अध्यायः 296

भीष्मेण युधिष्ठिरंप्रति श्रेयःसाधनप्रतिपादकपराशरगीतानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
अतः परं महाबाहो यच्छ्रेयस्तद्ब्रवीहि मे ।
न तृप्याम्यमृतस्येव वचसस्ते पितामह ॥
किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम ।
श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद ॥
भीष्म उवाच ।
अत्र ते वर्तयिष्यामि यथा पूर्वं महायशाः ।
पराशरं महात्मानं पप्रच्छ जनको नृपः ॥
किं श्रेयः सर्वभूतानामस्मिँल्लोके परत्र च ।
यद्भवेत्प्रतिपत्त्व्यं तद्भवान्प्रब्रवीतु मे ॥
ततः स तपसा युक्तः सर्वधर्मविधानवित् ।
नृपायानुग्रहमना मुनिर्वाक्यमथाब्रवीत् ॥
पराशर उवाच ।
धर्म एव कृतः श्रेयानिह लोके परत्र च ।
तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः ॥
प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते ।
धर्मात्मकः कर्मविधिर्देहिनां नृपसत्तम ॥
तस्मिन्त्राश्रमिणः सन्तः स्वकर्माणीह कुर्वते ॥
चतुर्विधा हि लोकेऽस्मिन्यात्रा तात विधीयते ।
मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते ॥
सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः ।
दशार्धप्रविभक्तानां भूतानां विविधा गतिः ॥
सौवर्णं राजतं चापि यथा भाण्डं निषिच्यते ।
तथा निपिच्यते जन्तुः पूर्वकर्मवशानुगः ॥
नाबीजाज्जायते किंचिन्नाकृत्वा सुखमेधते ।
सुकृतैर्विन्दते सौख्यं प्राप्य देहक्षयं नरः ॥
दैवं तात न पश्यामि नास्ति दैवस्य साधनम् ।
स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः ॥
प्रेत्य यान्त्यकृतं कर्म न स्मरन्ति सदा जनाः ।
ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम् ॥
लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः ।
शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम् ॥
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् ।
कुरुते यादृशं कर्म तादृशं प्रतिपद्यते ॥
निरन्तरं च मिश्रं च लभते कर्म पार्थिव ।
कल्याणं यदि वा पापं न तु नाशोऽस्य विद्यते ॥
कदाचित्सुकृतं तात कूटस्थमिव तिष्ठति ।
मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते ॥
ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते ।
सुकृतक्षयाच्च दुष्कृतं तद्विद्धि मनुजाधिप ॥
दमः क्षमा धृतिस्तेजः संतोषः सत्यवादिता ।
ह्रीरहिंसाऽव्यसनिता दाक्ष्यं चेति सुखावहाः ॥
दुष्कृते सुकृते चापि न जन्तुर्नियतो भवेत् ।
नित्यं मनः समाधाने प्रयतेत विचक्षणः ॥
नायं परस्य सुकृतं दुष्कृतं चापि सेवते ।
करोति यादृशं कर्म तादृशं प्रतिपद्यते ॥
सुखदुःखे समाधाय पुमानन्येन गच्छति ।
अन्येनैव जनः सर्वः संगतो यश्च पार्थिवः ॥
परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः ।
यो ह्यसूयुस्तथा युक्तः सोऽवहासं नियच्छति ॥
भीरू राजन्यो ब्राह्मणः सर्वभक्ष्यो वैश्योऽनीहावान्हीनवर्णोऽलसश्च ।
विद्वांश्राशीलो वृत्तहीनः कुलीनः सत्याद्विभ्रष्टो ब्राह्मणस्त्री च तुष्टा ॥
रागी युक्तः पचमानोऽऽत्महेतो र्मूर्खो वक्ता नृपहीनं च राष्ट्रम् ।
एते सर्वे शोच्यतां यान्ति राज न्यश्रायुक्तः स्नेहहीनः प्रजासु ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षण्णवत्यधिकद्विशततमोऽध्यायः ॥ 296 ॥

12-296-18 करस्थमिव तिष्ठतीति थ. पाठः ॥ 12-296-26 रागी मुक्त इति थ. पाठः ॥