अध्यायः 312

भीष्मेण युधिष्ठिरंप्रति विद्याऽविद्यादिप्रतिपादकवसिष्ठकरालजनकसंवादानुवादः ॥ 1 ॥

वसिष्ठ उवाच ।
साङ्ख्यदर्शनमेतावदुक्तं ते नृपसत्तम् ।
विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः ॥
अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मिणीम् ।
सर्गप्रलयनिर्मुक्तो विद्यो वै पञ्चविंशकः ॥
`एकत्वं च बहुत्वं च प्रकृतेरनु तत्त्ववित् ।' परस्परं तु विद्यां वै त्वं निबोधानुपूर्वशः ।
यथोक्तमृषिभिस्तात साङ्ख्यस्यास्य निदर्शनम् ॥
कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् ।
बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम् ॥
विशेषाणां मनस्तेषां विद्यामाहुर्मनीषिणः ।
मनसः पञ्चभूतानि विद्या इत्यभिचक्षते ॥
अहंकारस्तु भूतानां पञ्चानां नात्र संशयः ।
अहंकारस्य च तथा बुद्धिर्विद्या नरेश्वर ॥
बुद्धेः प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरम् ।
विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः ॥
अव्यक्तस्य परं प्राहुर्विद्यां वै पञ्चविंशकम् ।
सर्वस्य सर्वमित्युक्तं ज्ञेयं ज्ञानस्य पार्थिव ॥
ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः ।
तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशक ॥
विद्याविद्यार्थितत्त्वेन मयोक्ता ते विशेषतः ।
अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे ॥
उभावेतौ क्षरावुक्तावुभावेतौ क्षराक्षरौ ।
कारणं तु प्रवक्ष्यामि यथाख्यातो न जानतः ॥
अनादिनिधनावेतावुभावेवेश्वरौ मतौ ।
तत्त्वसंज्ञावुभावेतौ प्रोच्यते ज्ञानचिन्तकैः ॥
सर्गप्रलयधर्मत्वादव्यक्तं प्राहुरक्षरम् ।
तदेतद्गुणसर्गाय विकुर्वाणं पुनःपुनः ॥
गुणानां महदादीनामुत्पद्यन्ते परम्पराः ।
अधिष्ठानं क्षेत्रमाहुरेतत्तत्पञ्चविंशकम् ॥
यदा तु गुणजालं तदव्यक्तात्मनि संक्षिपेत् ।
तदा सह गुणैस्तैस्तु पञ्चविंशो विलीयते ॥
गुणा गुणेषु लीयन्ते तदैका प्रकृतिर्भवेत् ।
क्षेत्रज्ञोऽपि यदा तात तत्क्षेत्रे संप्रलीयते ॥
तदाऽक्षरत्वं प्रकृतिर्गच्छते गुणसंज्ञिता ।
निर्गुणत्वं च वैदेह गुणेष्वप्रतिवर्तनात् ॥
एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षयात् ।
प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम ॥
क्षरो भवत्येष यदा तदा गुणवती मिथः ।
प्रकृतिं त्विभजानाति निर्गुणत्वं तथाऽऽत्मनः ॥
तदा विशुद्धो भवति प्रकृतेः परिवर्जनात् ।
अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान् ॥
तदैषा त्वन्यतामेति न च मिश्रत्वतां व्रजेत् ।
प्रकृत्या चैव राजेन्द्र मिश्रोऽनन्यश्च दृश्यते ॥
यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते ।
पश्यते चापरं पश्यं तदा पश्यन्न संस्वजेत् ॥
किमहं कृतवानेवं योहं कालमिमं जनम् । `यदा मत्स्योदकं ज्ञानमनुवर्तितवांस्तदा ।'
मत्स्यो जालं ह्यविज्ञानादनुवर्तितवानिह ॥
अहमेव हि संमोहादन्यमन्यं जनाज्जनम् ।
मत्स्यो यथोदकज्ञानादनुवर्तितवानहम् ॥
मत्स्योऽन्यत्वं यथा ज्ञानादुदकान्नाभिमन्यते ।
आत्मानं तद्वदज्ञानादन्यत्वं चैव वेदयहम् ॥
ममास्तु धिगबुद्धस्य योऽहमज्ञ इमं पुनः ।
अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम् ॥
अयमत्र भेवद्बन्धुरनेन सह मे क्षमम् ।
साम्यमेकत्वतां यास्ये यादृशस्तादृशस्त्वहम् ॥
तुल्यतामिह पश्यामि सदृशोऽहमनेन वै ।
अयं हि विमलोऽव्यक्तमहमीदृशकस्तथा ॥
योऽहमज्ञानसंमोहादज्ञया संप्रवृत्तवान् ।
ससङ्गयाऽहं निःसङ्गः स्थितः कालमिमं त्वहम् ॥
अनयाऽहं वशीभूतः कालमेतं न बुद्धवान् ।
उच्चमध्यमनीचानां तामहं कथमावसे ॥
समानया न याचेह सहवासमहं कथम् ।
गच्छाम्यबुद्धभावत्वादेषेदानीं स्थिरो भवे ॥
सहवासं न यास्यामि कालमेतद्धि वञ्चनात् ।
वञ्चितोस्म्यनया यद्धि निर्विकारो विकारया ॥
न चायमपराधोऽस्या ह्यपराधो ह्ययं मम ।
योऽहमत्राभवं सक्तः पराङ्भुखमुपस्थितः ॥
ततोस्मि बहुरूपासु स्थितो मूर्तिष्वमूर्तिमान् ।
अमूर्तश्चापि मूर्तात्मा ममत्वेन प्रधर्षितः ॥
प्रकृतेरनयत्वेन तासु तास्विह योनिषु ।
निर्ममस्य ममत्वेन किं कृतं तासु तासु च ॥
योनीषु वर्तमानेन नष्टसंज्ञेन चेतसा ।
न ममात्रानया कार्यमहंकारकृतात्मना ॥
आत्मानं बहुधा कृत्वा येयं भूयो युनक्ति माम् ।
इदानीमेष बुद्धोस्मि निर्ममो निरहंकृतः ॥
ममत्वमनया नित्यमहंकारकृतात्मकम् ।
अपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम् ॥
अनेन साम्यं यास्यामि नानयाऽहमचेतसा ।
क्षणं मम सहानेन नैकत्वमनया सह ॥
एवं परमसंबोधात्पञ्चविंशोऽनुबुद्धवान् ।
अक्षरत्वं नियच्छेत त्यक्त्वा क्षरमनामयम् ॥
अव्यक्तं व्यक्तकर्माणं सगुणं निर्गुणं तथा ।
निर्गुणं परमं दृष्ट्वा तादृग्भवति मैथिल ॥
अक्षरक्षरयोरेतदुक्तं तत्वनिदर्शनम् ।
मयेह ज्ञानसंपन्नं यथाश्रूतिनिदर्शनात् ॥
निःसंदिग्धं च सूक्ष्मं च विबुद्धं विमलं यथा ।
प्रवक्ष्यामि तुते भूयस्तन्निबोध यथाश्रुतम् ॥
साङ्ख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात् ।
यदेव शास्त्रं साङ्ख्योक्तं योगदर्शनमेव तत् ॥
प्रबोधनकरं ज्ञानं साङ्ख्यानामवनीपते ।
विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया ॥
पृथक्चैवमिदं शास्त्रमित्याहुः कुशला जनाः ।
अस्मिंश्च शास्त्रे योगानां पुनर्दधि पुनः शरः ॥
पञ्चविंशात्परं तत्त्वं न पश्यति नराधिप ।
साङ्ख्यानां तु परं तत्त्वं यथावदनुवर्णितम् ॥
बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः ।
बुध्यमानं च बुद्धं च प्राहुर्योगनिदर्शनम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्वादशाधिकत्रिशततमोऽध्यायः ॥ 312 ॥

12-312-10 विद्याविद्यार्थतत्वेनेति ट. पाठः ॥ 12-312-14 अधिष्ठानं क्षेममाहुरिति ड. थ. पाठः ॥ 12-312-22 न संसृजेदिति ध. पाठः ॥ 12-312-25 उदकादभिमन्यत इति ट. ध. पाठः ॥ 12-312-35 प्राकृतेन ममत्वेनेति झ. पाठः ॥ 12-312-37 श्रेयो भूयो युनक्तिमामिति ध.पाठः ॥ 12-312-41 अव्यक्तं व्यक्तधर्माणमिति झ. पाठः ॥ 12-312-46 पुनर्वेदे पुरःसर इति झ. पाठः ॥ 12-312-47 पठ्यते न नराधिपेति झ. पाठः ॥