अध्यायः 326

आसुरिणा कपिलं प्रति अव्यक्तादितत्वविषयकप्रश्नः ॥ 1 ॥

* युधिष्ठिर उवाच ।
अव्यक्तव्यक्ततत्वानां निश्चयं भरतर्षभ ।
वक्तुमर्हसि कौरव्य देवस्याजस्य या कृतिः ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीमं संवादं गुरुशिष्ययोः ।
कपिलस्यासुरेश्चैव सर्वदुःखविमोक्षणम् ॥
असुरिरुवाच ।
अव्यक्तव्यक्ततत्वानां निश्चयं बुद्धिनिश्चयम् ।
भगवन्नमितप्रज्ञ वक्तुमर्हसि मेऽर्थितः ॥
किं व्यक्तं किमव्यक्तं किं व्यक्ता व्यक्तं किमिति तत्वानि ।
किमाद्यं मध्यमं च तत्वानां किमध्यात्माधिभूतदैवतं च ॥
किंनु सर्गाप्ययं कति सर्गाः किं भूतं किं भविष्यं किं भव्यं च किं ज्ञानम् ।
को ज्ञाता किं बुद्धं किमप्रबुद्धं किं बुध्यमानं कति पर्वाणि ॥
कति स्रोतांसि कति कर्मयोनयः किमेकत्वं नानात्वम् ।
किं सहवासं निवासं किं विद्याविद्यमिति ॥' ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षङ्विंशत्यधिकत्रिशततमोऽध्यायः ॥ 326 ॥

* एतदादयस्रयोऽध्यायाः ध. पुस्तके एव वर्तन्ते ।