अध्यायः 308

भीष्मेण युधिष्ठिरंप्रति क्षराक्षरलक्षणप्रतिपादकजनकवसिष्ठसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
किं तदक्षरमित्युक्तं यस्मान्नावर्तते पुनः ।
किंच तत्क्षरमित्युक्तं यस्मादावर्तते पुनः ॥
अक्षरधरयोर्व्यक्तिं पृच्छाम्यरिनिषूदन ।
उपलब्धुं महाबाहो तत्त्वेन कुरुनन्दन ॥
त्वं हि ज्ञाननिधिर्विप्रैरुच्यसे वेदपारगैः ।
ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः ॥
शेषमत्यं दिनानां ते दक्षिणायनभास्करे ।
आवृत्ते भगवत्यर्के गन्तासि परमां गतिम् ॥
त्वयि प्रतिगते श्रेयः कुतः श्रोष्यामहे वयम् ।
कुरुवंशप्रदीपस्त्वं ज्ञानदीपेन दीप्यसे ॥
तदेतच्छ्रोतुमिच्छामि त्वत्तः कुरुकुलोद्वह ।
न तृष्यामीह राजेन्द्र शृण्वन्नमृतमीदृशम् ॥
भीष्म उवाच ।
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।
वसिष्ठस्य च संवादं करालजनकस्य च ॥
वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम् ।
पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ॥
परमध्यात्मकुशलमध्यात्मगतिनिश्चयम् ।
मैत्रावरुणिमासीनमभिवाद्य कृताञ्जलिः ॥
स्वक्षरं प्रश्रितं वाक्यं मधुरं चाप्यनुल्वणम् ।
पप्रच्छर्षिवरं राजा करालजनकः पुरा ॥
भगवञ्श्रोतुमिच्छामि परं ब्रह्म सनातनम् ।
यस्मान्न पुनरावृत्तिमाप्नुवन्ति मनीषिणः ॥
यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत् ।
यच्चाक्षरमिति प्रोक्तं शिवं क्षेम्यमनामयम् ॥
वसिष्ठ उवाच ।
श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् ।
यन्न क्षरति पूर्वेण यावत्कालेन चाप्यथ ॥
युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्युगम् ।
दशकल्पशतावृत्तमहस्तद्ब्राह्ममुच्यते ॥
रात्रिश्चैतावती राजन्यस्यान्ते प्रतिबुध्यते ।
सृजत्यनन्तकर्माणं महान्तं भूतमग्रजम् ॥
मूर्तिमन्तममूर्तात्मा विश्वं शंभुः स्वयंभुवम् ।
अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम् ॥
सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥
हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः ।
महानिति च योगेषु विरिञ्चिरिति चाप्यजः ॥
साङ्ख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः ।
विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः ॥
वृतं नैकात्मकं येन कृतं त्रैलोक्यमात्मना ।
तथैव बहुरूपत्वाद्विश्वरूप इति स्मृतः ॥
एष वै विक्रियापन्नः सृजत्यात्मानमात्मना ।
अहंकारं महातेजाः प्रजापतिरंकृतम् ॥
अव्यक्ताद्व्यक्तमापन्नं विद्यासर्गं वदन्ति तम् ।
महान्तं चाप्यहंकारमविद्यासर्गमेव च ॥
अपरश्च परश्चैव समुत्पन्नौ तथैकतः ।
विद्याविद्येति विख्याते श्रुतिशास्त्रार्थचिन्तकैः ॥
भूतसर्गमहंकारात्तृतीयं विद्धि पार्थिव ।
अहंकारेषु सर्वेषु चतुर्थं विद्धि वैकृतम् ॥
वायुर्ज्योतिरथाकाशमापोऽथ पृथिवी तथा ।
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ॥
एवं युगपदुत्पन्नं दशवर्गमसंशयम् ।
पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थवत् ॥
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम् ।
वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ॥
बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च ।
संभूतानीह युगपन्मनसा सह पार्थिव ॥
एषा तत्त्वचतुर्विशत्सर्वाकृतिषु वर्तते ।
यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः ॥
एतद्देहं समाख्यानं त्रैलोक्ये सर्वदेहिषु ।
वेदितव्यं नरश्रेष्ठ सदेवनरदानवे ॥
सयक्षभूतगन्धर्वे सकिन्नरमहोरगे ।
सचारणपिशाचे वै सदेवर्षिनिशाचरे ॥
सदंशकीटमशक्रे सपूतिकृमिमूषिके ।
शुनि श्वपाके चैणेये सचाण्डाले सपुल्कसे ॥
हस्त्यश्वखरशार्दूले सवृके गवि चैव ह ।
यच्च मूर्तिमयं किचित्सर्वत्रैतन्निदर्शनम् ॥
जले भुवि तथाऽऽकाशे नान्यत्रेति विनिश्चयः ।
स्थानं देहवतामस्ति इत्येवमनुशुश्रुम ॥
कृत्स्नमेतावतस्तात क्षरते व्यक्तसंज्ञितम् ।
अहन्यहनि भूतात्मा ततः क्षर इति स्मृतः ॥
एतद्धि क्षरमित्युक्तं क्षरतीदं यथा जगत् ।
जगन्मोहात्मकं प्राहुरव्यक्तं व्यक्तसंज्ञकम् ॥
महांश्चैवाग्रजो नित्यमेतत्क्षरनिदर्शनम् ।
कथितं ते महाराजन्यस्मान्नावर्तते पुनः ॥
पञ्चर्विशतिमो विष्णुर्निस्तत्त्वस्तत्त्वसंज्ञितः ।
तत्त्वसंश्रयणादेतत्तत्वमाहुर्मनीषिणः ॥
यन्मर्त्यमसृजद्व्यक्तं तत्तन्मूर्त्यधितिष्ठति ।
चतुर्विशतिमोऽव्यक्तो ह्यमूर्तः पञ्चविंशकः ॥
स एव हृदि सर्वासु मूर्तिष्वात्मावतिष्ठते ।
चेतयंश्चेतनान्नित्यं सर्वमूर्तिरमूर्तिमान् ॥
सर्वप्रत्ययधर्मिण्यां स सर्गः प्रत्ययात्मकः ।
गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञिते ॥
एवमेष महानात्मा सर्गप्रलयकोविदः ।
विकुर्वाणः प्रकृतिमानभिमन्यत्यबुद्धिमान् ॥
तमः सत्वरजोयुक्तस्तासु तास्विह योनिषु ।
लीयते प्रतिबुद्धत्वादबुद्धजनसेवनात् ॥
सहवासनिवासात्मा नान्योऽहमिति मन्यते ।
योऽहं सोहमिति ह्युक्त्वा गुणानेवानुवर्तते ॥
तमसा तामसान्भावान्विविधान्प्रतिपद्यते ।
रजसा राजसांश्चैव सात्विकान्सत्वसंश्रयात् ॥
शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु ।
सर्वाण्येतानि रूपाणि यानीह प्राकृतानि वै ॥
तामसा निरयं यान्ति राजसा मानुपानथ ।
सात्विका देवलोकाय गच्छन्ति सुखभागिनः ॥
निष्कैवल्येन पापेन तिर्यग्योनिमवाप्नुयात् ।
पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः ॥
एवमव्यक्तविषयं क्षरमाहुर्मनीषिणः ।
पञ्चविंशतिमो योऽयं ज्ञानादेव प्रवर्तते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टाधिकत्रिशततमोऽध्यायः ॥ 308 ॥

12-308-5 ज्ञानद्रव्येण दीप्यस इति ड. ध. पाठः ॥ 12-308-7 करालनामाजनकः करालजनकस्तस्य । एतत्ते वर्तयिष्यामीति ट. ड. थ. पाठः ॥ 12-308-9 कुशलं ऊहापोहसमर्थम् । गतिरनुभवस्तेन निश्चयोऽस्यास्तीति तथा । मैत्रावरुणिं वसिष्ठम् ॥ 12-308-22 महतश्चाप्यहंकारमिति ड. ध. पाठः ॥ 12-308-23 अबिधिश्च विधिश्चैवेति झ. पाठः । श्रुतिश्चाध्यात्मचिन्तकैरिति ड. थ.ध. पाठ ॥ 12-308-37 एतत्क्षेत्रनिदर्शनमिति ट. ड. ध. पाठः ॥ 12-308-39 यां तु मूर्ति सृजत्येषा तां मूर्तिमधितिष्ठतीति ट. पाठः ॥ 12-308-41 सर्गप्रलयधर्मिण्या ससर्गप्रलयात्मक इति झ. पाठः ॥ 12-308-42 सर्गप्रत्ययकोविद इति ट. ध. पाठः । अक्षरः क्षरमात्मानमभिमज्जत्यबुद्धिमानिति थ. पाठः ॥ 12-308-44 सहवासविनाशित्वान्नान्योऽहमिति झ. पाठः ॥ 12-308-46 जातानि प्राकृतानि वै इति ड. थ. पाठः । जानीहि प्राकृतानि वै इति ध. पाठः ॥