अध्यायः 278

भीष्मेण युधिष्ठिरंप्रति हिंसाहेतुतया यज्ञस्याप्यप्राशस्त्यप्रतिपादकनारदवचनानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
बहूनां यज्ञतपसामेकार्थानां पितामह ।
धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः ॥
भीष्म उवाच ।
अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम् ।
उञ्छवृत्तेः पुरावृत्तं यज्ञार्थे ब्राह्मणस्य च ॥
नारद उवाच ।
राष्ट्रे धर्मोत्तरे श्रेष्ठे विदर्भेष्वभवद्द्विजः ।
उञ्छवृत्तिर्ऋषिः कश्चिद्यज्ञं यष्टुं समादधे ॥
श्यामाकमशनं तत्र सूर्यपर्णी सुवर्चला ।
तिक्तं च विरसं शाकं तपसा स्वादुतां गतम् ॥
उपगम्य वने पृथ्वीं सर्वभूताविहिंसया ।
अपि मूलफलैरिष्टो यज्ञः स्वर्ग्यः परंतप ॥
तस्य भार्या व्रतकृशा शुचिः पुष्करमालिनी ।
यज्ञपत्नी समानीता सत्येनानुविधीयते ॥
सा तु शापपरित्रस्ता तत्स्वभावानुर्तिनी ।
मायूरजीर्णपर्णानां वस्त्रं तस्याश्च वर्णितम् ॥
अकामया कृतस्तत्र यज्ञो होत्रनुमार्गतः ।
शुकस्य पुनराजातिरवध्यानादधर्मवत् ॥
तस्मिन्वने समीपस्थो मृगोऽभूत्सहचारिकः ।
वचोभिरब्रवीत्सत्यं त्वयेदं दुष्कृतं कृतम् ॥
यदि मन्त्राङ्गहीनोऽयं यज्ञो भवति वैकृतः ।
मा भोःप्रक्षिप होत्रे त्वं गच्छ स्वर्गमतन्द्रितः ॥
ततस्तु यज्ञे सावित्री साक्षात्तं संन्यमन्त्रयत् ।
निमन्त्रयन्ती प्रत्युक्ता न हन्यां सहवासिनम् ॥
एवमुक्त्वा निवृत्ता सा प्रवृत्ता यज्ञपावकात् ।
किंनु दुश्चरितं यज्ञे दिदृक्षुः सा रसातलम् ॥
स तु बद्धाञ्जलिं सत्यमयाचद्धरिणः पुनः ।
सत्येन स परिष्वज्य संदिष्टो गम्यतामिति ॥
ततः स हरिणो गत्वा पदान्यष्टौ न्यवर्तत ।
साधु हिंसय मां सत्य हतो यास्यामि सद्गदितम् ॥
पश्य ह्यप्सरसो दिव्या मया दत्तेन चक्षुषा ।
विमानानि विचित्राणि गन्धर्वाणां महात्मनाम् ॥
ततः स सुचिरं दृष्ट्वा स्पृहालग्नेन चक्षुषा ।
मृगमालोक्य हिंसायां स्वर्गवासं समर्थयत् ॥
स तु धर्मो मृगो भूत्वा बहुवर्षोषितो वने ।
तस्य निष्कृतिमाधत्त न त्वसौ यज्ञसंविधिः ॥
तस्य तेनानुभावेन मृगहिंसात्मनस्तदा ।
तपो महत्समुच्छिन्नं तस्माद्धिंसा न यज्ञिया ॥
ततस्तं भगवान्धर्मो यज्ञं याजयत स्वयम् ।
समाधानं च भार्याया लेभे स तपसा परम् ॥
अहिंसा परो धर्मो हिंसाधर्मस्तथा हितः ।
सत्यं तेऽहं प्रवक्ष्यामि नो धर्मः सत्यवादिनाम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टसप्तत्यधिकद्विशततमोऽध्यायः ॥ 278 ॥

12-278-3 कश्चित्स च यज्ञं समादध इति ट. थ. पाठः ॥ 12-278-4 श्यामाकमशनमदनीय । सूर्यपर्णी सुवर्चलेति शाकविशेषौ । त्रयमेतद्वन्यं यज्ञियद्रव्यम् । सूर्यपत्री सुवर्चलेति ट. थ. ध. पाठः ॥ 12-278-6 पुष्करमालिनी नामतः । सत्ये सत्यसंज्ञे भर्तरि नानुविधीयते हिंसा यज्ञमश्रेयस्त्वेन मन्यमाना अनुविधानमानुकूल्यं न करोति ॥ 12-278-7 तथापि शापाद्भीता सती भर्तुः स्वभावमनुरुध्यास्ते इत्यर्थः । मयूरपञ्छैः सन्निवेशविशेषेण गुम्फितैस्तस्या वस्त्रं वर्णितं विस्तारितम् ॥ 12-278-8 शुक्रस्य पुनराज्ञाभिः पर्णादो नाम धर्मविदिति झ. पाठः ॥ 12-278-9 सहचारिको यजमानस्य सत्यसंज्ञस्य प्रतिवेशी स मृगोऽभून्मृगो भूत्वा च सत्यं मुनिमव्रवीत् । दुष्कृतमिति । सतिसामर्थ्ये मन्त्राङ्गहीनं यज्ञं कुर्वतां दुष्कृतं भवतीत्यर्थः ॥ 12-278-10 ननु दरिद्रेण मयानुकल्पेनैव श्यामाकचरुणा पशुकार्यं क्रियत इत्याशङ्क्याह यदीति । होत्रे हूयतेऽस्मिन्निति व्युत्पत्त्या अग्नौ । मां पर्णादं मृगभूतम् ॥ 12-278-11 सावित्री सवितृमण्डलाधिष्ठात्री देवता प्रत्यक्षमेत्य संन्यमन्त्रयत् मदर्तेऽयं पशुरग्नौ होतव्य इत्युक्तवती । प्रत्युक्ता प्रत्याख्याता । तत्र हेतुः न हन्यामिति ॥ 12-278-12 रसातलं दिदृक्षुः प्रवृत्ता तिरोभूदित्यर्थः ॥ 12-278-13 सत्यं सत्यसंज्ञम् । अयाचत मामग्नौ प्रक्षिपेति प्रार्थितवान् । ततो हिंसायां दोषं पश्यता संदिष्ट आज्ञप्तः ॥ 12-278-16 हिंसायां कृतायामेव स्वर्गवासं प्राप्नोतीति समर्थयत् समर्थितवानिति संबन्धः ॥ 12-278-17 केनचिन्निमित्तेन मृगतां प्राप्तो धर्मस्तस्य निमित्तस्य निष्कृतिं प्रतीकारमाधत्त स्वात्मानं मोचितवान्नत्वसौ यज्ञस्य समीचीनो विधिहिसामयत्वात् ॥ । 12-278-18 अनुभावेन पशुं हत्वा स्वर्गं प्राप्स्यामीत्यभिप्रायेण । यज्ञिया यज्ञाय हिता ॥ 12-278-19 याजयत अडभाव आर्षः । याजितवान् । भार्यायाः पुष्करमालिन्याः हिंसामययज्ञमनिच्छन्त्याः ॥ 12-278-20 तथा तेन स्वर्गप्रदत्वेन रूपेण हितः । सत्यवादिनां ब्रह्मवादिनां त्वसौ नो धर्मः अहिंसा सकलो धर्म इति झ. पाठः ॥