अध्यायः 349

श्रीहरेर्थज्ञेष्वग्रभागभाक्त्वप्रकारं पृष्टेन सौतिना तत्कथनाय शौनकादीन्प्रति ब्रह्मादीनां श्वेतद्वीपगमनादिप्रतिपादक व्यासवैशंपायनादिसंवादानुवादः ॥ 1 ॥

शौकन उवाच ।
कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः ।
यज्ञधारी च सततं वेदवेदाङ्गवित्तथा ॥
निवृत्तं चास्थितो धर्मं क्षेमी भागवतः प्रभुः ।
निवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः ॥
कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः ।
कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः ॥
एतं नः संशयं सौते छिन्धि गुह्यं सनातनम् ।
त्वया नारायणकथाः श्रुता वै धर्मसंहिताः ॥
सौतिरुवाच ।
जनमेजयेन यत्पृष्टः शिष्यो व्यासस्य धीमतः ।
तत्तेऽहं कथयिष्यामि पौराणं शौनकोत्तम ॥
श्रुत्वा माहात्म्यमेतस्य देहिनां परमात्मनः ।
जनमेजयो महाप्राज्ञो वैशंपायनमब्रवीत् ॥
इमे सब्रह्यका लोकाः ससुरासुरमानवाः ।
क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः ॥
मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम् । ये तु मुक्ता भवन्तीह पुण्यपापविवर्जिताः ।
ते सहस्रार्चिषं देवं प्रविशन्तीह शुश्रुम् ॥
अयं हि दुरनुष्ठेयो मोक्षधर्मः सनातनः ।
यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन् ॥
किंच ब्रह्मा च रुद्रश्च बलभित्प्रभुः ।
सूर्यस्ताराधिपो वायुरग्निर्वरुण एव च ॥
आकाशं जगती चैव ये च शेषा दिवौकसः ।
प्रलयं न विजानन्ति आत्मनः परिनिर्मितम् ॥
ततस्तेनास्थिता मार्गं ध्रुवमक्षरमव्ययम् । स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः ।
दोषः कालपरीमाणो महानेष क्रियावताम् ॥
एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम् ।
छिन्धीतिहासकथनात्परं कौतूहलं हि मे ॥
कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज ।
किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः ॥
ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम ।
ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै ॥
वैशंपायन उवाच ।
अहो गूढतमः प्रश्नस्त्वया पृष्टो जनेश्वर । नातप्ततपसा ह्येष नावेदविदुषा तथा ।
नापुराणविदा चैव शक्यो व्याहर्तुमञ्जसा ॥
हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः ।
कृष्णद्वैपायनो व्यासो वेदव्यासो महानृषिः ॥
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः ।
अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः ॥
एतान्समागतान्सर्वान्पञ्च शिष्यान्दमान्वितान् ।
शौचाचारसमायुक्ताञ्जितक्रोधाञ्जितेन्द्रियान् ॥
वेदानध्यापयामास महाभारतपञ्चमान् ।
मेरौ गिरिवरे रम्ये सिद्धचारणसेविते ॥
तेषामभ्यस्यतां वेदान्कदाचित्संशयोऽभवत् ।
एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः ॥
ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत ॥
शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः ।
पराशरसुतः श्रीमान्व्यासो वाक्यमथाब्रवीत् ॥
मया हि सुमहत्तप्तं तपः परमदारुणम् ।
भूतं भव्यं भविष्यं च जानीयामिति सत्तमाः ॥
तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च ।
नारायणप्रसादेन क्षीरोदस्यानुकूलतः ॥
त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम् ।
तच्छृणुध्वं यथान्यायं वक्ष्ये संशयमुत्तमम् ॥
यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा ।
परमात्मेति यं प्राहुः साङ्ख्ययोगविदो जनाः ॥
महापुरुषसंज्ञां स लभते स्वेन कर्मणा ।
तस्मात्प्रसूतमव्यक्तं प्रधानं तं विदुर्बुधाः ॥
अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात् ।
अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते ॥
योसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् ।
योऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः ॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
अहंकारप्रसूतानि महाभूतानि पञ्चधा ॥
महाभूतानि सृष्ट्वैव तान्गुणान्निर्ममे पुनः ।
भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तश्च ताञ्शृणु ॥
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः । वसिष्ठश्च महात्मा वै मनुः स्वायंभुवस्तथा ।
ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः ॥
वेदान्वेदाङ्गसंयुक्तान्यज्ञयज्ञाङ्गसंयुतान् ।
निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः ॥
अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत् ॥
रुद्रो रोषात्मको जातो दशान्यान्सोसृजस्त्वयम् ।
एकादशैते रुद्रास्तु विकाराः पुरुषाः स्मृताः ॥
ते रुद्राः प्रकृरतिश्चैव सर्वे चैव सुरर्षयः ।
उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः ॥
वयं सृष्टा हि भगवंस्त्वया च प्रभविष्णुना ।
येन यस्मिन्नधीकारे वर्तितव्यं पितामह ॥
योसौ त्वयाऽभिनिर्दिष्टो ह्यधिकारोऽर्थचिन्तकः ।
परिपाल्यः कथं तेन साहंकारेण कर्तृणा ॥
प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः ।
एवमुक्तो महादेवो देवांस्तानिदमब्रवीत् ॥
ब्रह्मोवाच ।
साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः ।
ममाप्येषा समुत्पन्ना चिन्ता या भवतामिह ॥
लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः ।
कथं बलक्षयो न स्याद्युष्माकं ह्यात्मनश्च वै ॥
इतः सर्वेऽपि गच्छामः शरणं लोकसाक्षिणम् ।
महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम् ॥
ततस्ते ब्रह्मणा सार्धमृषयो विबुधास्तथा ।
क्षीरादस्योत्तरं कूलं जग्मूर्लोकहितार्थिनः ॥
ते तपः समुपातिष्ठन्ब्रह्मोक्तं वेदकल्पितम् ।
स महानियमो नाम तपश्चर्या सुदारुणा ॥
ऊर्ध्वदृग्बाहवश्चैव एकाग्रमनसोऽभवन् ।
एकपादस्थिताः सर्वे काष्ठभूताः समाहिताः ॥
दिव्यं वर्षसहस्रं ते तपस्तप्त्वा सुदारुणम् ।
शुश्रुवुर्मधुरां वाणीं वेदवेदाङ्गभूषिताम् ॥
वागुवाच ।
भोभोः सब्रह्यका देवा ऋषयश्च तपोधनाः ।
स्वागतेनार्च्य वः सर्वाञ्श्रावये वाक्यमुत्तमम् ॥
विज्ञातं वो मया कार्यं तच्च लोकहितं महत् ।
प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम् ॥
सुतप्तं वस्तपो देवा ममाराधनकाम्यया ।
भोक्ष्यथास्य महासत्वास्तपसः फलमुत्तमम् ॥
एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः ।
यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः ॥
सर्वे भागान्कल्पयध्वं यज्ञेषु मम नित्यशः ।
तत्र श्रेयोऽभिधास्यामि यथाऽधीकारमीश्वराः ॥
वैशंपायन उवाच ।
श्रुत्वैतद्देवदेवस्य वाक्यं हृष्टतनूरुहाः ।
ततस्ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः ॥
वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन् ।
तस्मिन्सत्रे सदा ब्रह्मा स्वयं भागमकल्पयत् ॥
देवा देवर्षयश्चैव स्वंस्वं भागमकल्पयम् ।
ते कार्तयुगधर्माणो भागाः परमसत्कृताः ॥
प्राहुरादित्यवर्णं तं पुरुषं तमसः परम् ।
बृहन्तं सर्वगं देवमीशानं वरदं प्रभुम् ॥
ततोऽथ वरदौ देवस्तान्सर्वानमरान्स्थितान् ।
अशरीरो बभापेदं वाक्यं स्वस्थो महेश्वरः ॥
येन यः कल्पितो भागः स तथा मामुपागतः । प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम् ।
एतद्वो लक्षणं देवा मत्प्रसादसमुद्भवम् ॥
यूयं यज्ञैरिज्यमानाः समाप्तवरदक्षिणैः ।
युगेयुगे भविष्यध्वं प्रवृत्तिफलभागिनः ॥
यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः ।
कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान् ॥
यो मे यथा कल्पितवान्भागमस्मिन्महाक्रतौ ।
स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः ॥
यूयं लोकान्भावयध्वं यज्ञभागफलोचिताः ।
सर्वार्थचिन्तका लोके मयाऽधीकारनिर्मिताः ॥
याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः ।
ताभिराप्यायितबला लोकान्वै धारयिष्यथ ॥
यूयं हि भाविता यज्ञैः सर्वयज्ञेषु मानवैः ।
मां ततो भावयिष्यध्वमेषा वो भावना मम ॥
इत्यर्थं निर्मिता वेदा यज्ञाश्चौषधिभिः सह ।
एभिः सम्यक्प्रयुक्तैर्हि प्रीयन्ते देवताः क्षितौ ॥
निर्माणमेतद्युष्माकं प्रवृत्तिगुणकल्पितम् । मया कृतं सुरश्रेष्ठा यवात्कल्पक्षयादिह ।
चिन्तयध्वं लोकहितं यथादीकारमीश्वराः ॥
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठ इति सप्तैते मनसा निर्मिता हि ते ॥
एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः ।
प्रवृत्तिधर्मिणश्चैव प्राजापत्ये च कल्पिताः ॥
अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः ।
अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः ॥
सनः सनत्सुजातश्च सनकः समनन्दनः ।
सनत्कुमारः कपिलः सप्तमश्च सनातनः ॥
सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः ।
स्वयमागतविज्ञाना निवृत्तिं धर्ममास्थिताः ॥
एते योगविदो मुख्याः साङ्ख्यशास्त्रविशारदाः ।
आचार्या धर्मशास्त्रेषु मोक्षधर्मप्रवर्तकाः ॥
यतोऽहं प्रसृतः पूर्वमव्यक्तात्रिगुणो महान् ।
तस्मात्परतरो योसौ क्षेत्रज्ञ इति कल्पितः ॥
सोहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः ।
यो यथा निर्मितो जन्तुर्यस्मिन्यस्मिंश्च कर्मणि ॥
प्रवृत्तौ वा निवृत्तौ वा तत्फलं सोश्नुतेऽवशः ।
एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः ॥
एष माता पिता चैव युष्माकं च पितामहः ।
मयाऽनुशिष्टो भविता सर्वभूतवरप्रदः ॥
अस्य चैवात्मजो रुद्रो ललाटाद्यः समुत्थितः ।
ब्रह्मानुशिष्टो भविता सर्वभूतधरः प्रभुः ॥
गच्छध्वं स्वानधीकारांश्चिन्तयध्वं यथाविधि ।
प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु माचिरम् ॥
प्रदिश्यन्तां च कर्माणि प्राणिनां गतयस्तथा ।
परिनिष्ठितकालानि आयूंषीह सुरोत्तमाः ॥
इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तितः ।
अहिंस्या यज्ञपशवो युगेऽस्मिन्न तदन्यथा ॥
चतुष्पात्सकलो धर्मो भविष्यत्यत्र वै सुराः ।
ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति ॥
प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे ।
यत्र पादश्चतुर्थो वै धर्मस्य न भविष्यति ॥
ततो वै द्वापरं नाम मिश्रः कालो भविष्यति ।
द्विपादहीनो धर्मश्च युगे तस्मिन्भविष्यति ॥
ततस्तिष्येऽथ संप्राप्ते युगे कलिपुरस्कृते ।
एकपादस्थितो धर्मो यत्र तत्र भविष्यति ॥
देवा ऊचुः ।
देवा देवर्षयश्चोचुस्तमेवंवादिनं गुरुम् । एकपादस्थिते धर्मे यत्र क्वचन गामिनि ।
कथं कर्तव्यमस्माभिर्भगवंस्तद्वदस्व नः ॥
श्रीभगवानुवाच ।
`गुरवो यत्र पूज्यन्ते साधुवृत्तसमन्विताः । वस्तव्यं तत्र युष्माभिर्यत्र धर्मो न हीयते ॥'
यत्र वेदाश्च यज्ञाश्च तपः सत्यं दमस्तथा । अहिंसा धर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः ।
स वो देशः सेवितव्यो मा वोऽधर्मः पदा स्पृशेत् ॥
व्यास उवाच ।
तेऽनुशिष्टा भगवता देवाः सपिगणास्तथा ।
नमस्कृत्वा भगवते जग्मुर्देशान्यथेप्सितान् ॥
गतेषु त्रिदिवौकस्सु ब्रह्मैकः पर्यवस्थितः ।
दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम् ॥
तं देवो दर्शयामास कृत्वा हयशिरो महत् ।
साङ्गानावर्तयन्वेदान्कमण्डलुत्रिदण्डधृक् ॥
ततोऽश्वशिरसं दृष्ट्वातं देवममितौजसम् ।
लोककर्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया ॥
मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः ।
स परिष्वज्य देवेन वचनं श्रावितस्तदा ॥
भगवानुवाच ।
लोककार्यगतीः सर्वास्त्वं चिन्तय यथाविधि । धाता त्वं सर्वभूतानां त्वं प्रभुर्जगतो गुरुः ।
त्वय्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्जसा ॥
यदा च सुरकार्यं ते अविषह्यं भविष्यति ।
प्रादुर्भावं गमिष्यामि तदात्मज्ञानदैशिकः ॥
व्यास उवाच ।
एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत ।
तेनानुशिष्टो ब्रह्मापि स्वं लोकमचिराद्गतः ॥
एवमेष महाभागः पद्मनाभः सनातनः ।
यज्ञेष्वग्रहरः प्रोक्तो यज्ञधारी च नित्यदा ॥
निवृत्तिं चास्थितो धर्मं गमिमक्षयधर्मिणाम् ।
प्रवृत्तिधर्मान्विदधे कृत्वा लोकस्य चित्रताम् ॥
स आदिः स मध्यः स चान्तः प्रजानां स धाता स धेयं स कर्ता स कार्यम् ।
युगान्ते प्रसुप्तः सुसंक्षिप्य लोकान् युगादौ प्रबुद्धो जगद्ध्युत्ससर्ज ॥
तस्मै नमध्वं देवाय निर्गुणाय महात्मने ।
अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम् ॥
महाभूताधिपतये रुद्राणां पतये तथा ।
आदित्यपतये चैव वसूनां पतये तथा ॥
अश्विभ्यां पतये चैव मरुतां पतये तथा ।
वेदयज्ञाधिपतये वेदाङ्गपतयेऽपि च ॥
समुद्रावसिने नित्यं हरये मुञ्जकेशिने ।
शान्ताय सर्वभूतानां मोक्षधर्मानुभाषिणे ॥
तपसां तेजसां चैव पतये यशसामपि ।
वचसां पतये नित्यं सरितां पतये तथा ॥
कपर्दिने वराहाय एकशृङ्गाय धीमते । विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा ।
सूक्ष्माय ज्ञानदृश्याय अजरायाक्षयाय च ॥
एष देवः संचरति सर्वत्र गतिरव्ययः । [एष चैतत्परं ब्रह्म ज्ञेयो विज्ञानचक्षुषा ॥]
एवमेतत्पुरा दृष्टं मया वै ज्ञानचक्षुषा ।
कथितं तच्च वै सर्वं मया पृष्टेन तत्त्वतः ॥
क्रियतां मद्वचः शिष्याः सेव्यतां हरिरीश्वरः ।
गीयतां वेदशब्दैश्च पूज्यतां च यथाविधि ॥
वैशंपायन उवाच ।
इत्युक्तास्तु वयं तेन वेदव्यासेन धीमता ।
सर्वे शिष्या सुतश्चास्य शुकः परमधर्मवित् ॥
स चास्माकमुपाध्यायः सहास्माभिर्विशांपते ।
चतुर्वेदोद्गताभिस्तमृग्भिः समभितुष्टुवे ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
एवं मेऽकथयद्राजन्पुरा द्वैपायनो गुरुः ॥
यश्चेदं शृणुयान्नित्यं यश्चैनं परिकीर्तयेत् ।
नमो भगवते कृत्वा समाहितमतिर्नरः ॥
भवत्यरोगो मतिमान्बलरूपसमन्वितः ।
आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥
कामकामी लभेत्कामं दीर्घं चायुरवाप्नुयात् ।
ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत् ॥
वैश्यो विपुललाभः स्याच्छूद्रः सुखमवाप्नुयात् ।
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् ॥
लग्नगर्भा विमुच्येत गर्भिणी जनयेत्सुतम् ।
बन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत् ॥
क्षेमेण गच्छेदध्वानमिदं यः पठते पथि ।
यो यं कामं कामयते स तमाप्नोति च ध्रुवम् ॥
इदं महर्षेर्वचनं विनिश्चितं महात्मनः पुरुषवरस्य कीर्तितम् ।
समागमं चर्षिदिवौकसामिमं निशम्य भक्ताः सुसुखं लभन्ते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये एकोनपञ्चाशदधिकत्रिशततमोऽध्यायः ॥ 349 ॥

12-349-1 यज्ञेष्वाहूयते प्रभुरिति ट. ध. पाठः ॥ 12-349-2 क्षेमं भागवतं प्रभुरिति ट. पाठः ॥ 12-349-12 स्मृतिकालपरीमाणमिति झ. पाठः ॥ 12-349-29 लोकेषु महाराजेति कथ्यत इति थ. पाठः ॥ 12-349-32 निष्पन्नानष्टौ मूर्तिमतः शृण्विति ध. पाठः ॥ 12-349-35 निर्ममे लोकसृष्ट्यर्थमिति थ. ध. पाठः ॥ 12-349-90 कमण्डलुपवित्रधृगिति ध. पाठः ॥ 12-349-94 तदात्मज्ञानयोगजमिति ट. ध. पाठः ॥