अध्यायः 301

भीष्मेण युधिष्ठिरंप्रति तपःप्रशंसादिपरपराशरगीतनुवादः ॥ 1 ॥

पराशर उवाच ।
एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः ।
तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु ॥
प्रायेण च गृहस्थस्य ममत्वं नाम जायते ।
सङ्गागतं नरश्रेष्ठ भावै राजसतामसैः ॥
गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च ।
दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै ॥
एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः ।
रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः ॥
रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् ।
मोहजस्तारतिर्नाम समुपैति नराधिप ॥
कृतार्थ भोगिनं मत्वा सर्वो रतिपरायणः ।
लाभं प्रात्यसुखादन्यं रतितो नानुपश्यति ॥
ततो लोभाभिभूतात्मा सङ्गाद्वधर्यते जनम् ।
दुष्टार्थं चैव तस्येह जनस्यार्थं चिकीर्षति ॥
स जानत्रपि चाकार्यमर्थार्थं सेवते नरः ।
बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते ॥
ततो दानेन संपन्नो रक्षन्नात्मपराजयम् ।
करोति येन भोनी स्यामिति तस्माद्विनश्यति ॥
तद्यदि वुद्धियुक्तानां शाश्वतं ब्रह्मवादिनाम् ।
अभिच्छतां शुभं कर्म नराणां त्यजतां सुखम् ॥
लोकायतननाशाच्च धननाशाच्च पार्थिव ।
आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति ॥
निर्वेदादात्मसंबोधः संबोधादात्मदर्शनम् ।
शास्त्रार्थदर्शनाद्राजसंस्तप एवानुपश्यति ॥
दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् ।
यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति ॥
तपः सर्वगतं तात हीनस्यापि विधीयते ।
जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रवर्तकम् ॥
प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः ।
क्वचित्क्वचिद्ब्रतपरो व्रतान्यास्थाय पार्थिव ॥
आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः ।
विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः ॥
यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः ।
संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः ॥
ये चादौ ब्राह्मणाः सृष्टा ब्रह्मणा तपसा पुरा ।
ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा ॥
मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः ।
महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम् ॥
कौशेयानि च वस्त्राणि शुभान्याभरणानि च ।
वाहनासनपानानि तत्सर्वं तपसः फलम् ॥
मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः ।
वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम् ॥
शयनानि च मुख्यानि भोज्यानि विविधानि च ।
अभिप्रेतानि सर्वाणि भवन्ति शुभकर्मिणाम् ॥
नाप्राप्यं तपसः किंचिन्त्रैलोक्येऽपि परंतप ।
उपभोगपरित्यागः फलान्यकृतकर्मणाम् ॥
सुखितो दुःखितो वाऽपि नरो लोभं परित्यजेत् ।
अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम ॥
असंतोषोऽसुखथायेति लोभादिन्द्रियविभ्रमः ।
ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता ॥
नष्टप्रज्ञो यदा तु स्यात्तदा न्यायं न पश्यति ।
तस्मात्सुखक्षये प्राप्ते पुमानुग्रतपश्चरेत् ॥
यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहेष्यते ।
कृताकृतस्य तपसः फलं पश्यस्व यादृशम् ॥
नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते ।
प्राकाश्यं चैवं गच्छन्ति कृत्वा निष्कल्मषं तपः ॥
अप्रियाण्यवमानाश्च दुःखं बहुविधात्मकम् ।
फलार्थी सत्पथं त्यक्त्वा प्राप्नोति विषयात्मकम् ॥
धर्मे तपसि दाने च विचिकित्साऽस्य जायते ।
स कृत्वा पापकान्येव निरयं प्रतिपद्यते ॥
सुखे तु वर्तमानो वै दुःखे वाऽपि नरोत्तम् ।
सुवृत्ताद्यो न चलते शास्त्रचक्षुः स मानवः ॥
इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता ।
रसने दर्शने घ्राणे श्रवणे च विशांपते ॥
ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः ।
बुधा ये न प्रशंसन्ति मोक्षं सुखमनुत्तमम् ॥
ततः फलार्थं सर्वस्य भवन्ति ज्यायसे गुणाः ।
धर्मवृद्ध्या च सततं कामार्थाभ्यां न हीयते ॥
अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा ।
प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः ॥
मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् ।
क्रियाधर्मविमुक्तानामशक्त्या संवृतात्मनाम् ॥
क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् ।
तेषां नान्यदृते लोके तपसः कर्म विद्यते ॥
सर्वात्मनाऽनुकुर्वीत गृहस्थः कर्मनिश्चयम् ।
दाक्ष्येण हव्यकव्यार्थं स्वधर्मे विचरन्नृप ॥
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकाधिकत्रिशततमोऽध्यायः ॥ 301 ॥

12-301-2 समाण्यं नरश्रेहेति ध. पाठः ॥ 12-301-6 भोगिनं आत्मानमिति शेषः । रत्यर्थं च धनं त्यक्त्वा स वै रतिपरायण इति ध. पाठः ॥ 12-301-7 पुष्ठार्थं चेह देहस्येति ध. पाठः ॥ 12-301-10 तपसा सिद्धियुक्तानां शाश्वतं द्रहादर्शनम् इति थ. ध. पाठः ॥ 12-301-12 संबोधाच्छास्रदर्शनमिति ध. पाठः ॥ 12-301-14 तपः स्वर्गफलं तातेति थ. पाठः ॥ स्वर्गमार्गप्रदर्शकमिति ट. थ. पाठः ॥ 12-301-15 क्वचिद्द्वह्यपर इति झ. पाठः ॥