अध्यायः 325

भीष्मेण युधिष्ठिरंप्रति सुतभाजनकसंवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम ।
कः प्राप्तो भूपतिः सिद्धिं मोक्षतत्त्वं वदस्व मे ॥
संन्यस्यते यथाऽत्माऽयं व्यक्तस्यात्मा यथा च यत् ।
परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
जनकस्य च संवादं सुलभायाश्च भारत ॥
संन्यासफलिकः कश्चिद्बभूव नृपतिः पुरा ।
मैथिलो जनको नाम धर्मध्वज इति श्रुतः ॥
स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतश्रमः ।
इन्द्रियाणि समाधाय शशास वसुधामिमाम् ॥
तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम् ।
लोकेषु स्पृहयन्त्यन्ये पुरुषाः पुरुषेश्वरम् ॥
अथ धर्मयुगे तस्मिन्योगधर्ममनुष्ठिता ।
महीमनुचचारैका सुलभा नाम भिक्षुकी ॥
तया जगदिदं कृत्स्नमटन्त्या मिथिलेश्वरः ।
तत्रतत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः ॥
साऽतिसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया ।
दर्शने जातसंकल्पा जनकस्य बभूव ह ॥
तत्र सा विप्रहायाऽथ पूर्वरूपं हि योगतः ।
अबिभ्रदनवद्याङ्गी रूपमन्यदनुत्तमम् ॥
चक्षुनिंमेषमात्रेण लध्वस्त्रगतिगामिनी ।
विदेहानां पुरीं सुभ्रूर्जगाम कमलेक्षणा ॥
सा प्राप्य मिथिलां रम्यां समृद्धजनसंकुलाम् ।
भैक्ष्यचर्यापदेशेन ददर्श मिथिलेश्वरम् ॥
राजा तस्याः परं दृष्ट्वा सौकुमार्यं पुनस्तदा ।
केयं कस्य कुतो वेति बभूवागतविस्मयः ॥
ततोस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम् ।
पूजितां पादशौचेन वरान्नेनाप्यतर्पयत् ॥
अथ भुक्तवतीं प्रीतां राजा तां मन्त्रिभिर्वृतः ।
सर्वभाष्यविदां मध्ये चोदयामास भिक्षुकीम् ॥
सुलभा त्वस्य धर्मेषु मुक्तो नेति ससंशया ।
सत्वं सत्वेन योगज्ञा प्रविष्टाऽभून्महीपते ॥
नेत्राभ्यां नेत्रयोरस्य रश्मीन्संयोज्य रश्मिभिः ।
सा स्म तं चोदयिष्यन्ती योगबन्धैर्बबन्ध ह ॥
जनकोप्युत्स्मयन्राजा भावमस्या विशेषयन् ।
प्रतिजग्राह भावेन भावमस्या नृपोत्तम ॥
तदेकस्मिन्नधिष्ठाने संवादः श्रूतयामयम् ।
छत्रादिषु विमुक्तस्य मुक्तायाश्च त्रिदण्डकैः ॥
जनक उवाच ।
भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि ।
कस्य च त्वं कुतो वेति पप्रच्छैनां महिपतिः ॥
श्रुते वयसि जातौ च सद्भावो नाधिगम्यते ।
एष्वर्थेषूत्तरं तस्मात्प्रवेद्यं मत्समागमे ॥
छत्रादिषु विशेषेषु मुक्तं मां विद्धि तत्त्वतः ।
सत्वां संवेत्तुमिच्छामि मानार्हा हि मताऽसिमे ॥
यस्माच्चैतन्मया प्राप्तं ज्ञानं वैशेषिकं पुरा ।
यस्य नान्यः प्रवक्ताऽस्ति मोक्षे तमपि मे शृणु ॥
पराशरसगोत्रस्य वृद्धस्य सुमहात्मनः ।
भिक्षोः पञ्चशिखस्याहं शिष्यः परमसंमतः ॥
साङ्ख्यज्ञाने च योगे च महीपालविधौ तथा ।
त्रिविधे मोक्षधर्मोस्मिन्गताध्वा छिन्नसंशयः ॥
स यथा शास्त्रदृष्टेन मार्गेणेह परिभ्रमन् ।
वार्षिकांश्चतुरो मासान्पुरा मयि सुखोषितः ॥
तेनाहं साङ्ख्यमुख्येन सुदृष्टार्थेन तत्त्वतः ।
श्रावितस्त्रिविधं मोक्षं न च राज्याद्धि चालितः ॥
सोहं तामखिलां वृत्तिं त्रिविधां मोक्षसंहिताम् ।
मुक्तरागश्चराम्येकः पदे परमके स्थितः ॥
वैराग्यं पुनरेतस्य मोक्षस्य परमो विधिः ।
ज्ञानादेव च वैराग्यं जायते येन मुच्यते ॥
ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत् ।
महद्द्वन्द्वप्रमोक्षाय सा सिद्धिर्या वयोतिगा ॥
सेयं परमिका सिद्धिः प्राप्ता निर्द्वन्द्वता मया ।
इहैव गतमोहेन चरता मुक्तसङ्गिना ॥
यथा क्षेत्रं मृदुभूतमद्भिराप्लावितं तथा ।
जनयत्यङ्कुरं कर्म नृणां तद्वत्पुनर्भवम् ॥
यथा चोत्तापितं बीजं कपाले यत्रतत्र वा ।
प्राप्याप्यङ्कुरहेतुत्वमबीजत्वान्न जायते ॥
तद्वद्भगवताऽनेन शिखाप्रोक्तेन भिक्षुणा ।
ज्ञानं कृतमबीजं मे विषयेषु न जायते ॥
नामिरज्यति कस्मिंश्चिन्नानर्थे न परिग्रहे ।
नाभिरज्यति चैतेषु व्यर्थत्वाद्रागरोषयोः ॥
यश्च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत् ।
सव्यं वाऽस्यापि यस्तक्षेत्समावेतावुभौ मम ॥
सुखी सोऽहमवाप्तार्थः समलोष्टाश्मकाञ्चनः ।
मुक्तसङ्गः स्थितो राज्ये विशिष्टोऽन्यैस्त्रिदण्डिभिः ॥
मोक्षे हि त्रिविधा निष्ठा दृष्टाऽन्यैर्मोक्षवित्तमैः ।
ज्ञानं लोकोत्तरं यच्च सर्वत्यागश्च कर्मणाम् ॥
ज्ञाननिष्ठां वदन्त्येके मोक्षशास्त्रविदो जनाः ।
कर्मनिष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः ॥
प्रहायोभयमप्येव ज्ञानं कर्म च केवलम् ।
तृतीयेयं समाख्याता निष्ठा तेन महात्मना ॥
यमे च नियमे चैव कामे द्वेषे परिग्रहे ।
माने दम्भे तथा स्नेहे सदृशास्ते कुटुम्बिभिः ॥
त्रिदण्डादिषु यद्यस्ति मोक्षो ज्ञानेन केनचित् ।
छत्रादिषु कथं न स्यात्तुल्यहेतौ परिग्रहे ॥
येनयेन हि यस्यार्थः कारणेनेह कर्मणि ।
तत्तदालम्बते सर्वद्रव्ये स्वार्थपरिग्रहे ॥
दोषदर्शी तु गार्हस्थ्ये यो व्रजत्याश्रमान्तरे ।
उत्सृजन्परिगृह्णंश्च सोऽपि सङ्गान्न मुच्यते ॥
आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मके ।
राजभिर्भिक्षुकास्तुल्या मुच्यन्ते केन हेतुना ॥
अथ सत्याधिपत्येऽपि ज्ञानेनैवेह केवलम् ।
मुच्यन्ते किं न मुच्यन्ते पदे परमके स्थिताः ॥
काषायधारणं मौण्ड्यं त्रिविष्टब्धं कमण्डलुम् ।
लिङ्गान्युत्पथभूतानि न मोक्षायेति मे मतिः ॥
यदि सत्यपि लिङ्गेऽस्मिञ्ज्ञानमेवात्र कारणम् ।
निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम् ॥
अथवा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः ।
किं तदेवार्थसामान्यं छत्रादिषु न लक्ष्यते ॥
आकिञ्चन्ये न मोक्षोस्ति कैञ्चन्ये नास्ति बन्धनम् ।
कैञ्चन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते ॥
तस्माद्धर्मार्थकामेषु तथा राज्यपरिग्रहे ।
बन्धनायतनेष्वेषु विद्ध्यबन्धे पदे स्थितम् ॥
राज्यैश्वर्यमयः पाशः स्नेहायतनबन्धनः ।
मोक्षाश्मनिशितेनेह च्छिन्नस्त्यागासिना मया ॥
सोहमेवं गतो मुक्तो जातास्थस्त्वयि भिक्षुकि ।
अयथार्थं हि ते वर्णं वक्ष्यामि शृणु तन्मम ॥
सौकुमार्यं तथा रूपं वपुरग्र्यं तथा वयः ।
तवैतानि समस्तानि नियमश्चेति संशयः ॥
यच्चाप्यननुरूपं ते लिङ्गस्यास्य विचेष्टितम् ।
मुक्तोऽयं स्यान्न वेति स्याद्धर्षितो मत्परिग्रहः ॥
न च कामसमायुक्ते युक्तेऽप्यस्ति त्रिदण्डके ।
न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना ॥
मत्पक्षसंश्रयाच्चायं शृणु यस्ते व्यतिक्रमः ।
आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम् ॥
प्रवेशस्ते कृतः केन मम राष्ट्रे पुरेपि वा ।
कस्य वा सन्निकर्षात्त्वं प्रविष्टा हृदयं मम ॥
वर्णप्रवरमुख्याऽसि ब्राह्मणी क्षत्रियस्त्वहम् ।
नावयोरेकयोगोऽस्ति मा कृथा वर्णसंकरम् ॥
वर्तसे मोक्षधर्मेण त्वं गार्हस्थ्येऽहमाश्रमे ।
अयं चापि सुकष्टस्ते द्वितीयाश्रमसंकरः ॥
सगोत्रां वाऽसगोत्रां वा न वेद त्वां न वेत्थ माम् ।
सगोत्रमाविशन्त्यास्ते तृतीयो गोत्रसंकरः ॥
अथ जीवति ते भर्ता प्रोषितोप्यथवा क्वचित् ।
अगम्या परभार्येति चतुर्थो धर्मसंकरः ॥
सा त्वमेतान्यकार्याणि कार्यापेक्षा व्यवस्यसि ।
अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः ॥
अथवापि स्वतन्त्राऽसि स्वदोषेणेह केनचित् ।
यदि किंचिच्छ्रुतं तेऽस्ति सर्वं कृतमनर्थकम् ॥
इदमन्यत्तृतीयं ये भावस्पर्शविघातकम् ।
दुष्टायाऽलक्ष्यते लिङ्गं विवृण्वत्या प्रकाशितम् ॥
न मय्येवाभिसन्धिस्ते जयैषिण्या जये कृतः ।
येयं मत्परिषत्कृत्स्ना चेतुमिच्छसि तामपि ॥
तथाऽर्हतस्ततश्च त्वं दृष्टिं स्वां प्रतिमुञ्चसि ।
मत्पक्षप्रतिघाताय स्वपक्षोद्भवनाय च ॥
सा स्वेनामर्षजेन त्वमृद्धिमोहेन मोहिता ।
भूयः सृजसि योगांस्त्वं विषामृतमिवैकताम् ॥
इच्छतोरत्र यो लाभः स्त्रीपुंसोरमृतोपमः ।
अलाभश्चापि रक्तस्य सोपि दोषो विषोषमः ॥
मा त्याक्षीः साधु जानीष्व स्वशास्त्रमनुपालय ।
कृतेयं हि विजिज्ञासा मुक्तो नेति त्वया मम ॥
एतत्सर्वं प्रतिच्छन्नं मयि नार्हसि गूहितम् । सा यदि त्वं स्वकार्येण यद्यन्यस्य महीपतेः ।
तत्त्वमत्र प्रतिच्छन्ना मयि नार्हसि गूहितम् ॥
न राजानं मृषा गच्छेन्न द्विजातिं कथंचन ।
न स्त्रियं स्त्रीगुणोपेतां हन्युर्ह्येते मृषागताः ॥
राज्ञां हि बलमैश्वर्यं ब्रह्म ब्रह्मविदां बलम् ।
रूपयौवनसौभाग्यं स्त्रीणां बलमनुत्तमम् ॥
अत एतैर्बलैरेव बलिनः स्वार्थमिच्छता ।
आर्जवेनाभिगन्तव्या विनाशाय ह्यनार्जवम् ॥
सा त्वं जातिं श्रुतं वृत्तं भावं प्रकृतिमात्मनः ।
कृत्यमागमने चैव वक्तुमर्हसि तत्त्वतः ॥
भीष्म उवाच ।
इत्येतैरसुखैर्वाक्यैरयुक्तैरसमञ्जसैः ।
प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत ॥
उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना ।
ततश्चारुतरं वाक्यं प्रचक्रामाथ भाषितुम् ॥
सुलभोवाच ।
नवभिर्नवभिश्चैव दोषैर्वाग्बुद्धिदूषणैः ।
अपेतमुपपन्नार्थमष्टादशगुणान्वितम् ॥
सौक्ष्म्यं साङ्ख्यक्रमौ चोभौ निर्णयः सप्रयोजनः ।
पञ्चैतान्यर्थजातानि वाक्यमित्युच्यते नृप ॥
एषामेकैकशोऽर्थानां सौक्ष्म्यादीनां स्वलक्षणम् ।
शृणु संसार्यमाणानां पदार्थपदवाक्यतः ॥
ज्ञानं ज्ञेयेषु भिन्नेषु यदा भेदेन वर्तते ।
तत्रातिशयिनी बुद्धिस्तत्सौक्ष्म्यमिति वर्तते ॥
दोषाणां च गुणानां च प्रमाणं प्रविभागतः ।
कंचिदर्थमभिप्रेत्य सा सङ्ख्येत्युपधार्यताम् ॥
इदं पूर्वमिदं पश्चाद्वक्तव्यं यद्विवक्षितम् ।
क्रमयोगं तमप्याहुर्वाक्यं वाक्यविदो जनाः ॥
धर्मकामार्थमोक्षेषु प्रतिज्ञाय विशेषतः ।
इदं तदिति वाक्यान्ते प्रोच्यते स विनिर्णयः ॥
इच्छाद्वेषभवैर्दुःखैः प्रकर्षो यत्र जायते ।
तत्र या नृपते वृत्तिस्तत्प्रयोजनमिष्यते ॥
तान्येतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप ।
एकार्थसमवेतानि वाक्यं मम निशामय ॥
उपेतार्थमभिन्नार्थं न्यायवृत्तं न चाधिकम् ।
नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं ततः ॥
न गुर्वक्षरसंयुक्तं पराङ्युखपदं न च ।
नानृतं न त्रिवर्गेण विरुद्धं नाप्यसंस्कृतम् ॥
न न्यूनं नष्टशब्दं वा व्युत्क्रमाभिहितं न च ।
सदोषमभिकल्पेन निष्कारणमहेतुकम् ॥
कामात्क्रोधाद्भयाल्लोभाद्दैन्याच्चानार्थकात्तथा ।
ह्रीतोऽनुक्रोशतो मानान्न वक्ष्यामि कथंचन ॥
वक्ता श्रोता च वाक्यं च यदा त्वविकलं नृप ।
स ममेति विवक्षायां तदा सोर्थः प्रकाशते ॥
वक्तव्ये तु यदा वक्ता श्रोतारमवमन्यते ।
स्वार्थमाह परार्थं तत्तदा वाक्यं न रोहति ॥
अथ यः स्वार्थमुत्सृज्य परार्थं प्राह मानवः ।
विशङ्का जायते तस्मिन्वाक्यं तदपि दोषवत् ॥
यस्तु वक्ता द्वयोरर्थमविरुद्धं प्रभाषते ।
श्रोतुश्चैवात्मनश्चैव स वक्ता नेतरो नृप ॥
तदर्थवदिदं वाक्यमुपेतं वाक्यसंपदा ।
`अविक्षिप्तमना राजन्नेकाग्रः श्रोतुमर्हसि ॥
काऽसि कस्य कुतो वेति त्वयाऽहमिति चोदिता । तत्रोत्तरमिदं वाक्यं राजन्नेकमनाः शृणु ॥'
यथा जतु च काष्ठं च पांसवश्चोदबिन्दवः ।
सुश्लिष्टानि तथा राजन्प्राणिनामिह संभवः ॥
शब्दः स्पर्शो रसो रूपं गन्धः पञ्चेन्द्रियाणि च । पृथगात्मा दशात्मानं संश्लिष्टा जतुकाष्ठवत् ।
न चैषां चोदना काचिदस्तीत्येष विनिश्चयः ॥
एकैकस्येह विज्ञानं नास्त्यात्मनि तथा परे ।
न वेद चक्षुश्चक्षुष्ट्वं श्रोत्रं नात्मनि वर्तते ॥
तथैव व्यभिचारेण न वर्तन्ते परस्परम् ।
प्रश्लिष्टं च न जानन्ति यथाऽऽप इव पांवसः ॥
वाह्यानन्यानपेक्षन्ते गुणांस्तानपि मे शृणु ।
रूपं चक्षुः प्रकाशश्च दर्शने हेतवस्त्रयः ॥
यथैवात्र तथाऽन्येषु ज्ञानज्ञेयेषु हेतवः ।
ज्ञानज्ञेयांतरेतस्मिन्मनो नामापरो गुणः ॥
विचारयति येनायं निश्चये साध्वसाधुनी । द्वादशस्त्वपरस्तत्र बुद्धिर्नाम गुणः स्मृतः ।
येंन संशयपूर्वेषु बोद्धव्येषु व्यवस्यति ॥
अथ द्वादशके तस्मिन्सत्वं नामापरो गुणः ।
महासत्वोऽल्पसत्वो वा जन्तुयेनानुमीयते ॥
क्षेत्रज्ञ इति चाप्यन्यो गुणस्तत चतुर्दशः ।
ममायमिति येनायं मन्यते न ममेति च ॥
अथ पञ्चदशो राजन्गुणस्तत्रापरः स्मृतः ।
पृथक्कालसमूहस्य सामग्र्यं तदिहोच्यते ॥
गुणस्त्वेकोऽपरस्तत्र संघात इति षोडशः ।
आकृतिर्व्यक्तिरित्येतौ गुणो यस्मिन्समाश्रितौ ॥
सुखासुखे जन्ममृत्यू लाभालाभौ प्रियाप्रिये ।
इति चैकोनर्विशोऽयं द्वन्द्वयोग इति स्मृतः ॥
ऊर्ध्वमेकोनर्विशत्या कालो नामापरो गुणः ।
इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम् ॥
विंशकश्चैव संघातो महाभूतानि पञ्च च ।
सदसद्भवायोगौ तु गुणावन्यौ प्रकाशकौ ॥
इत्येवं विंशतिश्चैव गुणाः सप्त च ये स्मृताः ।
विधिः शुक्रं बलं चेति त्रय एते गुणाः परे ॥
एवं विंशच्च दश च कलाः संख्यानतः स्मृताः ।
समग्रा यत्र वर्तन्ते तच्छरीरमिति स्मृतम् ॥
अव्यक्तं प्रकृतिं त्वासां कलानां कश्चिदिच्छति ।
व्यक्तं चासां तथैवान्यः स्थूलदर्शी प्रपश्यति ॥
अव्यक्तं यदि वा व्यक्तं द्वयं वाऽथ चतुष्टयम् ।
प्रकृतिं सर्वभूतानां पश्यन्त्यध्यात्मचिन्तकाः ॥
सेयं प्रकृतिरव्यक्ता कलाभिर्व्यक्ततां गता । ततोऽहं त्वं च राजेन्द्र चे चाप्यन्ते शरीरिणः ।
विन्दुन्यासादयोऽवस्थाः शुक्रशोणितसंभवाः ।
यासामेव निपातेन कललं नाम जायते ॥
कललाद्बुद्बुदोत्पत्तिः पेशी वा बुद्बुदात्स्मृता ।
पेश्यास्त्वङ्गाभिनिर्वृत्तिर्नखरोमाणि चाङ्गतः ॥
संपूर्णे नवमे मासि जन्तोर्जातस्य मैथिल ।
जायते नामरूपत्वं स्त्रीपुमान्वेति लिङ्गतः ॥
जातमात्रं तु तद्रूपं दृष्ट्वा ताम्रनखाङ्गुलि ।
कौमारं रूपमापन्नं रूपवानुपलभ्यते ॥
कौमाराद्यौवनं चापि स्थाविर्यं चापि यौवनात् ।
अनेन क्रमयोगेन पूर्वं पूर्वं न लभ्यते ॥
कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे ।
वर्तते सर्वभूतेषु सौक्ष्म्यात्तु न विभाव्यते ॥
न चैषामप्ययो राजँल्लक्ष्यते प्रभवो न च ।
अवस्थायामवस्थायां दीपस्येवार्चिषो गतिः ॥
तस्याप्येवंप्रक्तारस्य सदश्वस्येव धावतः ।
अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः ॥
कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः ।
संबन्धः कोऽस्ति भूतानां स्वैरप्यवयवैरिह ॥
यथाऽऽदित्यान्मणेश्चापि वीरुद्भ्यश्चैव पावकः ।
जायन्त्येवं समुदयात्कलानामिह जन्तवः ॥
आत्मन्येवात्मनाऽऽत्मानं यथा त्वमनुपश्यसि ।
एवमेवात्मनाऽऽत्मानमन्यस्मिन्किं न पश्यसि ॥
यद्यात्मनि परस्मिंश्च समतामध्यवस्यसि ।
अथ मां काऽसि कस्येति किमर्थमनुपृच्छसि ॥
इदं मे स्यादिदं नेति द्वन्द्वैर्मुक्तस्य मैथिल ।
काऽसि कस्य कुतो वेति वचनैः किं प्रयोजनम् ॥
रिपौ मित्रेऽथ मध्यस्थे विजये सन्धिविग्रहे ।
कृतवान्यो महीपालः किं तस्मिन्मुक्तलक्षणम् ॥
त्रिवर्गं सप्तधा न्यस्तं यो न वेदेह कर्मसु ।
सङ्गवान्यस्त्रिवर्गे च किं तस्मिन्मुक्तलक्षणम् ॥
प्रिये वाऽप्यप्रिये वाऽपि दुर्बले बलवत्यपि ।
यस्य नास्ति समं चक्षुः किं तस्मिन्मक्तलक्षणम् ॥
तदयुक्तस्य ते मोक्षे योऽभिमानो भवेन्नृप ।
सुहृद्भिः सन्निवार्यस्तेऽविरक्तस्येव भेषजम् ॥
तानि तान्यनुसंदृश्य सङ्गस्थानान्यरिंदम् ।
आत्मनाऽऽत्मनि संपश्य किमन्यन्मुक्तलक्षणम् ॥
इमान्यन्यानि सूक्ष्माणि मोक्षमाश्रित्य केनचित् ।
चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे शृणु ॥
य इमां पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति ह ।
एकमेव स वै राजा पुरमध्यावसत्युत ॥
तत्पुरे चैकमेवास्य गृहं यदधितिष्ठति ।
गृहे शयनमप्येकं निशायां यत्र लीयते ॥
शय्यार्धं तस्य चाप्यत्र स्त्रीपूर्वमधितिष्ठति ।
तदनेन प्रसङ्गेन फलेनाल्पेन युज्यते ॥
एवमेवोपभोगेषु भोजनाच्छादनेषु च ।
गुणेष्वपरिमेयेषु निग्रहानुग्रहं प्रति ॥
परतन्त्रः सदा राजा स्वल्पे सोऽपि प्रसज्जते ।
सन्धिविग्रहयोगे च कुतो राज्ञः स्वतन्त्रता ॥
स्त्रीषु क्रीडाविहारेषु नित्यमस्यास्वतन्त्रता ।
मन्त्रे चामात्यसहिते कुतस्तस्य स्वतन्त्रता ॥
यदा ह्याज्ञापयत्यन्यांस्तत्रास्योक्ता स्वतन्त्रता ।
अवशः कार्यते तत्र तस्मिंस्तस्मिन्गुणे स्थितः ॥
स्वप्नकामो न लभते स्वप्तुं कार्यार्थिभिर्जनैः ।
शयने चाप्यनुज्ञातः सुप्त उत्थाप्यतेऽवशः ॥
स्नाह्यालभ पिब प्राश जुहुध्यगीन्यजेत्यपि ।
वदस्व शृणु चापीति विवशः कार्यते परैः ॥
अभिगम्याभिगम्यैवं याचन्ते सततं नराः ।
न चाप्युत्सहते दातुं वित्तरक्षी महाजनान् ॥
दाने कोशक्षयोऽप्यस्य वैरं चास्य प्रयच्छतः ।
क्षणेनास्योऽपवर्तन्ते दोषा वैराग्यकारकाः ॥
प्राज्ञाञ्शूरांस्तथा वैद्यानेकस्थानपि शङ्कते ।
भयमप्यनये राज्ञो यैश्च नित्यमुपास्यते ॥
तथा चैते प्रदुष्यन्ति राजन्ये कीर्तिता मया ।
तथैवास्य भयं तेभ्यो जायते पश्य यादृशम् ॥
सर्वः स्वेस्वे गृहे राजा सर्वः स्वेस्वे गृहे गृही ।
निग्रहानुग्रहौ कुर्वंस्तुल्यो जनक राजभिः ॥
पुत्रा दारास्तथैवात्मा कोशो मित्राणि संचयाः ।
परैः साधारणा ह्येते तैस्तैरेवास्य हेतुभिः ॥
हतो देशः पुरं दग्धं प्रधानः कुञ्जरो मृतः ।
लोकसाधारणेष्वेषु मिथ्याज्ञानेन तप्यते ॥
अमुक्तो मानसैर्दुःखैरिच्छाद्वेषप्रियोद्भवैः ।
शिरोरोगादिभी रोगैस्तथैव विनिपातिभिः ॥
द्वन्द्वैस्तैस्तैरुपहतः सर्वतः परिशङ्कितः ।
बहुभिः प्रार्थितं राज्यमुपास्ते गणयन्निशाः ॥
तदल्पसुखमत्यर्थं बहुदुःखमसारवत् ।
तृणाग्निज्वलनप्रख्यं फेनबुद्बुदसंनिभम् ॥
को राज्यमभिपद्येत प्राप्य चोपशमं लभेत् ।
ममेदमिति यच्चेदं पुरं राष्ट्रं च मन्यसे ॥
बलं कोशममात्यांश्च कस्यैतानि न वा नृप ।
मित्रामात्यपुरं राष्ट्रं दण्डः कोशो महीपतिः ॥
`सप्ताङ्गश्चैष सङ्घातो राज्यमित्युच्यते नृप ।' सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः ।
अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः ॥
तेषुतेषु हि कालेषु तत्तदङ्गं विशिष्यते ।
येन यत्सिध्यते कार्यं तत्प्राधान्याय कल्पते ॥
सप्ताङ्गश्चैव संघातस्त्रयश्चान्ये नृपोत्तम ।
संभूय दशवर्गोऽयं भुङ््क्ते राज्यं हि राजवत् ॥
यश्च राजा महोत्साहः क्षत्रधर्मे रतो भवेत् ।
स तुष्येद्दशभागेन ततस्त्वन्यो दशावरैः ॥
नास्त्यसाधारणो राजा नास्ति राज्यमराजकम् ।
राज्येऽसति कुतो धर्मो धर्मेऽसति कुतः परम् ॥
योप्यत्र परमो धर्मः पवित्रं राजराज्ययोः ।
पृथिवी दक्षिणा यस्य सोऽश्वमेधो न विद्यते ॥
साऽहमेतानि कर्माणि राजदुःखानि मैथिल ।
समर्था शतशो वक्तुमथवाऽपि सहस्रशः ॥
स्वदेहे नाभिषङ्गो मे कुतः परपरिग्रहे ।
न मामेवंविधां युक्तामीदृशं वक्तुमर्हसि ॥
ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच्छ्रुतः ।
सोपायः सोपनिषदः सोपसङ्गः सनिश्चयः ॥
तस्य ते मुक्तसङ्गस्य पाशानाक्रम्य तिष्ठतः ।
छत्रादिषु विशेषेषु पुनः सङ्गः कथं नृप ॥
श्रुतं ते न श्रुतं मन्ये मृषा वाऽपि श्रुतं श्रुतम् ।
अथवा श्रुतसंकाशं श्रुतमन्यच्छ्रुतं त्वया ॥
अथापीमासु संज्ञासु लौकिकीषु प्रतिष्ठसे ।
अभिषङ्गावरोधाभ्यां बद्धस्त्वं प्राकृतो यथा ॥
सत्वेनानुप्रवेशो हि योऽयं त्वयि कृतो मया ।
किं तवापकृतं तत्र यदि मुक्तोऽसि सर्वशः ॥
नियमो ह्येषु धर्मेषु यतीनां शून्यवासिता ।
शून्यमावासयन्त्या च मया किं कस्य दूषितम् ॥
न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां न चानघ ।
न गात्राक्यवैरन्यैः स्पृशामि त्वां नराधिप ॥
कुले महति जातेन ह्रीमता दीर्घदर्शिना ।
नैतत्सदसि वक्तव्यं सद्वाऽसद्वा मिथः कृतम् ॥
ब्राह्मणा गुरवश्चेमे तथा मान्या गुरूत्तमाः ।
त्वं चाथ गुरुरप्येषामेवमन्योन्यगौरवम् ॥
तदेवमनुसंदृश्य वाच्यावाच्यं परीक्षता ।
स्त्रीपुंसोः समवायोऽयं त्वया वाच्यो न संसदि ॥
यथा पुष्करपर्णस्थं जलं तत्पर्णसंस्थितम् ।
तिष्ठत्यस्पृशती तद्वत्त्वपि वत्स्यामि मैथिल ॥
यदि चाद्य स्पृशन्त्या मे स्पर्शं जानासि कंचन ।
ज्ञानं कृतमबीजं ते कथं तेनेह भिक्षुणा ॥
स गार्हस्थ्याच्च्युतश्च त्वं मोक्षं चानाप्य दुर्विदम् ।
उभयोरन्तराले वै वर्तसे मोक्षवादिकः ॥
न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः ।
भावाभावसमायोगे जायते वर्णसंकरः ॥
वर्णाश्रमाः पृथक्त्वेन दृष्टार्थस्यापृथक्त्वतः ।
नान्यदन्यदिति ज्ञात्वा नान्यदन्यत्र वर्तते ॥
पापौ कुण्डं तथा कुण्डे पयः पयसि मक्षिका ।
आश्रिताश्रययोगेन पृथक्त्वेनाश्रिताः पुनः ॥
न तु कुण्डे पयोभावः पयश्चापि न मक्षिका ।
स्वयमेवाश्रयन्त्येते भावा न तु पराश्रयम् ॥
पृथक्त्वादाश्रमाणां च वर्णान्यत्वे तथैव च ।
परस्परपृथक्त्वाच्च कथं ते वर्णसंकरः ॥
नास्मि पर्णोत्तमा जात्या न वैश्या नावरा तथा ।
तव राजन्सवर्णाऽस्मि शुद्धयोनिरविप्लुता ॥
प्रधानो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः ।
कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम् ॥
द्रोणश्च शतशृङ्गश्च वक्रद्धारश्च पर्वतः ।
मम सत्रेषु पूर्वेषां चिता मघवता सह ॥
साहं तस्मिन्कुले जाता भर्तर्यसति मद्विधे ।
विनीता मोक्षधर्मेषु चराम्येका मुनिव्रतम् ॥
नास्मि सत्रप्रतिच्छन्ना न परस्वाभिमानिनी ।
न धर्मसंकरकरी स्वधर्मेऽस्मि दृढव्रता ॥
नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्य प्रवादिनी ।
नासमीक्ष्यागता चेह त्वत्सकाशं जनाधिप ॥
मोक्षे ते भावितां बुद्धिं श्रुत्वाऽहं कुशलैषिणी ।
तव मोक्षस्य चाप्यस्य जिज्ञासार्थमिहागता ॥
न वर्गस्था ब्रवीम्येतत्स्वपक्षपरपक्षयोः ।
मुक्तो विमुच्यते यश्च शान्तौ यश्च न शाम्यति ॥
यथा शून्ये पुराऽगारे भिक्षुरेकां निशां वसेत् ।
तथाऽहं त्वच्छरीरेऽस्मिन्निमां वत्स्यामि शर्वरीम् ॥
साऽहं मानप्रदानेन वागातिथ्येन चार्चिता ।
सुप्ता सुशरणं प्रीता श्वो गमिष्यामि मैथिल ॥
भीष्म उवाच ।
इत्येतानि स वाक्यानि हेतुमन्त्यर्थवन्ति च ।
श्रुत्वा नाधिजगौ राजा किंचिदन्यदतः परं ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चविंशत्यधिकत्रिशततमोऽध्यायः ॥ 325 ॥

12-325-2 अव्ययस्य यथात्मा च व्यक्तस्यात्मा यथा च यदिति ध. पाठः ॥ 12-325-4 संन्यासफलं सम्यग्दर्शनं तदस्यास्तीति संन्यासफलिकः ॥ 12-325-5 स्वे शास्त्रे दण्डनीतौ ॥ 12-325-7 अनुष्ठिता कर्तरिक्तः ॥ 12-325-8 मोक्षे मोक्षशास्त्रे निष्णात इति शेषः ॥ 12-325-9 नेति नवेति ॥ 12-325-10 ततः सा विप्रभार्याश्च पूर्वरूपवियोगत इति ट. ड. पाठः ॥ 12-325-11 लघु शीघ्रमस्रगत्या गच्छतीति सा । विदेहानां पदमिति ड. पाठः ॥ 12-325-15 भाष्यविदां सूत्रार्थज्ञानां मध्ये । अथ भुक्तवती प्रीता राजानं मन्त्रिभिर्वृतमिति । चोदयामासभिक्षुकीति च. झ. पाठः ॥ 12-325-16 सुलभाऽयं स्वधर्मेषु इति ध. पाठः ॥ 12-325-18 भावमाशयमेनं मूकं करिष्यामीत्येवंरूपम् । विशेषयन्नभिभवन् ॥ 12-325-20 भवत्याचक्ष्व वार्षेयं कुतः क्व च गमिष्यसि इति ड. थ. पाठः ॥ 12-325-29 मोक्षस्य परमो निधिरिति ध. पाठः ॥ 12-325-30 सा सिद्धिर्या च योगितेति थ. पाठः ॥ 12-325-42 ज्ञानेन कस्यचिदिति झ. पाठः ॥ 12-325-45 आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मकाः । राजानो भिक्षुकाचार्या मुच्यन्ते इति ड. थ. पाठः ॥ 12-325-46 मुच्यन्ते सर्वपापेभ्यो देहे परमके स्थिता इति झ. पाठः ॥ 12-325-47 लिङ्गान्यन्यार्थभूतानीति ट. ड. थ. पाठः ॥ 12-325-49 छत्रादिषु न लभ्यत इति ट.ड. पाठः ॥ 12-325-54 नचैतानि समस्तानीति ध. पाठः ॥ 12-325-58 संनिसर्गात्त्वं इति ध. पाठः ॥ 12-325-60 द्वितीयो वर्णसंकर इति ड. पाठः ॥ 12-325-62 प्रेरिता तेन गच्छसीति ध. पाठः ॥ 12-325-63 कार्यार्थज्ञा व्यवस्यसीति ध. पाठः ॥ 12-325-65 तद्वक्तव्यं प्रकाशितमि ड. पाठः ॥ 12-325-67 अर्हतः पूज्यान् उद्दिश्य ॥ 12-325-70 माप्राक्षीरिति ध. पाठः ॥ 12-325-87 नापेतार्थं न भिन्नार्थं नापवृत्तं न चाधिकमिति ड. पाठः ॥ 12-325-89 न निष्ठानमहेतुकमिति ड. पाठः ॥ 12-325-90 दैन्यादन्याय्यकात्तथेति ड. पाठः ॥ 12-325-93 निःशङ्को जायते तस्मिन्निति ध. पाठः ॥ 12-325-100 प्रश्लिष्टा नाभिजायन्ते यथाद्भिरिव पांसव इति ड. पाठः ॥ 12-325-103 अथ त्रयोदशे तस्मिन्बुद्धिर्नाम गुणः स्मृत इति ध. पाठः ॥ 12-325-106 पृथक्कलासमूहस्येति झ. पाठः ॥ 12-325-111 विधिः शुद्धं बलं चेतीति ध. पाठः ॥ 12-325-114 अव्यक्तां यदि वा व्यक्तां द्वयीमथ चतुष्टयीमिति ट. थ. पाठः ॥ 12-325-122 न चैषामप्यथो राजन्निति ट. पाठः । न चासामप्यथो राजन्निति ड. पाठः ॥ 12-325-128 इदं मे स्यादिदं चेति इति ड. थ. पाठः ॥ 12-325-130 सप्तधा व्यस्तमिति ड. पाठः ॥ 12-325-141 तस्मिंस्तस्मिन्क्षणे स्थित इति झ. पाठः ॥ 12-325-151 तथैवाभिनियन्तृभिरिति झ. पाठः ॥ 12-325-152 बहुप्रत्यर्थिकं राज्यमिति झ. ध. पाठः ॥ 12-325-168 अङ्गनानुप्रवेशोऽपि इति ध. पाठः ॥ 12-325-169 नियमो ह्येषु वर्णेष्विति झ. पाठः ॥ 12-325-174 जलं तत्पत्रसंज्ञितमिति ध. पाठः । तत्पणंमस्पृशदिति झ. पाठः ॥ 12-325-175 यदि वाप्यस्पृशन्त्या मे इति ट. ड. ध. पाठः ॥ 12-325-176 मोक्षं चावाप्य दुर्लभमिति ड. थ. पाठः ॥ 12-325-178 पृथक्त्वे च दृष्टास्यार्थाः पृथक्कृता इति ट. ड. पाठः ॥ 12-325-184 द्रोणादयः पर्वता मम पूर्वेषआं सत्रेषु मघवता सह चिताश्चयने इष्टकास्थाने निवेशिता इत्यर्थः । चित्यां मघवता सहेति थ. पाठः ॥ 12-325-185 भर्तर्यसति मद्गृहे इति ध. पाठः ॥ 12-325-186 सत्रप्रतिच्छन्ना कपटसंन्यासिनी । न परस्वापहारिणीति झ. पाठः ॥ 12-325-189 मुक्तो व्यायच्छते यश्चेति झ. पाठः ॥