अध्यायः 354

नरनारायणाभ्यां नारदाय श्रीभगवन्महिमानुवर्णनम् ॥ 1 ॥ वदर्थाश्रमे नरादेन चिरतरं तपश्चर्या ॥ 2 ॥

नरनारायणावूचतुः ।
धन्योस्यनुगृहीतोसि यत्ते दृष्टः स्वयंप्रभुः ।
न हि तं दृष्टवान्कश्चित्पद्मयोनिरपि स्वयम् ॥
अव्यक्तयोनिर्भगवान्दुर्दर्शः पुरुषोत्तमः ।
नारदैतद्धि नौ सत्यं वचनं समुदाहृतम् ॥
नास्य भक्तात्प्रियतरो लोके कश्चन विद्यते ।
ततः स्वयं दर्शितवान्स्वमात्मानं द्विजोत्तम ॥
तपो हि तप्यतस्तस्य यत्स्थानं परमात्मनः ।
न तत्संप्राप्नुते कश्चिदृते ह्यावां द्वितोत्तम ॥
या हि सूर्यसहस्रस्य समस्तस्य भवेद्द्युतिः ।
स्थानस्य सा भवेत्तस्य स्वयं तेन विराजता ॥
तस्मादुत्तिष्ठते विप्र देवाद्विश्वभुवः पतेः ।
क्षमा क्षमावतां श्रेष्ठ यया भूमिस्तु युज्यते ॥
तस्माच्चोत्तिष्ठते देवात्सर्वभूतहिताद्रसः ।
आपो हि तेन युज्यन्ते द्रवत्वं प्राप्नुवन्ति च ॥
तस्मादेव समुद्भूतं तेजो रूपगुणात्मकम् ।
येन संयुज्यते सूर्यस्ततो लोके विराजते ॥
तस्माद्देवात्समुद्भूतः स्पर्शस्तु पुरुषोत्तमात् ।
येन स्म युज्यते वायुस्ततो लोकान्विवात्यसौ ॥
तस्माच्चोत्तिष्ठते शब्दः सर्वलोकेश्वरात्प्रभोः ।
आकाशं युज्यते येन ततस्तिष्ठत्यसंवृतम् ॥
तस्माच्चोत्तिष्ठते देवात्सर्वभूतगतं मनः ।
चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः ॥
सद्भूतोत्पादकं नाम तत्स्थानं वेदसंज्ञितम् ।
विद्यासहायो यत्रास्ते भगवान्हव्यकव्यभुक् ॥
ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः ।
तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम ॥
सर्वलोके तमोहन्ता आदित्यो द्वारमुच्यते । ` ज्वालामाली महातेजा येनेदं धार्यते जगत् ॥'
आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित्क्वचित् ।
परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्युत ॥
तस्मादपि च निर्मुक्ता अनिरुद्धतनौ स्थिताः ।
मनोभूतास्ततो भूत्वा प्रद्युम्नं प्रविशन्त्युत ॥
प्रद्युम्नाच्चापि निर्मुक्ता जीवं संकर्षणं ततः ।
विशन्ति विप्रप्रवराः साङ्ख्या भागवतैः सह ॥
ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा । प्रविशन्ति द्विजश्रेष्ठाः क्षेत्रज्ञं निर्गुणात्मकम् ।
सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः ॥
समाहितमनस्काश्च नियताः संयतेन्द्रियाः ।
एकान्तभावोपगता वासुदेवं विशन्ति ते ॥
आवामपि च धर्मस्य गुहे जातौ द्विजोत्तम ।
रम्यां विशालामाश्रित्य तप उग्रं समास्थितौ ॥
ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः ।
भविष्यन्ति त्रिलोकस्थास्तेषां स्वस्तीत्यथो द्विज ॥
विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम ।
आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यगनुत्तमम् ॥
`स्वार्थेन विधिना युक्तः सर्वकृच्छ्रव्रते स्थितः ।' आवाभ्यामपि दृष्टस्त्वं श्वेतद्वीपे तपोधन ॥
समागतो भगवता संकल्पं कृतवांस्तथा ।
सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे ॥
यद्भविष्यति वृत्तं वा वर्तते वा शुभाशुभम् ।
सर्वं स ते कथितवान्देवदेवो महामुने ॥
वैशंपायन उवाच ।
एतच्छ्रुत्वा तयोर्वाक्यं तपस्युग्रे च वर्ततोः ।
नारदः प्राञ्जलिर्भूत्वा नारायणपरायणः ॥
जजाप विधिवन्मन्त्रान्नारायणगतान्बहून् ।
दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे ॥
अवसत्स महातेजा नारदो भगवानृषिः ।
तावेवाभ्यर्चयन्देवौ नरनारायणौ च तौ ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये चतुःपञ्चादशधिकत्रिशततमोऽध्यायः ॥ 354 ॥

12-354-2 आकाशयोनिर्भगवानिति ध. पाठः ॥ 12-354-7 सर्वभूतहितोरस इति थ. पाठः ॥ 12-354-15 परमाण्वात्मभूतास्तु तं देशं प्रतिसन्त्युतेति थ. पाठः ॥ 12-354-17 विप्रप्रवरास्तेषां शुद्धा गतिर्हिसेति ध. पाठः ॥ 12-354-20 विशालां बदरीम् ॥