अध्यायः 291

भीष्मेण युधिष्ठिरं प्रत्यध्यात्मकथनम् ॥ 1 ॥

* युधिष्ठिर उवाच ।
अध्यात्मं नाम यदिदं पुरुषस्येह विद्यते ।
यदध्यात्मं यतश्चैव तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
सर्वज्ञानं परं बुद्ध्या यन्मां त्वमनुपृच्छसि ।
तद्व्याख्यास्यामि ते तात तस्य व्याख्यामिमां शृणु ॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ॥
स तेषां गुणसंघातः शरीरं भरतर्षभ ।
सततं हि प्रलीयन्ते गुणास्ते प्रभवन्ति च ॥
ततः सृष्टानि भूतानि तानि यान्ति पुनः पुनः ।
महाभूतानि भूतेभ्य ऊर्मयः सागरे यथा ॥
प्रसारयित्वेहाङ्गानि कूर्मः संहरते यथा ।
तद्वद्भूतानि भूतानामल्पीयांसि स्थवीयसाम् ॥
आकाशात्खलु यो घोषः संघातस्तु महीगुणः ।
वायोः प्राणो रसस्त्वद्भ्यो रूपं तेजस उच्यते ॥
इत्येतन्मयमेवैतत्सर्वं स्थावरजङ्गमम् ।
प्रलये च तमभ्येति तस्मादुद्दिश्यते पुनः ॥
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् ।
विषयान्कल्पयामास यस्मिन्यदनुपश्यति ॥
शब्दश्रोत्रे तथा खानि त्रयमाकाशयोनिजम् ।
रसः स्नेहश्च जिह्वा च अपामेते गुणाः स्मृताः ॥
रूपं चक्षुर्विपाकश्च त्रिविधं ज्योतिरूच्यते ।
घ्रेयं घ्राणं शरीरं च एते भूमिगुणाः स्मृताः ॥
प्राणः स्पर्शश्च चेष्टा च वायोरेते गुणाः स्मृताः ।
इति सर्वगुणा राजन्व्याख्याताः पाञ्चभौतिकाः ॥
सत्त्वं रजस्तमः कालः कर्म बुद्धिश्च भारत ।
मनः षष्ठानि चैतेषु ईश्वरः समकल्पयत् ॥
यदूर्ध्वपादतलयोरवाड्यूर्ध्नश्च पश्यसि ।
एतस्मिन्नेव कृत्स्नेयं वर्तते बुद्धिरन्तरे ॥
इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते ।
सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञः पुनरष्टमः ॥
इन्द्रियाणि च कर्ता च विचेतव्यानि भागशः ।
तमः सत्वं रजस्तैव तेऽपि भावास्तदाश्रयाः ॥
चक्षुरालोचनायैव संशयं कुरुते मनः ।
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥
तमः सत्वं रजश्चेति कालः कर्म च भारत । गुणैर्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाणि च ।
मनः षष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः ॥
येन पश्यति तच्चक्षुः शृण्वती श्रोत्रमुच्यते ।
जिघ्रती भवति घ्राणं रसती रसना रसान् ॥
स्पर्शनं स्पर्शती स्पर्शान्बुद्धिर्विक्रियतेऽसकृत् ।
यदा प्रार्थयते किंचित्तदा भवति सा मनः ॥
अधिष्ठानानि बुद्ध्या हि पृथगेतानि पञ्चधा ।
इन्द्रियाणीति तान्याहुस्तेषु दुष्टेषु दुष्यति ॥
पुरुषे तिष्ठती बुद्धिस्त्रिषु भावेषु वर्तते ।
कदाचिल्लभते प्रीतिं कदाचिदपि शोचति ॥
न सुखेन न दुःखेन कदाचिदपि वर्तते ।
सेयं भावात्मिका भावांस्त्रीनेतान्परिवर्तते ॥
सरितां सागरो भर्ता यथा वेलामिवोर्मिमान् ।
इति भावगता बुद्धिर्भावे मनसि वर्तते ॥
प्रवर्तमानं तु रजस्तद्भावेनानुर्तते ।
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ॥
कथंचिदुपपद्यन्ते पुरुषे सात्विका गुणाः ।
पिरदाहस्तथा शोकः संतापोऽपूर्तिरक्षमा ॥
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः ।
अविद्या रागमोहौ च प्रमादः स्तब्धता भयम् ॥
असमृद्धिस्तथा दैन्यं प्रमोहः स्वप्नतन्द्रिता ।
कथंचिदुपवर्तन्ते विविधास्तामसा गुणाः ॥
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् ।
वर्तते सात्विको भाव इत्युपेक्षेत तत्तथा ॥
अथ यद्दुःखसंयुक्तमप्रीतिकरमात्मनः ।
प्रवृत्तं रज इत्येव तदसंरभ्य चिन्तयेत् ॥
अथ यन्मोहसंयुक्तं काये मनसि वा भवेत् ।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥
इति बुद्धिगतीः सर्वा व्याख्याता यावतीरिह ।
एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् ॥
सत्वक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः ।
सृजतेऽत्र गुणानेक एको न सृजते गुणान् ॥
पृथग्भूतौ प्रकृत्या तु संप्रयुक्तौ च सर्वदा ।
यथा मत्स्योऽद्भिरन्यः स्यात्संप्रयुक्तो भवेत्तथा ॥
न गुणा विदुरात्मानं स गुणान्वेद सर्वतः ।
परिद्रष्टा गुणानां तु संस्रष्टा मन्यते यथा ॥
आश्रयो नास्ति सत्वस्य गुणसर्गेण चेतना ।
सत्वमस्य सृजन्त्यन्ये गुणान्वेद कदाचन ॥
सृजते हि गुणान्सत्वं क्षेत्रज्ञः परिपश्यति ।
संप्रयोगस्तयोरेष सत्वक्षेत्रज्ञयोर्ध्रुवः ॥
इन्द्रियैस्तु प्रदीपार्थं क्रियते बुद्धिरन्तरा ।
निश्चक्षुर्भिरजानद्भिरिन्द्रियाणि प्रदीपवत् ॥
एवं स्वभावमेवैतत्तद्बुद्ध्वा विहरन्नरः ।
अशोचन्नप्रहृष्यंश्च स वै विगतमत्सरः ॥
स्वभावसिद्धमेवैतद्यदिमान्सृजते गुणान् ।
ऊर्णनाभिर्यथा सूत्रं विज्ञेयास्तन्तुवद्गुणाः ॥
प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते ।
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे ॥
इतीदं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम् ।
विमुच्य सुखमासीत विशोकश्छिन्नसंशयः ॥
ताम्येयुः प्रच्युताः पृथ्वीं मोहपूर्णां नदीं नराः ।
यथा गाधमविद्वांसो बुद्धियोगमयं तथा ॥
नैव ताम्यन्ति विद्वांसः प्लवन्तः पारमम्भसः ।
अध्यात्मविदुषो धीरा ज्ञानं तु परमं प्लवः ॥
न भवति विदुषां महद्भयं यदविदुषां सुमहद्भयं भवेत् ।
न हि गतिरधिकाऽस्ति कस्यचि त्सकृदुपदर्शयतीह तुल्यताम् ॥
यत्करोति बहुदोषमेकत स्तच्च दूषयति यत्पुरा कृतम् ।
नाप्रियं तदुभयं करोत्यसौ यच्च दूषयति यत्करोति च ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकनवत्यधिकद्विशततमोऽध्यायः ॥ 291 ॥

* 192 तमाध्यायतया पूर्वं विद्यमान एवायमध्यायः ख. ध. झ. पुस्तकेषु क्वचित्क्वचित्पाठभेदेन पुनरपि दृश्यते न दृश्यते च दाक्षिणात्यबहुकोशेषु ।