अध्यायः 330

भीष्मेण युधिष्ठिरंप्रति सर्वथा धर्मस्य कर्तव्यताकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च ।
गुरूणां वाऽपि शुश्रूषा तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
आत्मनाऽनर्थयुक्तेन पापे निविशते मनः ।
स कर्म कलुषं कृत्वा क्लेशे महति धीयते ॥
दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् ।
मृतेभ्यः प्रमृता यान्ति दरिद्राः पापकर्मिणः ॥
उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् ।
श्रद्दधानाश्च दान्ताश्च धनस्याः शुभकारिणः ॥
व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च ।
हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम् ॥
प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः ।
क्षेम्यमात्मवता मार्गमास्थिता हस्तदक्षिणाः ॥
पुलाका इव धान्येषु पूत्यण्डा इव पक्षिषु ।
तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम् ॥
सुशीघ्रमपि धावन्तं विधानमनुधावति ।
शेते सह शयानेन येनयेन यथाकृतम् ॥
पापं तिष्ठति तिष्ठन्तं धावन्तमनुधावति ।
करोति कुर्वतः कर्म च्छायेवानुविधीयते ॥
येनयेन यथा यद्यत्पुरा कर्म सुनिश्चितम् ।
तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना ॥
समानकर्मनिक्षेपं विधानपरिरक्षणम् ।
भूतग्राममिमं कालः समन्तादपकर्षति ॥
अचोद्यमानानि यथा पुष्पाणि च फलानि च ।
स्वं कालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥
समानश्चावमानश्च लाभालाभौ जयाजयौ ।
प्रवृत्ता न निवर्तन्ते निधनान्ताः पदेपदे ॥
आत्मना विहितं दुःखमात्मना विहितं सुखम् ।
गर्भशय्यामुपादाय भजते पूर्वदेहिकम् ॥
बालो युवा वा वृद्धश्च यत्करोति शुभाशुभम् ।
तस्यांतस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि ॥
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥
मलिनं हि यथा वस्त्रं पश्चाच्छुध्यति वारिणा ।
उपवासैः प्रतप्तानां दीर्घं सुखमनन्तकम् ॥
दीर्घकालेन तपसा सेवितेन तपोवने ।
धर्मनिर्धूतपापानां संसिध्यन्ते मनोरथाः ॥
शकुनानामिवाकाशे मत्स्यानामिव चोदके ।
पदं यथा न दृश्येत तथा पुण्यकृतां गतिः ॥
अलमन्यैरुपालब्धैः कीर्तितैश्च व्यतिक्रमैः ।
पेशलं चानुरूपं च कर्तव्यं हितमात्मनः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिंशदधिकत्रिशततमोऽध्यायः ॥ 330 ॥

12-330-6 आस्थिता हतदक्षिणा इति ध. पाठः ॥ 12-330-10 तत्तदेवोत्तरं भुङ्क्ते इति झ. पाठः ॥ 12-330-13 लाभोऽलाभः क्षयाक्षयाविति झ. पाठः ॥ 12-330-14 भुज्यते पूर्वदैहिकमिति ध. पाठः ॥