अध्यायः 332

भीष्मेण युधिष्ठिरंप्रति शुकोत्पत्तिप्रकारकथनम् ॥ 1 ॥

भीष्म उवाच ।
स लब्ध्वा परमं देवाद्वरं सत्यवतीसुतः ।
अरणीं तु ततो गृह्य ममन्थाग्निचिकीर्षया ॥
अथ रूपं परं राजन्बिभ्रतीं स्वेन तेजसा ।
घृताचीं नामाप्सरसमपश्यद्भगवानृषिः ॥
ऋषिरप्सरसं दृष्ट्वा सहसा काममोहितः ।
अभवद्भगवान्व्यासो वने तस्मिन्युधिष्ठिर ॥
सा च दृष्ट्वा तदा व्यासं कामसंविग्नमानसम् ।
शुकी भूत्वा महाराज घृताची समुपागमत् ॥
स तामप्सरसं दृष्ट्वा रूपेणान्येन संवृताम् ।
शरीरजेनानुगतः सर्वगात्रातिगेन ह ॥
स तु धैर्येण महता निगृह्णन्हृच्छयं मुनिः । न शशाक नियन्तुं तद्व्यासः प्रविसृतं मनः ।
भावित्वाच्चैव भावस्य घृताच्या वपुषा हृतः ॥
यत्नान्नियच्छतस्तस्य मुनेरग्निचिकीर्षया ।
अरण्यामेव सहसा तस्य शुक्रमवापतत् ॥
सोऽविशङ्केन मनसा तथैव द्विजसत्तमः ।
अरणीं ममन्थ ब्रह्मर्षिस्तस्यां जज्ञे शुको नृप ॥
शुक्रे निर्मथ्यमाने स शुको जज्ञे महातपाः ।
परमर्षिर्महायोगी अरणीगर्भसंभवः ॥
यथाऽध्वरे समिद्धोऽग्निर्भाति हव्यमुदावहन् ।
तथारूपः शुको जज्ञे प्रज्वलन्निव तेजसा ॥
विभ्रत्पितुश्च कौरव्य रूपवर्णमनुत्तमम् ।
बभौ तदा भावितात्मा विधूमोऽग्निरिवज्वलन् ॥
तं गङ्गा सरितां श्रेष्ठा मेरुपृष्ठे जनेश्वर ।
स्वरूपिणी तदाऽभ्येत्य स्नापयामास वारिणा ॥
अन्तरिक्षाच्च कौरव्य दण्डः कृष्णाजिनं च ह ।
पपात भुवि राजेन्द्र शुकस्थार्थे महात्मनः ॥
जेगीयन्ते स्म गन्धर्वा ननृतुश्चाप्सरोगणाः ।
देवदुन्दुभयश्चैव प्रावाद्यन्त सहस्रशः ॥
विश्वासुश्च गन्धर्वस्तथा तुम्बुरुनारदौ ।
हाहा हूहूश्च गन्धर्वौ तुष्टुवुः शुकसंभवम् ॥
तत्र शक्रपुरोगाश्च लोकपालाः समागताः ।
देवा देवर्षयश्चैव तथा ब्रह्मर्षयोऽपि च ॥
दिव्यानि सर्वपुष्पाणि प्रववर्ष च मारुतः ।
जङ्गमं स्थावरं चैव प्रहृष्टमभवज्जगत् ॥
तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः ।
जतामात्रं मुनेः पुत्रं विधिनोपानयत्तदा ॥
तस्य देवेश्वरः शक्रो दिव्यमद्भुतदर्शनम् ।
ददौ कमण्डलुं प्रीत्या देववासांसि चाभिभो ॥
हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः ।
प्रदक्षिणमवर्तन्त शुकाश्चाषाश्च भारत ॥
आरणेयस्ततो दिव्यं प्राप्य जन्म महाद्युतिः ।
तत्रैवोवास मेधावी ब्रह्मचारी समाहितः ॥
उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः ।
उपतस्थुर्महाराज यथाऽस्य पितरं तथा ॥
बृहस्पतिं च वव्रे स वेदवेदाङ्गभाष्यवित् ।
उपाध्यायं महाराज धर्ममेवानुचिन्तयन् ॥
सोऽधीत्य निखिलान्वेदान्सरहस्यान्ससंग्रहान् ।
इतिहासं च कार्त्स्न्येन धर्मशास्त्राणि चाभिभो ॥
गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः ।
उग्रं तपः समारेभे ब्रह्मचारी समाहितः ॥
देवतानामृषीणां च बाल्येऽपि स महातपाः ।
संमन्त्रणीयो मान्यश्च ज्ञानेन तपसा तथा ॥
न त्वस्य रमते बुद्धिराश्रमेषु नराधिप ।
त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्वात्रिंशदधिकत्रिशततमोऽध्यायः ॥ 332 ॥

12-332-1 अरणी सहिते गृह्येति झ. पाठः । तत्र अरणी द्वे अधरोत्तरे सहिते मिथुनरूपे इत्यर्थः ॥ 12-332-4 सा च कृत्वा तदा व्यासमिति ड. ध. पाठः ॥ 12-332-9 शुके निर्मथ्यमाने जातत्वात् शुक इति रेफलोपेनास्य नाम कृतम् ॥ 12-332-12 तर्पयामास वारिणेति झ. पाठः ॥ 12-332-14 खे गायन्ति स्म गन्धर्वा इति ट. पाठः ॥ 12-332-18 महात्मा महादेवः उपानयत् स्वशिष्यं कृतवानिति संबन्धः ॥