अध्यायः 310

भीष्मेण युधिष्ठिरंप्रति प्राणिनां शरीरादिसंबन्धादिप्रकारप्रतिपादकवसिष्ठकरालजनकसंवादानुवादः ॥ 1 ॥

वसिष्ठ उवाच ।
एवमप्रतिबुद्धत्वादबुद्धजनसेवनात् ।
सर्गकोटिसहस्राणि मरणान्तानि गच्छति ॥
धाम्ना धामसहस्राणि पतनान्तानि गच्छति ।
तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च ॥
चन्द्रमा इव भूतानां पुनस्तत्र सहस्रशः ।
लीयतेऽप्रतिबुद्धत्वादेवमेष ह्यबुद्धिमान् ॥
कला पञ्चदशी योनिस्तद्धाम इति मन्यते ।
नित्यमेतं विजानीहि सोमं वै षौडशीं कलाम् ॥
कलया जायते जन्तुः पुनः पुनरबुद्धिमान् ।
धाम तस्योपयुञ्जन्ति भूय एवोपजायते ॥
षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् ।
न तूपयुज्यते देवैर्देवानुपयुनक्ति सा ॥
एतामक्षपयित्वा हि जायते नृपसत्तम ।
सा ह्यस्य प्रकृतिर्दृष्टा तत्क्षयान्मोक्ष उच्यते ॥
तदेवं षोडशकलं देहमव्यक्तसंज्ञिकम् ।
ममायमिति मन्वानस्तत्रैव परिवर्तते ॥
पञ्चविंशस्तथैवात्मा तस्यैवाप्रतिबोधनात् ।
विमलश्च विशुद्धश्च शुद्धामलनिषेवणात् ॥
अशुद्ध एव शुद्धात्मा तादृग्भवति पार्थिव ।
अबुद्धसेवनाच्चापि बुद्धोऽप्यबुद्धतां व्रजेत् ॥
तथैवाप्रतिबुद्धोऽपि विज्ञेयो नृपसत्तम ।
प्रकृतेस्त्रिगुणायास्तु सेवनात्प्राकृतो भवेत् ॥
करालजनक उवाच ।
अक्षरक्षरयोरेषु द्वयोः संबन्ध उच्यते ।
स्त्रीपुंसोश्चापि भगवन्संबन्धस्तद्वदुच्यते ॥
ऋते तु पुरुषं नेह स्त्री गर्भं धारयत्युत ।
ऋते स्त्रियं न पुरुषो रूपं निर्वर्तयेत्तथा ॥
अन्योन्यस्याभिसंबन्धादन्योन्यगुणसंश्रयात् ।
रूपं निर्वर्तयत्येतदेवं सर्वासु योनिषु ॥
स्त्रीपुंसोरभिसंबन्धादन्योन्यगुणसंश्रयात् ।
ऋतौ निर्वर्त्यते रूपं तद्वक्ष्यामि निदर्शनम् ॥
ये गुणाः पुरुषस्येह ये च मातृगुणास्तथा ।
अस्थि स्नायु च मज्जानं जानीमः पैतृकान्द्विज ॥
त्वङ्भांसं शोणितं चेति मातृजान्यपि शुश्रुम ।
एवमेताद्द्विजश्रेष्ठ वेदे शास्त्रे च पठ्यते ॥
प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते ।
वेदशास्त्रप्रमाणानां प्रमाणं तत्सनातनम् ॥
[अन्योन्यगुणसंरोधादन्योन्यगुणसंश्रयात् ।] एवमेवाभिसंबद्धौ नित्यं प्रकृतिपूरुषौ ॥
पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते । अथवाऽनन्तरकृतं किंचिदेव निदर्शनम् ।
तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वथा ॥
मोक्षकामा वयं चापि काङ्क्षामो यदनामयम् ।
अदेहमजरं नित्यमतीन्द्रियमनीश्वरम् ॥
वसिष्ठ उवाच ।
यदेतदुक्तं भवता देवशास्त्रनिदर्शनम् ।
एवमेतद्यथा चैतन्न गृह्णाति तथा भवान् ॥
धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः ।
न च ग्रन्थस्य तत्त्वज्ञो यथावत्त्वं नरेश्वरः ॥
यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः ।
न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्वारणं वृथा ॥
मारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः ।
यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थगुणो वृथा ॥
ग्रन्थस्यार्थस्य पृष्टः संस्तादृशो वक्तुमर्हति ।
यथातत्त्वाभिगमनादर्थं तस्य स विन्दति ॥
वस्तु संसत्सु कथयेद्ग्रन्थार्थस्थूलबुद्धिमान् ।
स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥
निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः ।
सोपहास्यात्मतामेति यस्माच्चावाप्तवानपि ॥
तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते ।
याथातथ्येन साङ्ख्येषु योगेषउ च महात्मसु ॥
यदेव योगाः पश्यन्ति साङ्ख्यैस्तदवगम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स बुद्धिमान् ॥
त्वङ्भांसं रुघिरं मेदः पित्तं मज्जा च स्नायु च ।
एतदैन्द्रियकं तात तद्भवानिदमाह माम् ॥
द्रव्याद्द्रव्यस्य निर्वृत्तिरिन्द्रियादिन्द्रियं तथा ।
देहाद्देहमवाप्नोति बीजाद्वीजं तथैव च ॥
निरिन्द्रियस्याबीजस्य निर्द्रव्यस्याप्यदेहिनः ।
कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः ॥
गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च ।
एवं गुणाः प्रकृतितो जायन्ते निविशन्ति च ॥
त्वङ्भांसं रुधिरं मेदः पित्तं मज्जाऽस्थि स्नायु च ।
अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतानि वै ॥
पुमांश्चैवापुमांश्चैव त्रैलिङ्ग्यं प्राकृतं स्मृतम् ।
न वा पुमान्पुमांश्चैव स लिङ्गीत्यभिधीयते ॥
अलिङ्गात्प्रकृतिर्लिङ्गैरुपालभ्यति सात्मजैः ।
यथा पुष्पफलैर्नित्यमृतवो मूर्तयस्तथा ॥
एवमप्यनुमानेन ह्यलिङ्गमुपलभ्यते ।
पञ्चविंशतिमस्तात लिङ्गेषु नियतात्मकः ॥
अनादिनिधनोऽनन्तः सर्वदर्शी निरामयः ।
केवलं त्वभिमानित्वादगुणेष्वगुणा उच्यते ॥
गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः ।
तस्मादेवं विजानन्ति ये जना गुणदर्शिनः ॥
यदा त्वेष गुणनिव प्रकृतावनुमन्यते ।
तदा स गुणवानेव परमं नानुपश्यति ॥
यत्तं बुद्धेः परं प्राहुः साङ्ख्ययोगाश्च सर्वशः ।
बुध्यमानं महाप्राज्ञमबुद्धपरिवर्जनात् ॥
अप्रबुद्धमथाव्यक्तं गुणं प्राहुरनीश्वरम् ।
निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च ॥
प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः ।
साङ्ख्ययोगे च कुशला बुध्यन्ते परमैषिणः ॥
यदा प्रबुद्धास्त्वव्यक्तमवस्थाजन्मभीरवः ।
बुध्यमानं प्रबुद्धेन गमयन्ति समन्ततः ॥
एतन्निदर्शनं सम्यगसम्यक्चार्थदर्शनम् ।
बुध्यमानाप्रबुद्धाना पृथग्पृथगरिंदम् ॥
परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम् ।
एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते ॥
पञ्चविंशतिनिष्ठोऽयं यदा सम्यक्प्रचक्षते ।
एकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम् ॥
तत्त्वनिस्तत्त्वयोरेतत्पृथग्नेव निदर्शनम् ।
पञ्चविंशतितत्वं तु तत्त्वमाहुर्मनीषिणः ॥
निस्तत्त्वं पञ्चविंशस्य परमाहुर्निदर्शनम् ।
वर्गस्य वर्गमाचारं तत्त्वं तत्त्वात्सनातनम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि दशाधिकत्रिशततमोऽध्यायः ॥ 310 ॥

12-310-9 तस्यैव प्रतिसाधनात् इति ट. थ. पाठः ॥ 12-310-11 तथैव प्रतिबुद्धोऽपीति थ. ध. पाठः ॥ 12-310-15 रत्यर्थमभिसंबन्धादिति ट. पाठः ॥ 12-310-27 न यः संसत्स्विति झ. पाठः ॥ 12-310-28 यस्माच्चैवात्मवानपीति झ. पाठः ॥ 12-310-29 योगेशेषु मह्यत्मस्विति ध. पाठः ॥ 12-310-33 निरिन्द्रियस्य बीजस्येति ट. ड. थ. पाठः ॥ 12-310-36 स्त्रीलिङ्गं माकृतं स्मृतमिति ड. थ. पाठः ॥ 12-310-42 यं तु बुद्धेः परं इति ट. पाठः । यत्तद्बुद्धेरिति झ. पाठः ॥ 12-310-43 सगुणं प्राहुरीश्वरमिति ट. पाठः । अगुणं प्राहुरिति झ. पाठः ॥ 12-310-46 असत्यत्वार्थदर्शनमिति ड.पाठः । असक्त्वार्थदर्शनमिति ट. थ. पाठः ॥ 12-310-49 पञ्चविंशतिकत्वं तु इति ट. पाठः । पञ्चविंशतिसर्गं तु इति झ. पाठः ॥