अध्यायः 024

व्यासेन युधिष्ठिरंप्रति राजधर्मकथनपर्वकं राज्यपालनचोदना ॥ 1 ॥

वैशंपायन उवाच ।
पुनरेव महर्षिस्तं कृष्णद्वैपायनोऽर्थवत् ।
अजातशत्रुं कौन्तेयमिदं वचनमब्रवीत् ॥
अरण्ये वसतां तात भ्रातॄणां ते मनिस्विनाम् ।
मनोरथा महाराज ये तत्रासन्युधिष्ठिर ॥
तानि मे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः ।
प्रशाधि पृथिवीं पार्थ ययातिरिव नाहुषः ॥
अरण्ये दुःखवसतिरनुभूता तपस्विभिः ।
दुःखस्यान्ते नरव्याघ्र सुखान्यनुभवन्तु वै ॥
धर्ममर्थं च कामं च भ्रातृभिः सह भारत ।
अनुभूय ततः पश्चात्प्रस्थाताऽसि विशांपते ॥
अर्थिनां च पितृणां च देवतानां च भारत ।
आनृण्यं गच्छ कौन्तेय ततः स्वर्गं गमिष्यसि ॥
सर्वमेधाश्चमेधाभ्यां यजस्व कुरुनन्दन ।
ततः पश्चान्महाराज गमिष्यसि परां गतिम् ॥
भ्रातृंश्च सर्वान्क्रतुभिः संयोज्य बहुदक्षिणैः ।
संप्राप्तः कीर्तिमतुलां पाण्डवेय गमिष्यसि ॥
विझस्ते पुरुषव्याघ्र वचनं कुरुसत्तम ।
शृणुष्वैवं यथा कुर्वन्न धर्माच्च्यवसे नृप ॥
आददानस्य विजयं विग्रहं च युधिष्ठिर ।
समानधर्मकुशलाः स्थापयन्ति नरेश्वर ॥
`प्रत्यक्षमनुमानं च उपमानं तथाऽऽगमः ।
अर्थापत्तिस्तथैतिह्यं संशयो निर्णयस्तथा ॥
आकार इङ्गितं चैव गतिश्चेष्टा च भारत ।
प्रतिज्ञा चैव हेतुश्च दृष्टान्तोपनयस्तथा ॥
उक्तिर्निगमनं तेषां प्रमेयं च प्रयोजनम् ।
एतानि साधनान्याहुर्बहुवर्गप्रसिद्धये ॥
प्रत्यक्षमनुमानं च सर्वेषां योनिरुच्यते । प्रमाणज्ञो हि शक्नोति दण्डयोनौ विचक्षणः ।
अप्रमाणवता नीतो दण्डो हन्यान्महीपतिम् ॥
देशकालप्रतीक्षी यो दस्यून्मर्षयते नृपः ।
शास्त्रजां बुद्धिमास्थाय युज्यते नैनसा हि सः ॥
आदाय बलिषङ्भागं यो राष्ट्रं नाभिरक्षति ।
प्रतिगृह्णाति तत्पापं चतुर्थांशेन भूमिपः ॥
निबोध च यथाऽऽतिष्ठन्धर्मान्न च्यवते नृपः । निग्रहाद्धर्मशास्त्राणामनुरुद्ध्यन्नपेतभीः ।
कामक्रोधावनादृत्य पितेव समदर्शनः ॥
दैवेनाभ्याहतो राजा कर्मकाले महाद्युते ।
न साधयति यत्कर्म न तत्राहुरतिक्रमम् ॥
तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः ।
पापैः सह न संदध्याद्राज्यं पुण्यं च कारयेत् ॥
शूराश्चार्याश्च सत्कार्या विद्वांसश्च युधिष्ठिर ।
गोमिनो धनिनश्चैव परिपाल्या विशेषतः ॥
व्यवाहरेषु धर्मेषु योक्तव्याश्च बहुश्रुताः ।
`प्रमाणज्ञा महीपाल न्यायशास्त्रावलम्बिनः ॥
वेदार्थतत्त्वविद्राजंस्तर्कशास्त्रबहुश्रुताः ।
मन्त्रे च व्यवहारे च नियोक्तव्या विजानता ॥
तर्कशास्त्रकृता बुद्धिर्धर्मशास्त्रकृता च या ।
दण्डनीतिकृता चैव त्रैलोक्यमपि साधयेत् ॥
नियोज्या वेदतत्त्वज्ञा यज्ञकर्मसु पार्तिव ।
वेदज्ञा ये च शास्त्रज्ञास्ते च राजन्सुबुद्धयः ॥
आन्वीक्षकीत्रयीवार्तादण्डनीतिषु पारगाः । ते तु सर्वत्र योक्तव्यास्ते च बुद्धेः परं गताः ॥ '
गुणयुक्तेऽपि नैकस्मिन्विश्वसेत विचक्षणः ॥
अरक्षिता दुर्विनीतो मानी स्तब्धोऽभ्यसूयकः ।
एनसा युज्यते राजा दुर्दान्त इति चोच्यते ॥
ये रक्ष्यमाणा हीयन्ते दैवेनृभ्याहता नृप ।
तस्करैश्चापि हीयन्ते सर्वं तद्राजकिल्विषम् ॥
सुमन्त्रिते सुनीते च सर्वतश्चोपपादिते ।
पौरुषे कर्मणि कृते नास्त्यधर्मो युधिष्ठिर ॥
विच्छिद्यन्ते समारब्धाः सिद्ध्यन्ते चापि दैवतः ।
कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम् ॥
अत्र ते राजशार्दूल वर्तयिष्ये कथामिमाम् ।
यद्वृत्तं पूर्वराजर्षेर्हयग्रीवस्य पाण्डव ॥
शत्रून्हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः ।
असहायस्य संग्रामे निर्जितस्य युधिष्ठिर ॥
यत्कर्म वै निग्रहे शात्रवाणां योगश्चाग्र्यः पालने मानवानाम् ।
कृत्वा कर्म प्राप्य कीर्ति स युद्धा द्वाजिग्रीवो मोदते स्वर्गलोके ॥
संत्यक्तात्मा समरेष्वाततायी शस्त्रैश्छिन्नो दस्युभिर्वध्यमानः ।
अश्वग्रीवः कर्मशीलो महात्मा संसिद्धार्थो मोदते स्वर्गलोके ॥
धनुर्यूपो रशना ज्या शरः स्रु क्स्रुवः खङ्गो रुधिरं यत्र चाज्यम् ।
रथो वेदी कामजो युद्धमग्नि श्चातुर्होत्रं चतुरो वाजिमुख्याः ॥
हुत्वा तस्मिन्यज्ञवह्नावथारी न्पापान्मुक्तो राजसिंहस्तरस्वी ।
प्राणान्हुत्वा चावभृथे रणे स वाजिग्रीवो मोदते देवलोके ॥
राष्ट्रं रक्षन्बुद्धिपूर्वं नयेन संत्यक्तात्मा यज्ञशीलो महात्मा ।
सर्वांल्लोकान्व्याप्य कीर्त्या मनस्वी वाजिग्रीवो मोदते देवलोके ॥
दैवीं सिद्धिं मानुषीं दण्डनीतिं योगन्यासैः पालयित्वा महीं च ।
तस्माद्राजा धर्मशीलो महात्मा वाजिग्रीवो मोदते देवलोके ॥
विद्वांस्त्यागी श्रद्दधानः कृतज्ञ स्त्यक्त्वा लोकं मानुषं कर्म कृत्वा ।
मेधाविनां विदुषां संमतानां तनुत्यजां लोकमाक्रम्य राजा ॥
सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य सम्यग्राज्यं पालयित्वा महात्मा ।
चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे वाजिग्रीवो मोदते देवलोके ॥
जित्वा संग्रामान्पालयित्वा प्रजाश्च सोमं पीत्वा तर्पयित्वा द्विजाग्र्यान् ।
युक्त्या दण्डं धारयित्वा प्रजानां युद्धे क्षीणे मोदते देवलोके ॥
वृत्तं यस्य श्लाघनीयं मनुष्याः सन्तो विद्वांसोऽर्हयन्त्यर्हणीयम् ।
स्वर्गं जित्वा वीरलोकानवाप्य सिद्धिं प्राप्तः पुण्यकीर्तिर्महात्मा ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुविंशोऽध्यायः ॥ 24 ॥

12-24-1 वचनं हिंसाप्रधानः क्षत्रधर्मो मे मास्त्वित्येवंरूपम् ॥ 12-24-10 आददानस्य परस्वापहर्तुः । समानधर्मः अविषमो धर्मस्तत्र कुशलाः स्थापयन्ति अवश्यकर्तव्यतया व्यवस्थापयन्ति ॥ 12-24-15 मर्षयते दस्यूनपि न हन्ति । एनसा तज्जेन पापेन ॥ 12-24-17 धर्मशास्त्राणां निग्रहादतिलङ्घनाज्जातादधर्माद्धेतोश्र्यवते । तानि अनुरुध्यन्नपेतभीश्च भवति ॥ 12-24-19 राष्ट्रपण्यं न कारयेति ड. थ. पाठः ॥ 12-24-20 गोमिनो गोमन्तः ॥ 12-24-27 स्तब्धो मान्यानमानयन् । अभ्यसूयको गुणेषु दोषदृष्टिः ॥ 12-24-28 दैवेन अवर्षणादिना ॥ 12-24-33 यत्कर्म कर्तव्यं तत्कर्म कृत्वेति संबन्धः ॥ 12-24-35 कामजः क्रोधो युद्धमूलभूतोऽग्निः । चातुर्होत्रं ब्रह्माद्याः ऋत्विजः चतुरश्चत्वारः ॥ 12-24-37 संत्यक्तात्मा त्यक्ताहकारः ॥ 12-24-38 योगः क्रियायामुत्साहो न्यासा अभिमानत्यागास्तैर्युक्तां दैवी सिद्धिं यज्ञादिक्रियामन्यदीयां मानुषीं च सिद्धिं दण्डनीतिं महीं च पालयित्वेति योजना । स्वयं च यज्ञशीलः ॥ 12-24-39 मानुषं लोकमिति संबन्धः । तनुत्यजां प्रयागादौ ॥