रो महामनाः ।
उवाच पतितं भूमौ कुण्डधार किमिच्छसि ॥
कुण्डधार उवाच ।
यदि प्रसन्ना देवा मे भक्तोऽयं ब्राह्मणो मम ।
अस्यानुग्रहमिच्छामि कृतं किंचित्सुखोदयम् ॥
ततस्तं माणिभद्रस्तु पुनर्वचनमब्रवीत् देवानामेव वचनात्कुण्डधारं माहद्युतिम् ॥
उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकृत्यः सुखी भव ।
धनार्थी यदि विप्रोऽयं धनमस्मै प्रदीयताम् ॥
यावद्धनं प्रार्थयते ब्राह्मणोऽयं सथा तव ।
देवानां शासनात्तावदसङ्ख्येयं ददाम्यहम् ॥
विचार्य कुण्डधारस्तु मानुष्यं चलमध्रुवम् ।
तपसो मतिमाधत्त ब्राह्मणस्य यशस्विनः ॥
कुण्डधार उवाच ।
नाहं धनानि याचामि ब्राह्मणाय धनप्रद ।
अन्यमेवाहमिच्छामि भक्तायानुग्रहं कृतम् ॥
पृथिवीं रत्नपूर्णां वा महद्वा रत्नसंचयम् ।
भक्ताय नाहमिच्छमि भवेदेष तु धार्मिकः ॥
धर्मेऽस्य रमतां बुद्धिर्धर्मं चैवोपजीवतु ।
धर्मप्रधानो भवतु ममैषोऽनुग्रहो मतः ॥
माणिभद्र उवाच ।
सदा धर्मफलं राज्यं सुखानि विविधानि च ।
फलान्येवायमश्नातु कायक्लेशविवर्जितः ॥
भीष्म उवाच ।
ततस्तदेव बहुशः कुण्डधारो महायशाः ।
अभ्यासमकरोद्धर्मे ततस्तुष्टास्तु देवताः ॥
माणिभद्र उवाच ।
प्रीतास्ते देवताः सर्वा द्विजस्यास्य तथैव च ।
भविष्यत्येष धर्मात्मा धर्मे चाधरस्यते मतिः ॥
भीष्म उवाच ।
ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर ।
ईप्सितं मनसो लब्ध्वा वरमन्यैः सुदुर्लभम् ॥
ततोऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमः ।
पार्श्वतोऽभ्याशतो न्यस्तान्यथ निर्वेदमागतः ॥
ब्राह्मण उवाच ।
अयं न सुकृतं वेत्ति को न्वन्यो वेत्स्यते कृतम् ।
गच्छामि वनमेवाहं परं धर्मेण जीवितुम् ॥
भीष्म उवाच ।
निर्वेदाद्देवतानां च प्रसादात्स द्विजोत्तमः ।
वनं प्रविश्य सुमहत्तप आरब्धवांस्तदा ॥
देवतातिथिशेषेण फलमूलाशनो द्विजः ।
धर्मे चास्य महाराज दृढा बुद्धिरजायत ॥
त्यक्त्वा मूलफलं सर्वं पर्णाहारोऽभवद्द्विजः ।
पर्णं त्यक्त्वा जलाहारः पुनरासीद्द्विजस्तदा ॥
वायुभक्षस्ततः पश्चाद्बहून्वर्षगणानभूत् ।
न चास्य क्षीयते प्राणस्तदद्भुतमिवाभवत् ॥
धर्मे च श्रद्दधानस्य तपस्युग्रे च वर्ततः ।
कालेन महता तस्य दिव्या दृष्टिरजायत ॥
तस्य बुद्धिः प्रादुरासीद्यदि दद्यामहं धनम् ।
तुष्टः कस्यचिदेवेह मिथ्या वाङ्ग भवेन्मम ॥
ततः प्रहृष्टवदनो भूय आरब्धवांस्तपः ।
भूयश्चाचिन्तयत्सिद्धो यत्परं सोऽभिमन्यते ॥
यदि दद्यामहं राज्यं तुष्टो वै यस्य कस्यचित् ।
स भवेदचिराद्राजा न मिथ्या वाग्भवेन्मम ॥
तस्य साक्षात्कुण्डधारो दर्शयामास भारत ।
ब्राह्मणस्य तपोयोगात्सौहृदेनाभिचोदितः ॥
समागम्य स तेनाथ पूजां चक्रे यथाविधि ।
ब्राह्मणः कुण्डधारस्य विस्मितश्चाभवन्नृप ॥
ततोऽब्रवीत्कुण्डधारो दिव्यं ते चक्षुरुत्तमम् ।
पश्य राज्ञां गतिं विप्र लोकांश्चैव तु चक्षुषा ॥
ततो राजसहस्राणि मग्नानि निरये तदा ।
दूरादपश्यद्विप्रः स दिव्ययुक्तेन चक्षुषा ॥
कुण्डधार उवाच ।
मां पूजयित्वा भावेन यदि त्वं दुःखमाप्नुयाः ।
कृतं मया भवेत्किं ते कश्च तेऽनुग्रहो भवेत् ॥
पश्यपश्य च भूयस्त्वं कामानिच्छेत्कथं नरः ।
स्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः ॥
भीष्म उवाच ।
ततोऽपश्यत्स कामं च क्रोधं लोभं भयं मदम् । निद्रां तन्द्रीं तथाऽऽलस्यमावृत्त्य पुरुषान्स्थितान् ॥'
कुण्डधार उवाच ।
एतैर्लोकाः सुसंरुद्धा देवानां मानुषाद्भयम् ।
तथैव देववचनाद्विघ्नं कुर्वन्ति सर्वशः ॥
न देवैरननुज्ञातः कश्चिद्भवति धार्मिकः ।
एष शक्तोस्मि तपसा दातुं राज्यं धनानि च ॥
भीष्म उवाच ।
ततः पपात शिरसा ब्राह्मणस्तोयधारिणे ।
उवाच चैनं धर्मात्मा महान्मेऽनुग्रहः कृतः ॥
कामलोभानुबन्धेन पुरा ते यदसूयितम् ।
मया स्नेहमविज्ञाय तत्र मे क्षन्तुमर्हसि ॥
क्षान्तमेव मयेत्युक्त्वा कुण्डधारो द्विजर्षभम् ।
संपरिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत ॥
ततः सर्वांस्तदा लोकान्ब्राह्मणोऽनुचचार ह ।
कुण्डधारप्रसादेन तपसा सिद्धिमागतः ॥
विहायसा च गमनं तथा संकल्पितार्थता ।
धर्माच्छक्त्या तथा योगाद्या चैव परमा गतिः ॥
देवता ब्राह्मणाः सन्तो यक्षा मानुषचारणाः ।
धार्मिकान्पूजयन्तीह न धनाढ्यान्न कामिनः ॥
सुप्रसन्ना हि ते देवा यत्ते धर्मे रता मतिः ।
धने सुखकला काचिद्धर्मे तु परमं सुखम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तसप्तत्यधिकद्विशततमोऽध्यायः ॥ 277 ॥

12-277-6 जलधरं मेघम् । कुण्डधारं नामतः ॥ 12-277-7 धास्यति विघास्यति । तस्य बुद्धिरजायतेति ट. थ. पाठः । दास्यति श्रेय इति ट. थ. ध. पाठः ॥ 12-277-10 इमां गाधामगायतेति ध. पाठः ॥ 12-277-14 निरुपस्कृतो भोगवर्जितः ॥ 12-277-15 व्यादिशन्तं देवाज्ञया याचकेभ्यः फलानि समर्पयन्तम् ॥ 12-277-16 अशुभेषु कर्मसूपस्थितेषु प्राग्दत्तमपि राज्यादिकं प्रच्छिन्दन्ति हरन्ति ॥ 12-277-17 भूमौ पतितो ब्राह्मणहितार्थी । अग्रतः पतितो भूमाविति ध. पाठः ॥ 12-277-18 कुण्डधार किमिष्यत इति झ. ध. पाठः ॥