अध्यायः 306

भीष्मेण युधिष्ठिरंप्रति योगनिरूपणम् ॥ 1 ॥

युधिष्ठिर उवाच ।
साङ्ख्ये योगे च मे तात विशेषं वक्तुमर्हसि ।
तव धर्मज्ञ सर्वं हि विदितं कुरुसत्तम ॥
भीष्म उवाच ।
साङ्ख्याः साङ्ख्यं प्रशंसन्ति योगा योगं द्विजातयः ।
वदन्ति कारणं श्रेष्ठं स्वपक्षोद्भावनाय वै ॥
अनीश्वरः कथं मुच्येदित्येवं शत्रुसूदन ।
वदन्ति कारणश्रैष्ठ्यं योगाः सम्यङ्भनीषिणः ॥
वदन्ति कारणं चेदं साङ्ख्याः सम्यग्द्विजातयः ।
विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ॥
ऊर्ध्वं च देहात्सुव्यक्तं विमुच्येदिति नान्यथा ।
एतदाहुर्महाप्राज्ञाः साङ्ख्यं वै मोक्षदर्शनम् ॥
स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् ।
शिष्टानां हि मतं ग्राह्यं त्वद्विधैः शिष्टसंमतैः ॥
प्रत्यक्षहेतवो योगाः साङ्ख्याः शास्त्रविनिश्चयाः ।
उभे चैते मते तत्त्वे मम तात युधिष्ठिर ॥
उभे चैते मते ज्ञाने नृपते शिष्टसंमते ।
अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ॥
तुल्यं शौचं तयोरेकं दया भूतेषु चानघ । व्रतानां धारणं तुल्यं दर्शनं न समं तयोः ।
`तयोस्तु दर्शनं सम्यक्सूक्ष्माभावे प्रसज्यते ॥'
युधिष्ठिर उवाच ।
यदि तुल्यं व्रतं शौचं दया चात्र फलं तथा ।
न तुल्यं दर्शनं कस्मात्तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् ।
योगाच्छित्त्वा ततो दोषान्पञ्चैतान्प्राप्नुवन्ति ते ॥
यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर्जलम् ।
प्राप्नुवन्ति तथा योगास्तत्पदं वीतकल्मषाः ॥
तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः ।
प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥
लोभजानि तथा राजन्बन्धनानि बलान्विताः ।
छित्त्वा योगात्परं मार्गं गच्छन्ति विमलं शिवम् ॥
अबलाश्च मृगा राजन्वागुरासु यथा परे ।
विनश्यन्ति न संदेहस्तद्वद्योगबलादृते ॥
बलहीनाश्च कौन्तेय यथा जालं गता झषाः ।
अन्तं गच्छन्ति राजेन्द्र योगास्तद्वत्सुदुर्बलाः ॥
यथा च शकुनाः सूक्ष्मं प्राप्य जालमरिंदम ।
तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः ॥
कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगाः परंतप ।
अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः ॥
अल्पकश्च यथा राजन्वह्निः शाम्यति दुर्बलः ।
आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगो बलः प्रभो ॥
स एव च यदा राजन्वह्निर्जातबलः पुनः ।
समीरणयुतः क्षिप्रं दहेत्कृत्स्नां महीमपि ॥
तद्वज्जातबलो योगी दीप्ततेजा महाबलः ।
अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत् ॥
दुर्बलश्च यथा राजन्स्रोतसा हियते नरः ।
बलहीनस्तथा योगो विषयैर्ह्रियतेऽवशः ॥
तदेव च महास्रोतो विष्टम्भयति वारणः ।
तद्वद्योगबलं लब्ध्वा व्यूहते विषयान्बहून् ॥
विशन्ति चावशाः पार्थ योगाद्योगबलान्विताः ।
प्रजापतीनृषीन्देवान्महाभूतानि चेश्वराः ॥
न यमो नान्तकः क्रुद्धो न नृत्युर्भीमविक्रमः ।
ईशते नृपते सर्वे योगस्यामिततेजसः ॥
आत्मनां च सहस्राणि बहूनि भरतर्षभ ।
योगः कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ॥
प्राप्नुयाद्विषयान्कश्चित्पुनश्चोग्रं तपश्चरेत् ।
संक्षिपेच्च पुनस्तात सूर्यस्तेतोगुणानिव ॥
बलस्थस्य हि योगस्य बन्धनेशस्य पार्थिव ।
विमोक्षे प्रभविष्णुत्वमुपपन्नमसंशयम् ॥
बलानि योगप्राप्तानि मयैतानि विशांपते ।
निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस्तव ॥
आत्मनश्च समाधाने धारणां प्रति वा विभो ।
निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ ॥
अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः ।
युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसशयम् ॥
स्नेहपूर्णे यथा पात्रे मन आधाय निश्चलम् ।
पुरुषो युक्त आरोहेत्सोपानं युक्तमानसः ॥
युक्तस्तथाऽयमात्मानं योगः षार्थिव निश्चलम् ।
करोत्यमलमात्मानं भास्करोपमदर्शनम् ॥
यथा च नावं कौन्तेय कर्णधारः समाहितः ।
महार्णवगतां शीघ्रं नयेत्पार्थिव पत्तनम् ॥
तद्वदात्मसमाधानं युक्त्वा योगेन तत्ववित् ।
दुर्गमं स्थानमाप्नोति हित्वा देहमिमं नृप ॥
सारथिश्च यथा युक्त्वा सदश्वान्सुसमाहितः ।
देशमिष्टं नयत्याशु धन्विनं पुरुषर्षभ ॥
तथैव नृपते योगी धारणासु समाहितः ।
प्राप्नोत्याशु परं स्थानं लक्षं मुक्त इवाशुगः ॥
आवेश्यात्मनि चात्मानं योगी तिष्ठति योचलः ।
पापं हन्ति पुनीतानां पदमाप्नोति सोऽजरम् ॥
नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः ।
दर्शने श्रवणे चापि घ्राणे चामितविक्रम ॥
स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः ।
आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्विशांपते ॥
स शीघ्रमचलप्रख्यं कर्म दग्ध्या शुभाशुभम् ।
उत्तमं योगमास्थाय यदीच्छति विमुच्यते ॥
युधिष्ठिर उवाच ।
आहारान्कीदृशान्कृत्वा कानि जित्वा च भारत ।
योगी बलमवाप्नोति तद्भवान्वक्तुमर्हति ॥
भीष्म उवाच ।
कणानां भक्षणे युक्तः पिण्याकस्य च भारत ।
स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् ॥
भुञ्जानो यावकं रूक्षं दीर्घकालमरिंदम् ।
एकाहारो विशुद्धात्मा योगी बलमवाप्नुयात् ॥
पक्षान्मासानृतूंश्चैतान्संवत्सरानहस्तथा ।
अपः पीत्वा पयोमिश्रा योगी बलमवाप्नुयात् ॥
अखण्डमपि वा मांसं सततं मनुजेश्वर ।
उपोष्य सम्यक्शुद्धात्मा योगी बलमवाप्नुयात् ॥
कामं जित्वा तथा क्रोधं शीतोष्णे वर्षमेव च ।
भयं शोकं तथा श्वासं पौरुषान्विषयांस्तथा ॥
अरतिं दुर्जयां चैव घोरां तृष्णां च पार्थिव ।
स्पर्शं निद्रां तथा तन्द्रीं दुर्जयां नृपसत्तम ॥
दीपयन्ति महात्मानः सूक्ष्ममात्मानमात्मना ।
वीतरागा महाप्रज्ञा ध्यानाध्ययनसंपदा ॥
दुर्गस्त्वेप मतः पन्था ब्राह्मणानां विपश्चिताम् ।
न कश्चिद्व्रजति ह्यस्मिन्क्षेमेण भरतर्षभ ॥
यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम् ।
श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम् ॥
अभक्षमटवीप्रायं दावदग्धमहीरुहम् ।
पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेद्युवा ॥
योगमार्गं तथाऽऽसाद्य यः कश्चिद्व्रजते द्विजः ।
क्षेमेणोपरमेन्मार्गाद्बहुदोषो हि स स्मृतः ॥
सुस्थेयं क्षुरधारासु निशितासु महीपते ।
धारणासु तु योगस्य दुःस्थेयमकृतात्मभिः ॥
विपन्ना धारणास्तात नयन्ति न शुभां गतिम् ।
नेतृहीना यथा नावः पुरुषानर्णवे नृप ॥
यस्तु तिष्ठति कौन्तेय धारणासु यथाविधि ।
मरणं जन्म दुःखं च सुखं च स विमुञ्चति ॥
नानाशास्त्रेषु निष्पन्नं योगेष्विदमुदाहृतम् ।
परं योगस्य यत्कृत्यं निश्चितं तद्द्विजातिषु ॥
परं हि तद्ब्रह्ममयं महात्म न्ब्रह्माणमीशं वरदं च विष्णुम् ।
भवं च धर्मं च ष़डाननं च षट््ब्रह्मपुत्रांश्च महान््भावान् ॥
तमश्च कष्टं सुमहद्रजश्च सत्वं विशुद्धं प्रकृतिं परां च ।
सिद्धिं च देवीं वरुणस्य पत्नीं तेजश्च कृत्स्नं सुमहच्च धैर्यम् ॥
ताराधिपं खे विमलं सतारं विश्वांश्च देवानुरगान्पितृंश्च ।
शैलांश्च कृत्स्नानुदधींश्च घोरा न्नदीश्च सर्वाः सवनान्घनांश्च ॥
नागान्नगान्यक्षगणान्दिशश्च गन्धर्वसंघान्पुरुषान्स्त्रियश्च ।
परात्परं प्राप्य महान्महात्मा विशेत योगी नचिराद्विमुक्तः ॥
कथा च येयं नृपते प्रसक्ता देवे महावीर्यतमौ शुभेयम् ।
योगी स सर्वानभिभूय मर्त्या न्नारायणात्मा कुरुते महात्मा ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षडधिकत्रिशततमोऽध्यायः ॥ 306 ॥

12-306-1 तव सर्वज्ञेति थ.ध. पाठः ॥ 12-306-2 कारणं हेतुः युक्तिरिति यावत् । स्वपक्षस्योद्भावनाय उत्कर्णाय कारणं श्रैठ्यमिति थ. पाठः ॥ 12-306-5 सांख्या वै मोक्षदर्शिन इति ध. पाठः ॥ 12-306-7 उभे चैते मते युक्ते इति ध. पाठः ॥ 12-306-9 भूतानां धारणं तुल्यमिति ध. पाठः ॥ 12-306-14 छित्त्वा योगाः परमिति ट. थ. पाठः ॥ 12-306-23 व्यूहते विक्षिपति तुच्छीकरोतीत्यर्थः ॥ 12-306-24 अवशाः स्वतन्त्राः ॥ 12-306-26 आत्मानं च सहस्राणीति ट. थ. पाठः । सौभर्यादिवद्युगपदनेकदेहधारणं योगिनां दृष्टमित्यर्थः ॥ 12-306-28 बन्धनेशस्य बन्धनं छेत्तुं समर्थस्य ॥ 12-306-29 बलानि योगे प्रोक्तानि इति ध. पाठः । मया उक्तानीति शेषः ॥ 12-306-32 पात्रे शिरसि धृते ॥ 12-306-33 योगी पार्थिव निश्चलमिति थ. पाठः ॥ 12-306-38 अवेक्ष्यात्मनीति झ. पाठः । जलं हन्तेव मीनानामिति ट. पाठः ॥ 12-306-44 एकारामो विशुद्धात्मेति ठ. ध. पाठः ॥ 12-306-45 ऋतूंश्चित्रान्संचरश्च गृहांस्तथेति ध. पाठः ॥ 12-306-51 बहुसंकटमिति ध. पाठः ॥ 12-306-52 अभक्तमटवीप्रायमिति ट. ध. पाठः ॥ 12-306-62 योगान्सर्वाननुभूयेह मर्त्य इति ध. पाठः ॥