अध्यायः 341

अन्तरिक्षाद्गिरिशिखरे निपतितेन शुकेन तद्विभेदनपूर्वकं ततो निष्क्रमणम् ॥ 1 ॥ ततः पुत्रवियोगविषपणस्य व्यासस्य रुद्रेण समाश्वासनम् ॥ 2 ॥

भीष्म उवाच ।
इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः ।
प्रातिष्ठत शुकः सिद्धिं हित्वा दोषांश्चतुर्विधान् ॥
तमो ह्यष्टगुणं हित्वा जहौ पञ्चविधं रजः ।
ततः सत्वं जहौ धीमांस्तदद्भुतमिवाभवत् ॥
ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गवर्जिते ।
ब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन् ॥
उत्कापाता दिशां दाहो भूमिकम्पस्तथैव च ।
प्रादुर्भूताः क्षणे तस्मिंस्तदद्भुतमिवाभवत् ॥
द्रुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताः ।
निर्घातशब्दैर्गुरुभिर्भूमिर्व्यादीर्यतेव ह ॥
न बभासे सहस्रांशुर्न जज्वाल च पावकः ।
ह्रदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा ॥
ववर्ष वासवस्तोयं रसवच्च सुगन्धि च ।
ववौ समीरणश्चापि दिव्यगन्धवहः शुचिः ॥
स शृङ्गेऽप्रतिमे दिव्ये हिमवन्मेरुसंनिभे ।
संश्लिष्टे स्वतेपीते द्वे रुक्मरूप्यमये शुभे ॥
शतयोजनविस्तारे तिर्यगूर्ध्वं च भारत ।
उदीचीं दिशमास्थाय रुचिरे संददर्श ह ॥
सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः ॥
ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते ।
अदृश्येतां महाराज तदद्भुतमिवाभवत् ॥
ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः ।
न च प्रतिजघानास्य स गतिं पर्वतोत्तमः ॥
ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम् ।
गन्धर्वाणामृषीणां च ये च शैलनिवासिनः ॥
दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधा कृतम् ।
साधुसाध्विति तत्रासीन्नादः सर्वत्र भारत ॥
स पूज्यमानो देवैश्च गन्धर्वैर्ऋशिभिस्तथा ।
यक्षराक्षससङ्घैश्च विद्याधरगणैस्तथा ॥
दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः ।
आसीत्किल महाराज शुकाभिपतने तदा ॥
ततो मन्दाकिनीं रम्यामुपरिष्टादभिव्रजन् ।
शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम् ॥
तस्यां क्रीडन्त्यभिरताः स्नान्ति चैवाप्सरोगणाः ।
शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः ॥
तं प्रक्रामन्तमाज्ञाय पिता स्नेहसमन्वितः ।
उत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह ॥
शुकस्तु मारुतादूर्ध्वं गतिं कृत्वान्तरिक्षगाम् ।
दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा ॥
महायोगगतिं त्वग्र्यां व्यासोत्थाय महातपाः ।
निमेषान्तरमात्रेण शुकाभिपतनं ययौ ॥
स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम् ।
शशंसुर्ऋषयस्तत्र कर्म पुत्रस्य तत्तदा ॥
ततः शुकेति दीर्घेण शब्देनाक्रन्दितस्तदा ।
स्वयं पित्रा स्वरेणोच्चैस्त्रील्लोँकाननुनाद्य वै ॥
शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः ।
प्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन् ॥
तत एकाक्षरं नादं भोरित्येव समीरयन् ।
प्रत्याहरञ्जगत्सर्वमुच्चैः स्थावरजङ्गमम् ॥
ततःप्रभृति चाद्यापि शब्दानुच्चारितान्पृथक् ।
गिरिगह्वरपृष्ठेषु व्याहरन्ति शुकं प्रति ॥
अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा ।
गुणान्संत्यज्य शब्दादीन्पदमभ्यगमत्परम् ॥
महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः ।
निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन् ॥
ततो मन्दाकिनीतीरे क्रीडन्तोऽऽप्सरसां गणाः ।
आसाद्य तमृषिं सर्वाः संभ्रान्ता गतचेतसः ॥
जले निलिल्यिरे काश्चित्काश्चिद्गुल्मान्प्रपेदिरे ।
वसनान्याददुः काश्चित्तं दृष्ट्वा मुनिसत्तमम् ॥
तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा ।
सक्ततामात्मनश्चैव प्रीतोऽभूद्बीडितश्च ह ॥
तं देवगन्धर्ववृतो महर्षिगणपूजितः ।
पिनाकहस्तो भगवानभ्यागच्छत शंकरः ॥
तमुवाच महादेवः सान्त्वपूर्वमिदं वचः ।
पुत्रशोकाभिसंतप्तं कृष्णद्वैपायनं तदा ॥
अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चैव ह ।
वीर्येण सदृशः पुत्रः पुरा मत्तस्त्वया वृतः ॥
स तथालक्षणो जातस्तपसा तव संभृतः ।
मम चैव प्रसादेन ब्रह्मतेजोमयः शुचिः ॥
स गतिं परमां प्राप्तो दुष्प्रापामजितेन्द्रियैः ।
दैवतैरपि विप्रर्षे तं त्वं किमनुशोचसि ॥
यावत्स्थास्यन्ति गिरयो यावत्स्थास्यन्ति सागराः ।
तावत्तवाक्षया कीर्तिः सपुत्रस्य भविष्यति ॥
छायां स्वपुत्रसदृशीं सर्वतोऽनपगां सदा ।
द्रक्ष्यसे त्वं च लोकेऽस्मिन्मत्प्रसादान्महामुने ॥
सोऽनुगीतो भगवता स्वयं रुद्रेण भारत ।
छायां पश्यन्परावृत्तः स मुनिः परया मुदा ॥
इति जन्म गतिश्चैव शुकस्य भरतर्षभ ।
विस्तरेण समाख्याता यन्मां त्वं परिपृच्छसि ॥
एतदाचष्ट मे राजन्देवर्षिर्नारदः पुरा ।
व्यासश्चैव महायोगी संजल्पेषु पदेपदे ॥
इतिहासमिमं पुण्यं मोक्षधर्मार्थसंहितम् ।
धारयेद्यः शमपरः स गच्छेत्परमां गतिम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ 341 ॥

12-341-1 सिद्धिं श्रुत्वा दोषान्बहुप्रियानिति ट. पाठः ॥ 12-341-5 निर्घातशब्दैर्गुरुभिर्हिमवान्दीर्यतीव हेति झ. ट. थ. पाठः ॥ 12-341-6 दिशश्च सरितश्चैवेति ध. पाठः । द्गुमाश्च सरितश्चैवेति ट. पाठः ॥ 12-341-21 व्यास उत्थाय । संधिरार्षः ॥ 12-341-23 ततः शुकेति दीर्घेण शौक्ष्येणाक्रन्दितं तथेति ट. थ. पाठः ॥ 12-341-25 तत एकाक्षरां वाचं भो इत्येव समीरयदिति थ. पाठः ॥ 12-341-30 वासांस्याददिरे काश्चिदिति थ. पाठः ॥ 12-341-36 दुष्प्रापामकृतात्मभिरिति ट. थ. पाठः ॥ 12-341-42 धारयेद्यः स परम इति ध. पाठः ॥