अध्यायः 335
जनकाभ्यनुज्ञातेन शुकेन व्यासमेत्य स्वस्य जनकेन सह संवादप्रकारकथनम् ॥ 1 ॥ व्यासस्य वैशंपायनादिभिः सह संवादः ॥ 2 ॥
भीष्म उवाच ।
एतच्छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः ।
आत्मनाऽऽत्मानमास्थाय दृष्ट्वा चात्मानमात्मना ॥
कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्भुखः ।
शैशिरं गिरिमुद्दिश्य सधर्मा मातरिश्वनः ॥
एतस्मिन्नेव काले तु देवर्षिर्नारदस्तथा ।
हिमवन्तमियाद्दुष्टुं सिद्धचारणसेवितम् ॥
तमप्सरोगाकीर्णं गीतस्वननिनादितम् ।
किन्नराणां सहस्रैश्च भृङ्गराजैस्तथैव च ॥
मद्गुभिः खञ्जरीटैश्च विचित्रैर्जीवजीवकैः ॥
चित्रवर्णैर्मयूरैश्च केकाशतविराजितैः ।
राजहंससमूहैश्च हृष्टैः परभृतैस्तथा ॥
पक्षिराजो गरुत्मांश्च यं नित्यमधितिष्ठति ।
चत्वारो लोकपालाश्च देवाः सर्षिगणास्तथा ॥
तत्र नित्यं समायान्ति लोकस्य हितकाम्यया ।
विष्णुना यत्र पुत्रार्थे तपस्तप्तं महात्मना ॥
तत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः ।
शक्तिर्न्यस्ता क्षितितले त्रैलोक्यमवमन्य वै ॥
तत्रोवाच जगत्स्कन्दः क्षिपन्वाक्यमिदं तदा ।
योऽन्योस्ति मत्तोऽभ्यधिको विप्रा यस्याधिकं प्रियाः ॥
यो ब्रह्मण्यो द्वितीयोऽस्ति त्रिषु लोकेषु वीर्यवान् ।
सोभ्युद्धरत्विमां शक्तिमथवा कम्पयत्विति ॥
तच्छुत्वा व्यथिता लोकाः क इमामुद्धरेदिति ।
अथ देवगणं सर्वं संभ्रान्तेन्द्रियमानसम् ॥
अपश्यद्भगवान्विष्णुः क्षिप्तं सासुरराक्षसम् ।
किंन्वत्र सुकृतं कार्यं भवेदिति विचिन्तयन् ॥
अनामृष्य ततः क्षेपमवैक्षत च पाविकम् ।
संप्रगृह्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा ॥
कम्पयामास सव्येन पाणिना पुरुषोत्तमः ।
शक्त्यां तु कम्प्यमानायां विष्णुना बलिना तदा ॥
मेदिनी कम्पिता सर्वा सशैलवनकानना ।
शक्तेनापि समुद्धर्तुं कम्पिता साऽभवत्तदा ॥
रक्षिता स्कन्दराजस्य धर्षणा प्रभविष्णुना ।
तां कम्पयित्वा भगवान्प्रह्लादमिदमब्रवीत् ॥
पश्य वीर्यं कुमारस्य नैतदन्यः करिष्यति ।
सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः ॥
जग्राह तां तदा शक्तिं न चैनामभ्यकम्पयत् ।
नादं महान्तं मुक्त्वा स मूर्च्छितो गिरिमूर्घनि ॥
विह्वलः प्रापतद्भूमौ हिरण्यकशिपोः सुतः ।
तत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः ॥
तपोऽतप्यत दुर्घर्षं तात नित्यं वृषध्वजः ।
पावकेन परिक्षिप्तं दीप्यता यस्य चाश्रमम् ॥
आदित्यपर्वतं नाम दुर्घर्षमकृतात्मभिः ।
न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः ॥
दशयोजनविस्तारमग्निज्वालसमावृतम् ।
भगवान्पावकस्तत्र स्वयं तिष्ठति वीर्यवान् ॥
सर्वान्विघ्नान्प्रशमयन्महादेवस्य धीमतः ।
दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः ॥
देवान्संतापयंस्तत्र महादेवो महाव्रतः ।
ऐन्द्रीं तु दिशमास्थाय शैलराजस्य धीमतः ॥
विविक्ते पर्वततटे पाराशर्यो महातपाः ।
वेदानध्यापयामास व्यासः शिष्यान्महातपाः ॥
सुमन्तुं च महाभागं वैशंपायनमेव च ।
जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम् ॥
एभिः शिष्यैः परिवृतो व्यास आस्ते महातपाः ।
तत्राश्रमपदं रम्यं ददर्श पितुरुत्तमम् ।
आरणेयो विशुद्धात्मा नभसीव दिवाकरः ॥
अथ व्यासः परिक्षिप्तं ज्वलन्तमिव पावकम् ।
ददृशे सुतमायान्तं दिवाकरसमप्रभम् ॥
असज्जमानं वृक्षेषु शैलेषु विषयेषु च ।
योगयुक्तं महात्मानं यथा बाणं गुणच्युतम् ॥
सोऽभिगम्य पितुः पादावगृह्णादरणीसुतः ।
यथोपजोषं तैश्चापि समागच्छन्महामुनिः ॥
ततो निवेदयामास पित्रे सर्वमशेषतः ।
शुको जनकराजेन संवादं प्रीतमानसः ॥
एवमध्यापयञ्शिष्यान्व्यासः पुत्रं च वीर्यवान् ।
उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः ॥
ततः कदाचिच्छिष्यास्तं परिवार्यावतस्थिरे ।
वेदाध्ययनसंपन्नाः शान्तात्मानो जितेन्द्रियाः ॥
वेदेषु निष्ठां संप्राप्य साङ्गेष्वपि तपस्विनः ।
अथोचुस्ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम् ॥
शिष्या ऊचुः ।
महता तेजसा युक्ता यशसा चापि वर्धिताः ।
एकं त्विदानीमिच्छामो गुरुणाऽनुग्रहं कृतम् ॥
इति तेषां वचः श्रुत्वा ब्रह्मर्षिस्तानुवाद ह ।
उच्यतामिति तद्वत्सा यद्वः कार्यं प्रियं मया ॥
एतद्वाक्यं गुरोः श्रुत्वा शिष्यास्ते हृष्टमानसाः ।
पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम् ॥
ऊचुस्ते सहिता राजन्निदं वचनमुत्तमम् ।
यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम ॥
काङ्क्षामस्तु वयं सर्वे वरं दत्तं महर्षिणा ।
पष्ठः शिष्यो न ते ख्यातिं गच्छेदत्र प्रसीद नः ॥
चत्वारस्ते वयं शिष्या गुरुपूत्रश्च पञ्चमः ।
इह वेदाः प्रतिष्ठेरन्नेष नः काङ्क्षितो वरः ॥
शिष्याणां वचनं श्रुत्वा व्यासो वेदार्थतत्त्ववित् ।
पराशरात्मजो धीमान्परलोकार्थचिन्तकः ॥
उवाच शिष्यान्धर्मात्मा धर्म्यं नैःश्रेयसं वचः ।
ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे तथा ॥
ब्रह्मलोके निवासं यो ध्रुवं समभिकाङ्क्षते ।
भवन्तो बहुलाः सन्तु वेदो विस्तार्यतामयम् ॥
नाशिष्ये संप्रदातव्यो नाव्रते नाकृतात्मनि ।
एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः ।
नापरीक्षितचारित्रे विद्या देया कथंचन ॥
यथा हि कनकं शुद्धं तापच्छेदनिकर्षणैः ।
परीक्षेत तथा शिष्यानीक्षेत्कुलगुणादिभिः ॥
न नियोज्याश्च वः शिष्या अनियोगे महाभये ।
यथामति यथापाठं तथा विद्या फलिष्यति ॥
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ।
श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः ॥
वेदस्याध्ययनं हीदं तच्च कार्यं महत्स्मृतम् ।
स्तुत्यर्थमिह देवानां वेदाः सृष्टाः स्वयंभुवा ॥
यो निर्वदेत संमोहाद्ब्राह्मणां वेदपारगम् ।
सोऽभिध्यानाद्ब्राह्मणस्य पराभूयादसंशयम् ॥
यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति ।
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति ॥
एतद्वः सर्वमाख्यातं स्वाध्यायस्य विधिं प्रति ।
उपकुर्याच्च शिष्याणामेतच्च हृद्वि वो भवेत् ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चत्रिंशदधिकत्रिशततमोऽध्यायः ॥ 335 ॥
12-335-2 शैशिरं गिरिं हिमालयम् ॥ 12-335-4 सहस्रैश्च राजहँसैस्तथैव चेति ड. पाठः ॥ 12-335-24 आसीदिति शेषः ॥