अध्यायः 309

भीष्मेण युधिष्ठिरंप्रति जीवानामज्ञाननिमित्तकानर्थप्राप्त्यादिप्रतिपादकवसिष्ठकरालजनकसंवादानुवादः ॥ 1 ॥

वसिष्ठ उवाच ।
एवमप्रतिबुद्धत्वादबुद्धमनुवर्तनात् ।
देहाद्देहसहस्राणि तथा समभिपद्यते ॥
तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि ।
उपपद्यति संयोगाद्गुणैः सह गुणक्षयात् ॥
मानुषत्वाद्दिवं याति दिवो मानुष्यमेति च ।
मानुष्यान्निरयस्थानमनन्तं प्रतिपद्यते ॥
कोशकारो यथाऽऽत्मानं कीटः समनुरुन्धति ।
सूत्रतन्तुगुणैर्नित्यं तथाऽयमगुणो गुणैः ॥
द्वन्द्वमेति च निर्द्वन्द्वस्तासु तास्विह योनिषु ।
शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे ॥
जलोदरे तृषारोगे ज्वरगण्डे विषूचके ।
श्वित्रकुष्ठेऽग्निदग्धे च सिध्मापस्मारयोरपि ॥
यानि चान्यानि द्वन्द्वानि प्राकृतानि शरीरिषु ।
उत्पद्यन्ते विचित्राणि तान्येषोऽप्यभिमन्यते ॥
अभिमन्यत्यभीमानात्तथैव सुकृतान्यपि ॥
शुक्लवासाश्च दुर्वासाः शायी नित्यमधस्तथा ।
मण्डूकशायी च तथा वीरासनगतस्तथा ॥
चीरधारणमाकाशे शयनं स्थानमेव च ।
इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा ॥
भस्मप्रस्तरशायी च भूमिशय्याऽनुलेपनः ।
वीरस्थानाम्बुपङ्के च शयनं फलकेषु च ॥
विविधासु च शय्यासु फलगृद्ध्यान्वितस्तथा ।
मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च ॥
शणवालपरीधानो व्याघ्रचर्मपरिच्छदः ।
सिंहतचर्मपरीधानः पट्टवासास्तथैव च ॥
फलकपरिधानश्च तथा कण्टकवस्रधृत् ।
कीटकार्पासवसनश्चीरवासास्तथैव च ॥
वस्राणि चान्यानि बहून्यभिमन्यत्यबुद्धिमान् ।
भोजनानि विचित्राणि रत्नानि विविधानि च ॥
एकवस्रान्तराशित्वमेककालिकभोजनम् ।
चतुर्थाष्टमकालश्च षष्ठकालिक एव च ॥
ष़ड्रात्रभोजनश्चैव तथैवाष्टाहभोजनः ।
सप्तरात्रदशाहारो द्वादशाहिकभोजनः ॥
मासोपवासी मूलाशी फलाहारस्तथैव च ।
वायुभक्षोऽम्बुपिण्याकदधिगोमयभोजनः ॥
गोमूत्रभोजनश्चैव शाकपुष्पाद एव च ।
शेवालभोजनश्चैव तथाऽऽचामेन वर्तयन् ॥
वर्तयञ्शीर्णपर्मैश्च प्रकीर्णफलभोजनः ।
विविधानि च कृच्छ्राणि सेवते सिद्धिकाङ्क्षया ॥
चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च ।
चातुराश्रम्यपन्थानमाश्रयत्यपथानपि ॥
उपाश्रमानप्यपरान्पाषण्डान्विविधानपि ।
विविक्ताश्च शिलाच्छायास्तथा प्रस्रवणानि च ॥
पुलिनानि विविक्तानि विविक्तानि वनानि च ।
देवस्थानानि पुण्यानि विविक्तानि सरांसि च ॥
विविक्ताश्चापि शैलानां गुहा गृहनिभोपमाः ।
विविक्तानि च जप्यानि व्रतानि विविधानि च ॥
नियमान्विविधांश्चापि विविधानि तपांसि च ।
यज्ञांश्च विविधाकारान्विधींश्च विविधांस्तथा ॥
वणिक्पथं द्विजक्षत्रं वैश्यं शूद्रांस्तथैव च ।
दानं च विविधाकारं दीनान्धकृपणादिषु ॥
अभिमन्यत्यसंबोधात्तथैव त्रिविधान्गुणान् ।
सत्वं रजस्तमश्चैव धर्मार्थौ काम एव च ॥
प्रकृत्याऽऽत्मानमेवात्मा एवं प्रवि भजत्युत ।
स्वधाकारवषट््कारौ स्वाहाकारनमस्क्रियाः ॥
याजनाध्यापनं दानं तथैवाहुः प्रतिग्रहम् ।
यजनाध्ययने चैव यच्चान्यदपि किंचन ॥
जन्ममृत्युविवादे च तथा विशसनेऽपि च ।
शुभाशुभमयं सर्वमेतदाहुः क्रियाफलम् ॥
प्रकृतिः कुरुते देवी भवं प्रलयमेव च ।
दिवसान्ते गुणानेतानभ्येत्यैकोऽवतिष्ठते ॥
रश्मिजालमिवादित्यस्तत्तत्काले नियच्छति ।
एवमेषोऽसकृत्सर्वं क्रीडार्थमभिमन्यते ॥
आत्मरूपगुणानेतान्विविधान्हृदयप्रियान् ।
एवमेव विकुर्वाणः सर्गप्रलयधर्मिणी ॥
क्रियां क्रियापथे रक्तस्त्रिगुणांस्त्रिगुणाधिपः ।
क्रियां क्रियापथोपेतस्तथा तदभिमन्यते ॥
प्रकृत्या सर्वमेवेदं जगदन्धीकृतं विभो ।
रजसा तमसा चैव व्याप्तं सर्वमनेकधा ॥
एवं द्वन्द्वान्यथैतानि वर्तन्ते मयि नित्यशः ।
ममैवैतानि जायन्ते धावन्ते तानि मामिति ॥
निस्तर्तव्यान्यथैतानि सर्वाणीति नराधिप ।
मन्यतेऽयं ह्यबुद्धित्वात्तथैव सुकृतान्यपि ॥
भोक्तव्यानि मयैतानि देवलोकगतेन वै ।
इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम् ॥
पुण्यमेव तु कर्तव्यं तत्कुत्वा सुसुखं मम ।
यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति ॥
भविष्यति च मे दुःखं कृतेनेहाप्यनन्तकम् ।
महद्दुःखं हि मानुष्यं निरये चापि मज्जनम् ॥
निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः ।
मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः ॥
मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति ।
य एवं वेत्ति नित्यं वै निरात्मात्मगुणैर्वृतः ॥
तेन देवमनुष्येषु निरये चोपपद्यते ।
ममत्वेनावृतो नित्यं तत्रैव परिवर्तते ॥
सर्गकोटिसहस्राणि मरणान्तासु योनिषु ।
य एवं कुरुते कर्म शुभाशुभफलात्मकम् ॥
स एवं फलमाप्नोति त्रिषु लोकेषु मूर्तिमान् । प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम् ।
प्रकृतिश्च तदश्नाति त्रिषु लोकेषु कामगा ॥
तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च ।
त्रीणि स्थानानि चैतानि जानीयात्प्राकृतानिह ॥
अलिङ्गां प्रकृतिं त्वाहुर्लिङ्गैरनुमिमीमहे ।
तथैव पौरुषं लिङ्गमनुमानाद्धि गम्यते ॥
स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम् ।
व्रणद्वाराण्यधिष्ठाय कर्मणाऽऽत्मनि पश्यति ॥
श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाण्यथ ।
वागादीनि प्रवर्तन्ते गुणेष्विह गुणैः सह ॥
अहमेतानि वै सर्वं मय्येतानीन्द्रियाणि ह ।
निरिन्द्रियो हि मन्तेत व्रणवानस्मि निर्व्रणः ॥
अलिङ्गो लिङ्गमात्मानमकालः कालमात्मनः ।
असत्वं सत्वमात्मानमतत्त्वं तत्त्वमात्मनः ॥
अमृत्युर्मृत्युमात्मानमचरश्चरमात्मनः ।
अक्षेत्रः क्षेत्रमात्मानमसर्गः सर्गमात्मनः ॥
अतपास्तप आत्मानमगतिर्गतिमात्मनः ।
अभवो भवमात्मानमभयो भयमात्मनः ॥
`अकर्ता कर्तृ चात्मानमबीजो बीजमात्मनः ।' अक्षरः क्षरमात्मानमबुद्धिस्त्वभिमन्यते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नवाधिकत्रिशततमोऽध्यायः ॥ 309 ॥

12-309-1 अबुद्धमनुवर्तत इति झ. ट. पाठः । अबुद्धं अबोधं अज्ञानम् । भावे निष्ठा न तेन नञ््समासः ॥ 12-309-2 गुणक्षयात् गुणसामर्थ्यात् । क्षि क्षयैश्वर्ययोरित्यैश्वर्यार्थस्य क्षिधातो रूपम् ॥ 12-309-6 यक्ष्मापस्मारयोरपि इति ध. पाठः ॥ 12-309-7 तान्येषोऽप्यभिपद्यते इति ध. पाठः ॥ 12-309-9 मण्डूकवत्पाणिपादं संकोच्यन्युब्जः शेते इति मण्डूकशायी ॥ 12-309-10 आकाशे निरावरणेदेशे ॥ 12-309-12 फलगृद्ध्या फलाशा ॥ 12-309-13 शाणीवालपरीधान इति झ. पाठः ॥ 12-309-14 फलकं भूर्जत्वगादि ॥ 12-309-19 आचामेन भक्तमण्डेन ॥ 12-309-24 गृहेषु ये निभाः नितरां भान्ति ते । दिव्यगृहोपमा इत्यर्थः ॥ 12-309-30 विशसने संग्रामे ॥ 12-309-31 भवं सृष्टिम् । अभ्येत्य ग्रसित्वा ॥ 12-309-34 क्रियापये कर्ममार्गे ॥ 12-309-39 यावद्दानस्य मे सौख्यं इति ट. ड. थ. पाठः ॥ 12-309-51 अगतिर्गतिमात्मन इति ध. पाठः ॥