अध्यायः 328

कपिलेनासुरि प्रति तत्वविभागादिकथनम् ॥ 1 ॥

कपिल उवाच ।
यदप्युक्तं कति तत्वानि भवन्ति तत्वमेतानि ।
यमानुपूर्व्यशः प्रोक्तान्येवमाह ॥
तत्वान्यथोक्तानि । तथाविद्यो निबुद्ध्यते ।
न स पापेन लिप्येत निर्मुक्तः सर्वसंकरात् ॥
यदप्युक्तं इहाद्यं मध्यमं च तत्वानामित्यत्र ब्रूमः ॥
एवमाद्यं मध्यमं चोक्तं बुद्ध्यादीनि त्रयोविंशतितत्वानि विशेषपर्यवसानानि ज्ञातव्यानि भवन्तीत्येव मामकेनेत्यत्रोच्यते ॥
तदेव तद्यदा दत्तब्राह्मणक्षत्रियवैश्यशूद्रचण्डालपुल्कसादिरेतानि ज्ञातव्यानि बुद्ध्यादीनि विशेषपर्यवसानानि मन्तव्यानि प्रत्येतव्याभ्युक्तानि एतदाद्यं मध्यमं च । एतस्मात्तत्वानामुत्पत्तिर्भवति अत्र प्रलीयन्ते । केचिदाहुराचार्याः ॥
अहमित्येतदात्मकं सशीरसङ्घातं त्रिषु लोकेषु व्यक्तमव्यक्ताधिष्ठितमेतद्देवदत्तसंज्ञकम् ॥
योगदशमपुरुषदर्शनानां तु पञ्चविंशतितत्वानां प्रतिबुध्यमानयोर्व्यतिरिक्तं शुचिव्यभ्रमित्याहुराचार्याः । एवमाह ॥
चतुर्विशतितत्वज्ञस्त्वव्यक्ते प्रतितिष्ठति । पञ्चविंशतितत्वज्ञोऽप्यव्यक्तमधितिष्ठति ॥' ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टाविंशत्यधिकत्रिशततमोऽध्यायः ॥ 328 ॥