अध्यायः 358

वैशंपायनेन जनमेजयाय एकान्तिधर्मनिरूपणपूर्वकं लोके तत्प्रचारप्रकारप्रतिपादनम् ॥ 1 ॥

जनमेजय उवाच ।
अहो ह्येकान्तिनः सर्वान्प्रीणाति भगवान्हरिः ।
विधिप्रयुक्तां पूजां च गृह्णाति शिरसा स्वयम् ॥
ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः ।
तेषां च या हि निर्दिष्टा पारम्पर्यागता गतिः ॥
चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम् ।
एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम् ॥
नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः ।
अगत्वा गतयतिस्रो यद्गच्छत्यव्ययं हरिम् ॥
सहोपनिषदान्वेदान्ये विप्राः सम्यगास्थिताः ।
पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः ॥
तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम् ।
केनैष धर्मः कथितो देवेन ऋषिणाऽपि वा ॥
एकान्तिनां च का चर्या कदा चोत्पादिता विभो ।
एतन्मे संशयं छिन्धि परं कौतूहलं हि मे ॥
वैशंपायन उवाच ।
समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे ।
अर्जुने विमनस्के च गीता भगवता स्वयम् ॥
आगतिश्च गतिश्चैव पूर्वं ते कथिता मया ।
गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः ॥
संमितः सामवेदेन पुरैवादियुगे कृतः ।
धार्यते स्वयमीशेन राजन्नारायणेन ह ॥
एतदर्थं महाराज पृष्टः पार्थेन नारदः ।
ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः ॥
गुरुणा च मयाऽप्येव कथितो नृपसत्तम ।
यथा तत्कथितं तत्र नारदेन तथा शृणु ॥
यदाऽऽसीन्मानजं जन्म नारायणमुखोद्गतम् ।
ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम् ॥
तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत ।
फेनपा ऋषयश्चैव तं धर्मं प्रतिपेदिरे ॥
वैखानसाः फेनपेभ्यो धर्मं तं प्रतिपदिरे ।
वैखानसेभ्यः सोपस्तु ततः सोऽन्तर्दधे पुनः ॥
यदाऽऽसीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप ।
यदा पितामहेनैव सोमाद्धर्मः परिश्रुतः ॥
नारायणात्मको राजन्रुद्राय प्रददौ च तम् ।
ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप ॥
वालखिल्यानृषीन्सर्वान्धर्ममेनमपाठयत् ।
अन्तर्दधे ततो भूयस्तस्य देवस्य मायया ॥
तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत् ।
तत्रैष धर्मः संभूतः स्वयं नारायणान्नृप ॥
सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात् ।
तपसा वै सुतप्तेन दमेन नियमेन च ॥
त्रिः परिक्रान्तवानेतत्सुपर्णो धर्मसुत्तमम् ।
यस्मात्तस्माद्व्रतं ह्येतत्रिसौपर्णमिहोच्येत ॥
ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम् ।
सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः ॥
वायुना द्विपदश्रिष्ठे प्रथितो जगदायुषा ।
वायोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः ॥
तेभ्यो महोदधिश्चैव प्राप्तवान्धर्ममुत्तमम् ।
अन्तर्दधे ततो भूयो नारायणसमाहृतः ॥
यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः ।
ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु ॥
जगत्स्रष्टुमना देवो हरिर्नारायणः स्वयम् ।
चिन्तयामास पुरुषं जगत्सर्गकरं प्रभुम् ॥
अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः स्मृतः ।
प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः ॥
सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा ।
श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत ॥
धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः ।
तेन सृष्टं कृतयुगं स्थापयस्व यथाविधि ॥
ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे ।
धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम् ॥
आरण्यकेन सहितं नारायणमुखोद्गतम् ।
उपदिश्य ततो धर्मं ब्रह्मणेऽमिततेजसे ॥
तं कार्तयुगधर्माणं निराशीः कर्मसंज्ञितम् ।
जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम् ॥
ततोऽथ वरदो देवो ब्रह्मा लोकपितामहः ।
असृजत्स ततो लोकान्कृत्स्नान्स्थावरजङ्गमान् ॥
ततः प्रावर्तत तदा आदौ कृतयुगं शुभम् ।
ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः ॥
तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत् ।
पूजयामास देवेशं हरिं नारायणं प्रभुम् ॥
धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः ।
अध्यापयामास तदा लोकानां हितकाम्यया ॥
ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप ।
अध्यापयत्पुराऽव्यग्रः सर्वलोकपतिर्विभुः ॥
ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम् । दिशापालं सुधर्माणमध्यापयत भारत ।
सोऽन्तर्दधे ततो भूयः प्राप्ते त्रेतायुगे पुनः ॥
नासत्ये जन्मनि पुरा ब्रह्मणः पार्थिवोत्तम ।
धर्ममेतं स्वयं देवो हरिर्नारायणः प्रभुः ॥
तज्जगादारविन्दाक्षो ब्रह्मणः पश्यतस्तदा ।
सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप ॥
सनत्कुमारादपि च वीरणो वै प्रजापतिः ।
कृतादौ कुरुशार्दूल धर्ममेतदधीतवान् ॥
वीरणश्चाप्यधीत्यैनं रैभ्याय मुनये ददौ ।
रैभ्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे ॥
कुक्षिपालाय च ददौ विशालाय च धर्मिणे ।
ततोऽप्यन्तर्दधे भूयो नारायणमुखोद्गतः ॥
अण्डजे जन्मनि पुनर्ब्रह्मणे हरियोनये ।
एष धर्मः समुद्भूतो नारायणमुखात्पुनः ॥
गृहीतो ब्रह्मणा राजन्प्रयुक्तश्च यथाविधि ।
अध्यापिताश्च मुनयो नाम्ना बर्हिपदो नृप ॥
बर्हिषद्भ्यश्च संप्राप्तः सामवेदान्तगं द्विजम् ।
ज्येष्ठं नामाभिविख्यातं ज्येष्ठसामव्रतो हरिः ॥
ज्येष्ठाच्चाप्यनुसंक्रान्तो राजानमविकम्पनम् ।
अन्तर्दधे ततो राजन्नेष दर्मः प्रभो हरेः ॥
यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप ।
तत्रैष धर्मः कथितः स्वयं नारायणेन ह ॥
पितामहाय शुद्धाय युगादौ लोकधारिणे ।
पितामहश्च दक्षाय धर्ममेतं पुरा ददौ ॥
ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृपोत्तम ।
आदित्ये सवितुर्ज्येष्ठे विवस्वाञ्जगृहे ततः ॥
त्रेतायुगादौ च ततो विवस्वान्ममवे ददौ ।
मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ ॥
इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः ।
गमिष्यति क्षयान्ते च पुनर्नारायणं नृप ॥
यतीनां चापि यो धर्मः स ते पूर्वं नृपोत्तम ।
कथितो हरिगीतासु समासविधिकल्पितः ॥
नारदेन सुसंप्राप्तः सरहस्यः ससंग्रहः ।
एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप ॥
एवमेव महान्धर्मे आद्यो राजन्सनातनः ।
दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा ॥
धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा ।
अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः ॥
एकव्यूहविभागो वा क्वचिद्द्विव्यूहसंज्ञितः ।
त्रिव्यूहश्चापि संख्यातश्चतुर्व्यूहश्च दृश्यते ॥
हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा ।
जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः ॥
मनश्च प्रथितं राजन्पञ्चन्द्रियसमीरणम् ।
एष लोकनिधिः श्रीमानेषु लोकविसर्गकृत् ॥
अकर्ता चैव कर्ता च कार्यं कारणमेव च ।
यथेच्छति तथा राजन्क्रीडते पुरुषोऽव्ययः ॥
एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम ।
मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः ॥
एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप ।
यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दनः ॥
अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः ।
भवेत्कृतयुगप्राप्तिराशीः कर्मविवर्जिता ॥
एवं स भगवान्व्यासो गुरुर्मम विशांपते ।
कथयामास धर्मज्ञो धर्मराजे द्विजोत्तमः ॥
ऋषीणां संनिधौ राजञ्शृण्वतोः कृष्णभीष्मयोः ।
तस्याप्यकथयत्पूर्वं नारदः सुमहातपाः ॥
देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम् । यत्र चैकान्तिनो यान्ति नारायणपरायणाः ।
`तदेव परमं स्थानं मुक्तानां केवलं भवेत् ॥'
जनमेजय उवाच ।
एवं बहुविधं धर्मं प्रविबुद्धैर्निषेवितम् ।
न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः ॥
वैशंपायन उवाच ।
तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिताः ।
सात्विकी राजसी चैव तामसी चैव भारत ॥
देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह ।
सात्विकः पुरुषव्याघ्र भवेन्मोक्षाय निश्चितः ॥
अत्रापि स विजानाति पुरुषं ब्रह्मवित्तमम् ।
नारायणां परं मोक्षे ततो वै सात्विकः स्मृतः ॥
मनीषितं च प्राप्नोति चिन्तयन्पुरुषोत्तमम् ।
एकान्तभक्तः सततं नारायणपरायणः ॥
मनीषिणो हि ये केचिद्यतयो मोक्षधर्मिणः ।
तेषां विच्छिन्नतृष्णानां योगक्षेमवहो हरिः ॥
जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।
सात्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः ॥
साङ्ख्ययोगेन तुल्यो हि धर्म एकान्तिसेवितः ।
नारायणात्मके मोक्षे ततो यान्ति परां गतिं ॥
नारायणेन दृष्टस्तचु प्रतिबुद्धो भवेत्पुमान् ।
एवमात्मेच्छया राजन्प्रतिबुद्धो न जायते ॥
राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते । तदात्मकं हि पुरुषं जायमानं विशांपते ।
प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वयम् ॥
पश्यत्येनं जायमानं ब्रह्मा लोकपितामहः ।
रजसा तपसा चैव मानसं समभिप्लुतम् ॥
कामं देवाश्च ऋषयः सत्वस्था नृपसत्तम ।
हीनाः सत्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः ॥
जनमेजय उवाच ।
कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम् ।
वद सर्वं यथादृष्टं प्रवृत्तिं च यथाक्रमम् ॥
वैशंपायन उवाच ।
सुसूक्ष्मं तत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः ।
पुरुषः पुरुषं गच्छेन्निष्क्रियं पञ्चविंशकम् ॥
एवमेकं साङ्ख्ययोगं वेदारण्यकमेव च ।
परस्पराङ्गान्येतानि पाञ्चरात्रं च कथ्यते ॥
एष एकान्तिनां धर्मो नारायणपरात्मकः ॥
यथा समुद्रात्प्रसृता जलौघा स्तमेव राजन्पुनराविशन्ति ।
इमे तथा ज्ञानमहाजलौघा नारायणं वै पुनराविशन्ति ॥
एष ते कथितो धर्मः सात्वतो यदुबान्धव ।
कुरुष्वैनं यथान्यायं यदि शक्तोसि भारत ॥
एवं हि स महाभागो नारदो गुरवे मम ।
श्वेतानां यतिनां चाह एकान्तगतिमख्याम् ॥
व्यासश्चाकथयत्प्रीत्या धर्मपुत्राय धीमते ।
स एवायं मया तुभ्यमाख्यातः प्रसृतो गुरोः ॥
इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम ।
यथैव त्वं तथैवान्ये न भजन्ति च मोहिताः ॥
कृष्ण एव हि लोकानां भावनो मोहनस्तथा ।
संहारकारकश्चैव कारणं च विशांपते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये अष्टपञ्चाशदधिकत्रिशततमोऽध्यायः ॥ 358 ॥

12-358-2 दग्धेन्धनाः नष्टवासनाः । पारम्पर्यागता गुरुसंप्रदायागतागतिर्ज्ञानम् ॥ 12-358-23 प्रथितो गदता पुरेति थ. पाठः ॥ 12-358-25 यदा भूयस्तमश्चास्य बुद्धिरासीन्महात्मनः इति ट. पाठः ॥ 12-358-26 जगत्सर्गकरः प्रभुरिति थ. ध. पाठः ॥ 12-358-31 नासिक्ये जन्मनीति थ.ध. पाठः ॥ 12-358-42 रौत्र्याय मनवे ददाविति ध. ध. पाठः । सुव्रताय सुधन्वत इति ट. ध. पाठः ॥ 12-358-44 ब्रह्मणो हरिमेधस इति ट. ध. पाठः ॥ 12-358-49 युगादौ लोकसाक्षिणे इति ट. पाठः ॥ 12-358-58 निर्मलो निष्कलस्तथेति ट. पाठः ॥ 12-358-59 अतश्च प्रथितो राजन्पञ्चेन्द्रियसमीरिति इति थ. ध. पाठः ॥ 12-358-63 कृतयुगप्राप्तिरीदृशैः कर्मवर्जितैरिति ट. ध. पाठः । आशीः कर्म काम्यंकर्म ॥ 12-358-70 नारायणपरो मोक्ष इति झ. ट. पाठः ॥ 12-358-72 यतयो मोक्षकाङ्क्षिण इति ट. ध. पाठः ॥ 12-358-77 एनं राजसं ब्रह्मा पश्यति प्रवृत्तिमर्गि नियोजयतीत्यर्थः । ब्रह्मा रुद्रोऽथवा पुनरिति थ.ध. पाठः ॥ 12-358-81 परस्परान्यान्येतानीति ट. पाठः ॥ 12-358-87 धर्मः पुण्यः पार्थिवसत्तमेति थ. पाठः ॥ 12-358-88 संसारकारकश्चैवेति ध. पाठः ॥